भारतकोश
रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)

रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)

Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary

सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished94 पृष्ठ

पृष्ठ 12, कुल 94 में से

संदर्भ में पढ़ें
पृष्ठ 12

१.] रसरत्नाकरस्य रसायनखण्डः । ५ गर्भयन्त्रलक्षणम् । चतुरङ्गुलदीर्घं स्याद्विस्तारे चाङ्गुलत्रयम् ॥ ३८ ॥ मृन्मयं संपुटं कृत्वा छायाशुष्कं च कारयेत् । लवणं विंशभागं स्याद्भागमेकं तु गुग्गुलुम् ॥ ३९ ॥ सर्वं तोयैः प्रपिष्याथ तेनैव संपुटोदरम् । लिप्त्वा तत्र रसं रुन्ध्याद्गर्भयन्त्रमिदं भवेत् ॥ ४० ॥ पारदमारणस्य पञ्चमः प्रकारः । विमला पारदं शुद्धं तुल्यं निर्गुण्डिकाद्रवैः । मर्दयेत्त्रिदिनं तं वै काचकूप्यां निवेशयेत् ॥ ४१ ॥ काचकूप्या ह्यभावे तु निरुन्ध्याच्छावसंपुटे । पाचयेद्वालुकायन्त्रे चतुर्यामान्मृतो भवेत् ॥ ४२ ॥ पारदमारणस्य षष्ठः प्रकारः । माक्षिकाद्धौतसत्त्वं तु तत्समं शुद्धगन्धकम् । द्वाभ्यां तुल्यं शुद्धरसं दिनं निर्गुण्डिकाद्रवैः ॥ ४३ ॥ तत्सर्वं मर्दितं गोलं वज्रमूषान्वितं पचेत् । दिनैकं वालुकायन्त्रे मृतं स्याद्रक्तवर्णकम् ॥ ४४ ॥ पारदमारणस्य सप्तमः प्रकारः । उर्ध्वाधो गन्धकं तुल्यं दातव्यं शुद्धपारदे । उदरे पक्वमूषायाः काकमाचीद्रवं पुनः ॥ ४५ ॥ द्वाभ्यां चतुर्गुणं दत्त्वा तामाच्छाद्य पचेच्छनैः । क्रमाग्नौ वालुकायन्त्रे चतुर्यामान्मृतो भवेत् ॥ ४६ ॥ पारदमारणस्याष्टमः प्रकारः । स्नुह्या वा हेमवल्ल्या. वा क्षीरैः शुद्धरसं दिनम् । मर्दयेद्गन्धकं तुल्यं गर्भयन्त्रगतं पुटेत् ॥ ४७ ॥ पूर्ववत्क्रमयोगेन मृतं योगेषु योजयेत् । पारदमारणस्य नवमः प्रकारः । शुद्धमृतसमं गुञ्जालाक्षोर्णामधुटङ्कणम् ॥ ४८ ॥