BharatKosha
Back to the archive

ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)

Ritusamharam of Kalidasa with Hindi Commentary

by महाकवि कालिदास

DevanagariHindipublished91 pages

प्रारंभिक पृष्ठ एवं महाकवि कालिदास भूमिका

Page 1Permalink

THE RITUSAMHÂRA OF KÂLIDÂSA. With the Commentary (the Chandrikâ) OF MAṆIRÂMA AND THE SṚIṄGÂRATILAKA. THIRD EDITION. EDITED BY WÂSUDEV LAXMAṆ S'ÂSTRÎ PAṆAṢÎKAR. PUBLISHED BY TUKÂRÂM JÂVAJÎ, PROPRIETOR OF JAVAJI DADAJI'S “NIRṆAYA-SÂGAR” PRESS, Bombay. 1910. PDF Creation and Uploading by: Hari Parshad Das (HPD) on 28 May 2014.

Page 2Permalink

BOMBAY: PRINTED BY B. R. GHANEKAR, AT THE "NIRNAYA-SAGAR" PRESS, FOR THE PUBLISHER.

Page 3Permalink

श्रीः । महाकविश्रीकालिदासविरचितं ऋतुसंहारम् । भारद्वाजगोत्रोत्पन्नमणिरामविरचितया चन्द्रिकाख्यया व्याख्यया समेतम् । शृङ्गारतिलकं च । पणशीकरोपाह्वलक्ष्मणात्मजवासुदेवशर्मणा संशोधितम् । तृतीयावृत्तिः । तच्च शाके १८३२ वत्सरे मुम्बय्यां तुकाराम जावजी इत्येतेषां कृते तेषामेव निर्णयसागर मुद्रालये वा. रा. घाणेकर इत्यनेन मुद्रितम् मूल्यं रूप्यकपादः ।

Page 4Permalink

श्रीः। ऋतुसंहारम्। चन्द्रिकया समेतम्। प्रथमः सर्गः। यः समस्तविदुषां शिरोमणिर्येन राजति सभा विपश्चिताम्। तं महीश्वरकृताङ्घ्रिवन्दनं नीलकण्ठपितरं नमाम्यहम् ॥ शृङ्गारैकप्रधानं यदृर्तुसंहारनामकम् । काव्यं तत्कालिदासीयं व्याख्यास्येऽहं यथामति ॥ अप्रचारतमोमग्ना कालिदासकृतिर्यतः। क्रियतेऽतश्चन्द्रिकेयं विबुधानन्ददायिनी ॥ अथ तत्रभवान्कालिदासनामा कविश्चिकीर्षितस्य ग्र- न्थस्य निर्विघ्नपरिसमाप्त्यर्थम् ‘आशीर्नमस्क्रिया वस्तु- निर्देशो वापि तन्मुखम्’ इत्याशीराद्यन्यतमस्य मङ्गलत्वेन तदन्यतरद्वस्तुनिर्देशरूपं मङ्गलमाचरन्नादौ ग्रीष्मकालवर्ण- नरूपां कथां प्रियायै कश्चिन्नायकः प्रस्तौति— प्रचण्डसूर्यः स्पृहणीयचन्द्रमाः सदावगाहक्षतवारिसंचयः। दिनान्तरम्योऽभ्युपशान्तमन्मथो निदाघकालोऽयमुपागतः प्रिये ॥ १ ॥ प्रचण्डेति॥ प्रचण्ड उग्रः सूर्यो दिवाकरो यस्मिन्स तथोक्तः। १. ‘क्षम.’ २. ‘समुपागतः.’

Page 5Permalink

स्पृहणीयो वाञ्छनीयश्चन्द्रमाश्चन्द्रो यस्मिन्स तथोक्तः। 'हिमां- शुश्चन्द्रमाश्चन्द्रः' इत्यमरः। सदा नि-रन्तरमवगाहेन निम- ज्जनपूर्वकस्नानैः क्षतः क्षीणो वारिसंचयो जलसमूहो यस्मिन्स तथोक्तः। दिनान्तः संध्याकालो रम्यो रमणीयो यस्मिन्स तथोक्तः। दिवसे सूर्यसत्वादौष्ण्यजनितमाकुलत्वं चन्द्रो- दयादिना च शीतलत्वात्तस्य रम्यत्वम्। अभि समन्तादुप- शान्तो मन्मथः कंदर्पो यस्मिन्स तथोक्तः। 'वसन्ते द्विगुणः कामः' इति वसन्तापगमे कामोपशान्तिः। अयं निदाघकालो ग्रीष्मकाल उपागतः संप्राप्तः हे प्रिये। वंशस्थवृत्तमेतत्— 'जतौ तु वंशस्थमुदीरितं जरौ' इति लक्षणात्॥ निशाः शशाङ्कक्षतनीलराजयः क्वचिद्विचित्रं जलयन्त्रमन्दिरम्। मणिप्रकाराः सरसं च चन्दनं शुचौ प्रिये यान्ति जनस्य सेव्यताम्॥ २॥ निशा इति॥ हे प्रिये, क्वचिच्छशाङ्केन चन्द्रमसा कर्त्रा क्षता दूरीकृता नीलराजयस्तमःपङ्क्तयो यासां ता- स्तथोक्ता निशा रात्रयः। 'निशा निशीथिनी रात्रिः' इत्यमरः। क्वचिद्विचित्रं जलयन्त्रेण युक्तं मन्दिरं गृहम्। क्वचिन्मणिप्रकारा मणिविशेषाश्चन्द्रकान्तादयः। क्वचित्स- रसं सान्द्रं चन्दनं च शुचौ ग्रीष्मकाले जनस्य लोकस्य से- व्यतामुपभोगविषयतां यान्तीति वचनविपरिणामेनान्वयः॥ सुवासितं हर्म्यतलं मनोहरं प्रियामुखोच्छ्वासविकम्पितं मधु। १. 'विकल्पितम्.'

Page 6Permalink

प्रथमः सर्गः । ३ सुतन्त्रिगीतं मदनस्य दीपनं शुचौ निशीथेऽनुभवन्ति कामिनः ॥ ३ ॥ सुवासितमिति ॥ कामिनो विलासिनः शुचौ ग्रीष्मकाले निशीथेऽर्धरात्रे । 'अर्धरात्रनिशीथौ द्वौ' इत्यमरः । सुवासितं सुगन्धजलसेकादिना सुगन्धीकृतं मनोहरं सुन्दरं हर्म्यतलं प्रासादतलम् । प्रियामुखस्य कान्तावदनस्यो- च्छ्वासेन विकम्पितं मधु । मदनस्य कंदर्पस्य दीपनमु- द्दीपकं सुतन्त्रिणा गीतं गानं च । 'गीतं गानमिमे समे' इत्यमरः । अनुभवन्त्यास्वादयन्तीत्यर्थः । एतेनापि ग्री- ष्मकालस्य कामिनां मनोहरत्वमुक्तम् ॥ नितम्बबिम्बैः संदुकूलमेखलैः स्तनैः सहाराभरणैः सचन्दनैः । शिरोरुहैः स्नानकषायवासितैः स्त्रियो निदाघं शमयन्ति कामिनाम् ॥ ४ ॥ नितम्बेति ॥ स्त्रियो विलासिन्यो दुकूलानि वस्त्राणि मे- खला रसनाश्च ताभिः सहितानि तैस्तथोक्तैर्नितम्बबिम्बैः क- टिपश्चाद्भागैः । 'पश्चान्नितम्बः स्त्रीकट्याः' इत्यमरः । हारा- आभरणानि च तैः सहितास्तैस्तथोक्तैः सचन्दनैश्चन्दन- लिप्तैः स्तनैः । स्नाने स्नानकाले यः कषायो लापितसुगन्धि- द्रव्यस्तेन वासिताः संजातवासास्तैस्तथोक्तैः शिरोरुहैः केशैः कामिनां निदाघमूष्माणं शमयन्ति दूरीकुर्वन्तीत्यर्थः ॥ नितान्तलाक्षारसरागरञ्जितै- र्नितम्बिनीनां चरणैः सनूपुरैः । १. 'सुदुकूल.' २. 'लोहितैः.'

Page 7Permalink

४ ऋतुसंहारे. पदे पदे हंसरुतानुकारिभि- र्जनस्य चित्तं क्रियते समन्मथम् ॥ ५ ॥ नितान्तेति ॥ नितान्तमत्यन्तं लाक्षारसस्य रागेण र- ञ्जितास्तैस्तथोक्तैः सनूपुरैर्मञ्जीरसहितैः । 'मञ्जीरो नू- पुरोऽस्त्रियाम्' इत्यमरः । पदे पदे प्रतिपदं हंसरुतं मरालशब्दमनुकुर्वन्ति तैस्तथोक्तैर्नितम्बिनीनां चरणैर्जन- स्य लोकस्य चित्तमन्तःकरणं समन्मथं मदनसहितम् । मदनो मन्मथो मारः' इत्यमरः । क्रियत इत्यर्थः ॥ पयोधराश्चन्दनपङ्कचर्चिता- स्तुषारगौरार्पितहारशेखराः । नितम्बदेशाश्च सहेममेखलाः प्रकुर्वते कस्य मनो न सोत्सुकम् ॥ ६ ॥ पयोधरा इति ॥ चन्दनस्य पङ्केन द्रवेण चर्चिता लिप्ताः । तुषारवद्गौराः शुभ्रवर्णा अर्पिता हारशेखराः श्रेष्ठहारा येषु ते तथोक्ताः पयोधराः स्तनाः । सहेममेखलाः सुवर्णरसनासहि- ताः। 'स्त्रीकट्यां मेखला काञ्ची सप्तकी रशना तथा' इत्यमरः । नितम्बदेशाः श्रोणीबन्धाश्च कस्य मनः सोत्सुकं सोत्कण्ठं न प्रकुर्वते प्रकर्षेण न कुर्वन्ति । अपि तु सर्वस्यापीत्यर्थः ॥ समुद्गतस्वेदशिताङ्गसंधयो विमुच्य वासांसि गुरूणि सांप्रतम् । स्तनेषु तन्वंशुकमुन्नतस्तना निवेशयन्ति प्रमदाः सयौवनाः ॥ ७ ॥


१. 'शीतलाः.' २. 'बिम्बाश्चलहेम'. ३. 'समुद्यत.'

Page 8Permalink

प्रथमः सर्गः । ५ समुद्गतेति ॥ समुद्गतो निर्गतो यः खेदो घर्मस्तेन चिता व्याप्ता अङ्गसंधयो बाहुमूलादयो यासां तास्तथोक्ताः स- यौवनास्तारुण्यसहिता उन्नतस्तना उच्चकुचाः प्रमदाः स्त्रियः सांप्रतमिदानीं गुरूणि जडानि वासांसि वस्त्राणि विमुच्य दूरीकृत्य स्तनेषु कुचेषु तनु सूक्ष्ममंशुकं वासः क- ञ्चुक्यादि निवेशयन्ति स्थापयन्तीत्यर्थः ॥ सचन्दनाम्बुव्यजनोद्भवानिलैः सहारयष्टिस्तनमण्डलार्पणैः । सवल्लकीकाकलिगीतनिस्वनै- र्विबोध्यते सुप्त इवाद्य मन्मथः ॥ ८ ॥ सेति। चन्दनाम्बुना चन्दनजलेन । चन्दनद्रवेणेति यावत्। सहितं युक्तं यद्व्यजनं तदुद्भवास्तदुत्पन्ना येऽनिला वायवस्तैः । हारयष्ट्या कुसुममालया सहितानि युक्तानि यानि स्तनमण्ड- लानि कुचमण्डलानि तेषामर्पणैः। वल्लक्या वीणया सहिताश्च ते काकलिनः सूक्ष्मकलाश्च ते गीतनिस्वना गाननिनादाश्च तैः। ‘वीणा तु वल्लकी’ इत्यमरः। ‘काकली तु कले सूक्ष्मे’ इत्यमरः। ‘गीतं गानमिमे समे’ इत्यमरः । अद्य मन्मथः कामः सुप्त इव निद्रित इव । राजेवेत्यर्थः । विबोध्यत उद्बुध्यते । सितेषु हर्म्येषु निशासु योषितां सुखप्रसुप्तानि मुखानि चन्द्रमाः । विलोक्य नूनं भृशमुत्सुकश्चिरं निशाक्षये याति हियेर्वे पाण्डुताम् ॥ ९ ॥ सितेष्विति ॥ चन्द्रमा निशासु रात्रिषु सितेषु धवलेषु १. ‘अर्पितैः.’ २. ‘प्रबुध्यते’, ‘प्रबोध्यते.’ ३. ‘नियन्त्रणम्.’ ४. ‘एव.’

Page 9Permalink

हर्म्येषु प्रासादेषु योषितां स्त्रीणां सुखेन प्रसुप्तानि निद्रितानि मुखानि वदनानि चिरं चिरकालं विलोक्यावलोक्य भृशम- त्यन्तमुत्सुक उत्कण्ठितः सन्निशाक्षये रात्रिक्षये ह्रियेव ल- ज्जयेव पाण्डुतां पाण्डुरतां याति गच्छति। नूनमिति वितर्के॥ असह्यवातोद्धतरेणुमण्डला प्रचण्डसूर्यातपतापिता मही। न शक्यते द्रष्टुमपि प्रवासिभिः प्रियावियोगानलदग्धमानसैः॥ १०॥ असह्येति॥ प्रियावियोगः कान्तावियोगः स एवानलो- ऽग्निस्तेन दग्धं भस्मीभूतं मानसमन्तःकरणं येषां तैस्त- थोक्तैः प्रवासिभिर्विदेशवासिभिरसह्यः सोढुमशक्यो यो वातो वायुस्तेनोद्धतमूर्द्धक्षिप्तं रेणुमण्डलं यस्याः सा तथो- क्ता। प्रचण्ड उग्रो यः सूर्यस्य तरणेरातप उष्णं तेन तापिता संतापिता मही पृथ्वी द्रष्टुमपि न शक्यते। गन्तुं न शक्यत इत्यत्र किं वक्तव्यमित्यर्थः॥ मृगाः प्रचण्डातपतापिता भृशं तृषा महत्या परिशुष्कताल्वः। वनान्तरे तोयमिति प्रधाविता निरीक्ष्य भिन्नाञ्जनसंनिभं नभः॥ ११॥ मृगा इति॥ भृशमत्यन्तं प्रचण्डस्तीक्ष्णतरो य आतप उष्णं तेन तापिताः संतापिताः। महत्या तृषा पिपासया परिशुष्काः संशुष्कास्तालवो तेषां ते तथोक्ता मृगा हरिणा १. 'वातोद्धत.'

Page 10Permalink

प्रथमः सर्गः । ७ भिन्नेनाञ्जनेन संनिभं तुल्यं नभ आकाशं निरीक्ष्य वीक्ष्य तोयं जलमिति शङ्कया वनान्तरेऽन्यद्वने प्रधाविता दुद्रुवुः ॥ सविभ्रमैः सस्मितजिह्मवीक्षितै- र्विलासवत्यो मनसि प्रवासिनाम् । अनङ्गसंदीपनमाशु कुर्वते यथा प्रदोषाः शशिचारुभूषणाः ॥ १२ ॥ सविभ्रमैरिति ॥ यथा शशिचारुभूषणाः शश्येव चन्द्र एव चारु सुन्दरं भूषणं येषां ते तथोक्ताः प्रदोषाः संध्यासमयाः प्रवासिनां मनस्यन्तःकरणेऽनङ्गसंदीपनं कामसंदीपनं कुर्वते । तथेत्यध्याहार्यम् । शशिचारुभूषणाः शशी चन्द्रस्तद्वच्चारूणि सुन्दराणि भूषणानि यासां तास्तथोक्ता विलासवत्यो विलासि- न्यः सविभ्रमैर्विभ्रमसहितैः सस्मितानि सहास्यानि जिह्मानि कुटिलानि वीक्षितानि निरीक्षणानि तैः कृत्वा प्रवासिनां मनस्याशु झटित्यनङ्गसंदीपनं कामस्योद्दीपनं कुर्वत इत्यर्थः ॥ रवेर्मयूखैरभितापितो भृशं विदह्यमानः पथि तप्तपांसुभिः । अवाङ्मुखो जिह्मगतिः श्वसन्मुहुः फणी मयूरस्य तले निषीदति ॥ १३ ॥ रवेरिति ॥ रवेः सूर्यस्य मयूखैः किरणैः । 'किर- णोस्त्रमयूखांशुगभस्तिघृणिरश्मयः' इत्यमरः । अभिता- पितः संतापितः । भृशमत्यन्तं पथि मार्गे तप्तपांसुभिरुष्ण- रेजोभिर्विदह्यमानः । अवाङ्मुखोऽधोमुखो जिह्मगतिः कुटि- लगमनो मुहुर्वारंवारं श्वसञ्छासोच्छ्वासं कुर्वन्फणी सर्पो

१. प्रथम सर्ग: ग्रीष्म वर्णन (दवानल, पिपासा व प्रकृति-दशा)

Page 11Permalink

८ ऋतुसंहारे

मयूरस्य बर्हिणः । 'मयूरो बर्हिणो बर्ही' इत्यमरः ॥ तलेऽधोभागे निषीदत्यवतिष्ठत इत्यर्थः ॥ तृषा महत्या हतविक्रमोद्यमः श्वसन्मुहुर्दूरंविदारिताननः । न हन्त्यदूरेऽपि गजान्मृगेश्वरो विलोलजिह्वश्चलिताग्रकेसरः ॥ १४ ॥ तृषेति ॥ महत्या तृषा पिपासया हतो विक्रमस्य पराक्रमस्यो- द्यम उद्योगो यस्य स तथोक्तः । मुहुर्वारंवारं दूराद्विदारितं विस्तारितमाननं मुखं येन स तथोक्तः । विलोलजिह्वश्चलिताश्च- ञ्चला अग्रकेसरा अग्रसटा यस्य स तथोक्तो मृगेश्वरः सिंहः । सिंहो मृगेन्द्रः पञ्चास्यः' इत्यमरः । अदूरेऽपि । समीपे वर्त- मानानिति शेषः । गजान्मातङ्गान्न हन्ति न मारयतीत्यर्थः । न हि जायते स्वस्मिन्क्लेशिते परहनने प्रवृत्तिरिति भावः ॥ विशुष्ककण्ठाहृतसीकराम्भसो गभस्तिभिर्भानुमतोऽनुतापिताः । प्रवृद्धतृष्णोपहता जलार्थिनो न दन्तिनः केसरिणोऽपि बिभ्यति ॥ १५ ॥ विशुष्केति ॥ विशुष्केण कण्ठेनाहृतं गृहीतं सीकरा- म्भस्तुषारजलं यैस्ते तथोक्ताः । भानुमतः किरणमालिनः सूर्यस्य गभस्तिभी रश्मिभिरनुतापिताः संतापिताः । प्रवृद्धतृ- ष्णयात्यधिकपिपासयोपहताः पीडिता अतएव जलार्थिनो


१. 'भूरि.' २. 'मृगम्.' ३. 'मृगाधिपः' ४. 'चलितखकेसरः.' ५. 'कण्ठाहत'; 'कण्ठोद्धत.' ६. 'अभितापिताः.'

Page 12Permalink

प्रथमः सर्गः ९ जलकाङ्क्षिणो दन्तिनो गजाः केसरिणोऽपि सिंहादपि न बिभ्यति भयं न प्राप्नुवन्तीत्यर्थः ॥ हुताग्निकल्पैः सवितुर्गभस्तिभिः कलापिनः क्लान्तशरीरचेतसः । न भोगिनं घ्नन्ति समीपवर्तिनं कलापचक्रेषु निवेशिताननम् ॥ १६ ॥ हुताग्निकल्पैरिति ॥ सवितुः सूर्यस्य हुताग्निकल्पैर्हुत- श्चासावग्निश्च तत्कल्पैस्तत्सदृशैः । तद्वदत्यन्तप्रचण्डैरिति यावत् । गभस्तिभिरंशुभिः क्लान्तं म्लानं शरीरं वपुश्चेतश्च येषां ते तथोक्ताः कलापिनो मयूराः कलापचक्रेषु बर्हमण्ड- लेषु निवेशितं प्रवेशितमाननं मुखं येन तत्तथोक्तं समीपव- र्तिनं भोगिनं सर्पं न घ्नन्ति न मारयन्तीत्यर्थः ॥ ³सभद्रमुस्तं ⁴परिशुष्ककर्दमं सरः खनन्नायतपोतृ⁵मण्डलैः । ६रवेर्मयूखैरभितापितो भृशं वराहयूथो विशतीव भूत लम् ॥ १७ ॥ सभद्रेति ॥ भद्रमुस्तेन 'भद्रमोथा' इति प्रसिद्धेन सहितं परिशुष्कः कर्दमः पङ्को यस्मिंस्तत्तथोक्तं सरः सरो- वरमायतानि दीर्घाणि यानि पोतृमण्डलानि तैः कृत्वा ख- नन् । रवेः सूर्यस्य मयूखैः किरणैर्भृशमत्यन्तमभितापितः संतापितो वराहयूथः सूकरसमूहः । 'वराहः सूकरो घृष्टिः' इत्यमरः । भूतलं भूगर्भं विशतीव प्रविशतीवेत्युत्प्रेक्षा ॥ १. 'मरीचिभिः.' २. 'चेतनाः.' ३. 'सुभद्रमुस्तम्.' ४. 'परिपण्डू.' ५. 'पोत्र.' ६. 'प्रदीप्तभासा रविणाभितापितः.' २

Page 13Permalink

१० ऋतुसंहारे विवस्वता तीक्ष्णतरांशुमालिना सपङ्कतोयात्सरसोऽभितापितः । उत्प्लुत्य भेकस्तृषितस्य भोगिनः फणातपत्रस्य तले निषीदति ॥ १८ ॥ विवस्वतेति ॥ तीक्ष्णतरैः प्रचण्डतरैरंशुभिः किरणैर्मालते शोभते तथोक्तेन विवस्वता सूर्येणाभितापितो भेको मण्डूकः । ‘भेके मण्डूकवर्षाभू-’ इत्यमरः । पङ्कतोयेन कर्दमजलेन सहितं युक्तं तस्मात्तथोक्तात्सरसः सरोवरादुत्प्लुत्य तृषितस्य भोगिनः पन्नगस्य । ‘उरगः पन्नगो भोगी’ इत्यमरः । फणैवातपत्रं छत्रं तस्य तलेऽधोभागे निषीदति तिष्ठतीत्यर्थः॥ समुद्धृताशेषमृणालजालकं विपन्नमीनं द्रुतभीतसारसम् । परस्परोत्पीडनसंहतैर्गजैः कृतं सरः सान्द्रविमर्दकर्दमम् ॥ १९ ॥ समुद्धृतेति ॥ समुद्धृतं निष्काशितमशेषं संपूर्णं मृणालजालकं बिससमूहो यस्मात्तथोक्तं विपन्नमीनं समापन्नमीनं द्रुताः पलायिता भीताश्च ते सारसाश्च यस्मात्तथोक्तं सरः सरोवरं परस्परोत्पीडने संहतैः संलग्नैर्गजैः सान्द्रो निबिडो विमर्दः सङ्ग्रामः कर्दमः पङ्कश्च यस्मिंस्तत्तथा । यद्वा । सान्द्रो निबिडो विमर्देन सङ्ग्रामेण कर्दमः पङ्को यस्मिंस्तत्तथा भूतमित्यर्थः॥ रविप्रभोद्भिन्नशिरोमणिप्रभो विलोलजिह्वाद्वयलीढमारुतः । १. ‘तीव्रतर.’

Page 14Permalink

प्रथमः सर्गः । ११ विषाग्निसूर्यातपतापितः फणी न हन्ति मण्डूककुलं तृषाकुलः ॥ २० ॥ रवीति ॥ रविप्रभया सूर्यकान्त्योद्भिन्ना निर्गताः शिरो- मणेर्मूर्धन्यमणेः प्रभा कान्तिर्यस्य स तथोक्तः । विलोलेन चञ्चलेन जिह्वाद्वयेन लीढ आलीढो मारुतः पवनो येन स तथोक्तः । विषाग्निसूर्यातपतापितो विषं गरलमग्निर्दावा- नलः सूर्यातप उष्णं तैस्तापितोऽतएव तृषाकुलः फणी सर्पो मण्डूककुलं भेकसमूहं न हन्ति न मारयतीत्यर्थः ॥ सफेनलोलायतवक्त्रसंपुटं ²विनिःसृतालोहितजिह्वमुन्मु³खम् । तृषाकुलं निःसृतमद्रिगह्वरा- ⁵दैवेक्ष्यमाणं महिषीकुलं जलम् ॥ २१ ॥ सफेनेति ॥ सफेनं लोलं चञ्चलमायतं दीर्घं वक्त्रसंपुटं मुखसंपुटं यस्य तत्तथोक्तम् । विनिःसृता निर्गता आसमन्ता- ल्लोहिता रक्ता जिह्वा यस्य तत्तथोक्तमुन्मुखमूर्ध्वमुखम् । तृषा पिपासयाकुलं व्याकुलमतएव जलं सलिलमवेक्ष्यमाणं निरीक्ष्यमाणं महिषीकुलमद्रिगह्वराद्द्रिगह्वरान्निस्सृतं निर्गत- मित्यर्थः । 'अद्रिगोत्रगिरिग्रावा—' इत्यमरः ॥ पटुतरदवदाहोच्छुष्कसँस्यप्ररोहाः परुषपवनवेगोत्क्षिप्तसंशुष्कपर्णाः । १. 'लालावृत.' २. 'विनिर्गता.' ३. 'उत्सुकम्.' ४. 'कन्दरात्.' ५. 'गवेषमाणम्.' ६. वनदाहात्प्लुष्ट.' ७. 'शष्प.' ८. 'वेगात्.'

Page 15Permalink

१२ ऋतुसंहारे दिनकरपरितापक्षीणतोयाः समन्ता- द्विदधति भयमुच्चैर्वीक्ष्यमाणा वनान्ताः॥२२॥ पटुतरेति ॥ पटुतरोऽतिसमर्थो यो दवो दावस्तस्य दाहो- च्छुष्काः दहनोच्छुष्काः सस्यप्ररोहाः सस्याङ्कुरा येषु ते तथोक्ताः। परुषो निष्ठुरो यः पवनो वायुस्तस्य वेगेनोत्क्षिप्ता- न्यूर्ध्वक्षिप्तानि संशुष्कानि पर्णानि पत्राणि येषु ते तथोक्ताः। समन्तादितस्ततो दिनकरस्य परितापेनातपेन क्षीणानि तोयानि येषु ते तथोक्ताः। उच्चैरुच्चप्रदेशतो वीक्ष्यमाणा अवलोक्यमाना वनान्ता अरण्यप्रान्ता भयं विदधतीत्यर्थः । मालिनीवृत्तमेतत् । तल्लक्षणं तु—'ननमयययुतेयं मालिनी भोगिलोकैः' इति ॥ श्वसिति विहगवर्गः शीर्णपर्णद्रुमस्थः कपिकुलमुपयाति क्लान्तमद्रेर्निकुञ्जम् । भ्रमति गवययूथः सर्वतस्तोयमिच्छ- ञ्छरभकुलमजिह्मं प्रोद्धरत्यम्बु कूपात्॥२३॥ श्वसितीति ॥ शीर्णानि गलितानि पर्णानि पत्राणि यस्य स तादृशो यो द्रुमो वृक्षस्तत्र तिष्ठतीति स तथो- क्तो विहगवर्गः पक्षिसमुदायः श्वसिति श्वासोच्छ्वासं करोति । क्लान्तं म्लानं कपिकुलं वानरसमूहोऽद्रेः पर्वतस्य निकुञ्जं लतागृहम् । 'निकुञ्जकुञ्जौ वा क्लीबे' इत्यमरः । उपयाति गच्छतीत्यर्थः । गवया गोसदृशमृगविशेषास्तेषां यूथः समुदायस्तोयं जलमिच्छन्सर्वत इतस्ततो भ्रमति । अजि- ह्ममकुटिलं शरभानां कुलं शरभा अष्टापदपक्षिविशेषास्तेषां १. 'परितापात्.' २. 'निकुञ्जे.'

Page 16Permalink

प्रथमः सर्गः । १३ कुलं समुदायः कूपादम्बु जलं प्रोद्धरति गृह्णातीत्यर्थः ॥ विकचनवकुसुम्भस्वच्छसिन्दूरभासा १प्रबलपवनवेगोद्भूत२वेगेन तूर्णम् । तटविटपलताग्रालिङ्गनव्याकुलेन दिशि दिशि परिदग्धा भूमयः पावकेन ॥२४॥ विकचेति ॥ विकचः प्रफुल्लो नवो नूतनः कुसुम्भस्त- द्वत्स्वच्छो निर्मलो यः सिन्दूरस्तस्य भा इव भाः कान्तिर्यस्य तेन तथोक्तेन । प्रबलस्य पवनस्य वेगेनोद्भूतः संभूतो वेगो यस्य तेन तथोक्तेन । तटविटपानां तीरस्थवृक्षशाखानां लताग्राणां चालिङ्गनेन परिरम्भणेन व्याकुल आकुलस्तेन तथोक्तेन पावकेन वह्निना दिशि दिशि प्रतिदिशं तूर्णं सत्वरं भूमयः परिदग्धाः संदग्धा इत्यर्थः ॥ ३ज्वलति पवनवृद्धः४ पर्वतानां५ दरीषु स्फुटति पटुनिनादैः६ शुष्कवंशस्थलीषु । प्रसरति तृणमध्ये७ लब्धवृद्धिः क्षणेन ८ग्लपयति मृगवर्गं९ प्रान्तलग्नो दवाग्निः ॥२५॥ ज्वलतीति ॥ पवनेन वायुना वृद्धो वृद्धिं प्राप्तो दवा- ग्निर्दवानलः । ‘दवदावौ वनानिलौ’ इत्यमरः । पर्वतानां दरीषु कन्दरेषु ज्वलति । तथा शुष्का वंशा वेणवो यासु ताः स्थल्यः अकृत्रिमभूमयस्तासु पटुनिनादैः स्फुटतरध्वनिभिः स्फुटति विकाशभावमाप्नोति । तथा क्षणेन क्षणादेव लब्धा १. ‘परुष.’ २. ‘वेगोद्धत.’ ३. ‘ध्वनति.’ ४. ‘विद्धः.’ ५. ‘पर्व- तान्तर्द्दरीषु.’ ६. ‘पटुनिनादः.’ ७. ‘तृणमध्यम्.’ ८. ‘क्षपयति.’ ९. ‘मृगयूथम्.’

Page 17Permalink

१४ ऋतुसंहारे प्राप्ता वृद्धिर्येन तथोक्तः संस्तृणमध्ये प्रसरति । तथा प्रान्तलग्नः सन्मृगवर्गं हरिणसमूहं ग्लपयति व्याकुलं करोतीत्यर्थः ॥ बहुतर इव जातः शाल्मलीनां वनेषु स्फुरति कनकगौरः कोटरेषु द्रुमाणाम् । १परिणतदलशाखानुत्पतन्प्रांशुवृक्षा- न्भ्रमति पवनधूतः सर्वतोऽग्निर्वनान्ते ॥२६॥ बहुतर इति ॥ अग्निः शाल्मलीनां वनेषु बहुतरः प्रचु- ररूपो जात इव स्फुरति । द्रुमाणां कोटरेषु शाखागह्वरेषु कनकगौरः काञ्चनगौरः स्फुरति । पवनेन वायुना धूतः कम्पितः सन्नत एव परिणताः परिपक्वा दलानि पर्णानि शाखाश्च येषां तांस्तथोक्तान्प्रांशुवृक्षानुन्नतद्रुमानुत्पतन्सन् । सर्वतः समन्ततो वनान्ते भ्रमति भ्रमणं करोतीत्यर्थः ॥ गजगवयमृगेन्द्रा वह्निसंतप्तदेहाः सुहृद इव २समेता द्वन्द्वभावं विहाय । हुतवहपरिखेदादाशु निर्गत्य कक्षा- द्विपुलपुलिनदेशान्निम्नगां ३संविशन्ति ॥२७॥ गजेति ॥ वह्निना दावाग्निना संतप्तो देहः शरीरं येषां ते तथोक्ता अत एव द्वन्द्वभावं वैरभावं विहाय त्यक्त्वा सुहृदो मित्राणीव समेताः संगता गजगवयमृगेन्द्रा गजो हस्ती गवयो गोसदृशो मृगविशेषो मृगेन्द्रः सिंहश्च ते हुतवहस्य वह्नेः परिखेदात्संतापात् । यद्वा हुतवहस्य परिखेदो यत्र तस्मात्तथोक्तात् । कक्षाद्गिरिगह्वरादाशु झटिति निर्गत्य वि- १. ‘परिणवदलशाखादुत्पतत्याशु वृक्षात्.’ २. ‘समन्तात्.’ ३. आ- श्रयन्ते.’

Page 18Permalink

प्रथमः सर्गः । १५ पुलो महान्पुलिनदेशस्तीरप्रान्तो यस्यास्तां तथोक्तां निम्नगां नदीं संविशन्त्याश्रयन्त इत्यर्थः ॥ कमलवनचिताम्बुः पाटलामोदरम्यः सुखसलिलनिषेकः सेव्यचन्द्रांशुहारः१। व्रजतु तव निदाघः कामिनीभिः समेतो निशि सुललितगीते हर्म्यपृष्ठे सुखेन ॥ २८ ॥ कमलेति ॥ सुललितमतिरमणीयं गीतं गानं यस्यास्त- स्याः संबोधन हे सुललितगीते । कमलानां पङ्कजानां वनेन समुदायेन चितं व्याप्तमम्बु जलं यस्मिन्स तथोक्तः । पाट- लानां पाटलकुसुमानामामोदो गन्धो रम्यो रमणीयो यस्मि- न्स तथोक्तः । यद्वा पाटलामोदेन रम्यो रमणीय इति । सुखः सुखकरः सलिलस्य निषेकः स्नानं यस्मिन्स तथोक्तः। सेव्याः सेवितुं योग्याश्चन्द्रस्यांशवः किरणा हाराः कुसुममा- लाश्च यस्मिन्स तथोक्तः कामिनीभिः समेतो युक्तो निदाघो निदाघकालो निशि रात्रौ हर्म्यपृष्ठे प्रासादतले सुखेन तव व्रजतु गच्छत्वित्यर्थः ॥ इति भारद्वाजगोत्रोत्पन्नमणिरामविरचितया चन्द्रिकाख्यया व्याख्यया समेतः कविश्रीकालिदासकविवराग्रणीकृतावृतुसंहारे महाकाव्ये ग्रीष्मवर्णनं नाम प्रथमः सर्गः । १. 'जालः.' २. 'सुललितगीतैः.'

Page 19Permalink

१६ ऋतुसंहारे द्वितीयः सर्गः। अथ क्रमप्राप्तं वर्षाकालं वर्णयति— ससीकराम्भोधरमत्तकुञ्जर- स्तडित्पताकोऽशनिशब्दमर्दलः। समागतो राजवदुद्धतद्युति- र्धनागमः कामिजनप्रियः प्रिये ॥ १ ॥ ससीकरेति ॥ हे प्रिये, ससीकरः साम्बुकणो योऽम्भो- धरो जलधरः स एव मत्तः प्रमत्तः कुञ्जरो गजो यस्य स तथोक्तः । पक्षे ससीकराम्भोधर इव मत्तः कुञ्जरो यस्येति । 'सीकरोऽम्बुकणाः स्मृताः' इत्यमरः । तडिद्विद्युदेव पताका यस्य स तथोक्तः । पक्षे तडिदिव पताका यस्येति । 'तडि- त्सौदामिनी विद्युत्' इत्यमरः । अशनिशब्द एव मर्दलः । पक्षे अशनिर्वज्र इव यः शब्दो निनादः स एव मर्दलो वाद्यविशेषो यस्य स तथोक्तः । उद्धतद्युतिरुत्कटकान्तिः कामिजनप्रियो घनागमो वर्षाकालो राजवत्समागत आगत इत्यर्थः । वंशस्थं वृत्तम् । लक्षणं तूक्तम् ॥ नितान्तनीलोत्पलपत्रकान्तिभिः । क्वचित्प्रभिन्नाञ्जनराशिसंनिभैः । क्वचित्सगर्भप्रमदास्तनप्रभैः समाचितं व्योम घनैः समन्ततः ॥ २ ॥ नितान्तेति ॥ क्वचिन्नितान्तमत्यन्तं नीलानि कृष्णानि यान्युत्पलानि कुवलयानि तेषां पत्राणां दलानां कान्तिरिव १ 'वारणः' २. 'उन्नतध्वनिः'

Page 20Permalink

द्वितीयः सर्गः । १७ कान्तिर्येषां तैस्तथोक्तैः । क्वचित्कुत्रचिद्भागे प्रभिन्नो योऽञ्ज- नराशिः कज्जलसमूहस्तेन संनिभैः सदृशैः । क्वचित्सगर्भाणां गर्भवतीनां प्रमदानां स्त्रीणां ये स्तनाः कुचास्तेषां प्रभेव प्र- भा कान्तिर्येषां तैस्तथोक्तैर्घनैर्मेघैर्व्योमाकाशं समन्तत इतस्त- तः समाचितं व्याप्तमित्यर्थः ॥ तृषाकुलैश्चातकपक्षिणां कुलैः प्रयाचितास्तोयभरावलम्बिनः । प्रयान्ति मन्दं बहुधोरवर्षिणो बलाहकाः श्रोत्रमनोहरस्वनाः ॥ ३ ॥ तृषेति ॥ तृषा पिपासा तयाकुलैर्व्याकुलैश्चातकपक्षिणां कुलैः समुदायैः प्रयाचिताः प्रार्थितास्तोयभरेण जलभरेणा- वलम्बन्त इति तथोक्ताः । बह्व्यो धारा यस्यां क्रियायां यथा भवति तथा वर्षन्ति ते तथोक्ताः । श्रोत्रस्य श्रवणस्य मनोहर आह्लादकरः स्वनः शब्दो येषां ते तथोक्ता बलाह- का मेघाः । 'अभ्रं मेघो वारिवाहः स्तनयित्नुर्बलाहकः' इत्य- मरः । मन्दं प्रयान्ति गगने संचरन्तीत्यर्थः ॥ बलाहकाश्चाशनिशब्दमर्दलैः सुरेन्द्रचापं दधतस्तडिद्गुणम् । सुतीक्ष्णधारापतनोग्रसायकै- स्तुदन्ति चेतः प्रसभं प्रवासिनाम् ॥ ४ ॥ बलाहका इति ॥ अशनिशब्दमर्दला अशनिर्वज्रस्तस्य शब्द एव मर्दलो रणवाद्यविशेषो येषां ते तथोक्ताः । तडिद्विद्युदेव गुणो ज्या यस्य तत्तथोक्तम् । 'मौर्वी ज्या १. 'नव.' २. 'वारि.' ३. 'भीषणाः'; 'भूषणाः.' ४. 'सायकाः.' ५. 'ध्वनिभिः.'