तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 343, कुल 368 में से
संदर्भ में पढ़ेंश्लोक २७ ] द्वितीयमाह्निकम् । २१ न यायात्, अतश्च नायं शक्तिः, सा हि परं शक्तिम- न्तमाश्रित्यैव वर्तते इत्यनपेक्षत्वाद्भेदाविर्भावे प्रकाश एवैकः, इति प्रतिज्ञाया हानिः स्यात्, एवं शक्तिमच्छ- ब्दव्यवहारोऽपि नायं, सोऽपि हि परं शक्तिलक्षण- मर्थमुररीकृत्यैव वर्तते, इति भेद एवापतेत्, एवं ध्येयादावपि ज्ञेयं, मन्त्र इति मन्त्रस्य प्रणवादेर्वा- च्यः, मन्त्रयिता मन्त्राणां पाठकः, न दीक्षेति कर्तृ- कर्मापेक्षित्वात्, अत्र च माहेश्वर्ये प्रभुत्वं हेतुः ॥ २४-२५-२६ ॥ अत एव यत्किंचन भेदाधायकं तदत्र नास्ति, इत्याह स्थानासननिरोधार्घ- संधानावाहनादिकम् । विसर्जनान्तं नास्त्यत्र कर्तृकर्मक्रियोज्झिते ॥२७॥ पं० २ ग० पु० इत्यनाक्षेपादिति पाठः । पं० ४ क० ख० पु० सोऽपि स्वशक्तिलक्षणमुररीकृत्य इति पाठः । पं० ६ ख० पु० मन्त्र्य इति मन्त्रस्यास्येति पाठः ।