वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 198, कुल 835 में से
संदर्भ में पढ़ेंत्रिपदे बहुव्रीहौ मा भूत् । स्वशब्दो हीह न केवलं पूर्वपदं किंतु मध्यमत्वादापेक्षिकम् ॥ संदिग्धसाध्यधर्मेत्यादौ तु कर्मधारयपूर्वपदो बहुव्रीहिः एवं तु परस्वधर्मेत्यपि साध्येव निवृत्ति- धर्मा अनुच्छित्तिधर्मेत्यादिवत् । पूर्वपदं तु बहुव्रीहिणाऽक्षिप्यते ॥ जम्भा सुहरिततृणसोमेभ्यः ।५।४।१२५ ॥ जम्भेति कृतसमासान्तं निपात्यते ॥ 'जम्भो भक्ष्ये दन्ते च' । शोभनो जम्भोऽस्य सुजम्भा । हरितजम्भा तृणं भक्ष्यं यस्य तृणमिव दन्ता यस्येति वा तृणजम्भा । सोमजम्भा ॥ स्वादिभ्यः किम् ? पतित्जम्भा ॥ दक्षिणेर्मा लुब्धयोगे ।५।४।१२६ ॥ दक्षिणे ईर्मं व्रणं यस्य दक्षिणेर्मा मृगः । व्याधेन कृतव्रण इत्यर्थः ॥ इच् कर्मव्यतिहारे । ५।४।१२७ ॥ कर्मव्यतिहारे यो बहुव्रीहिस्तस्मादिच् स्यात्समासान्तः ॥ केशाकेशि । मुस- लामुसलि ॥ ^Aद्विदण्डादिभ्यश्च ।५।४।१२८ ॥ तादर्थ्ये चतुर्थ्येषा । एषां सिद्धयर्थ- मिच् प्रत्ययः स्यात् ॥ द्वौ दण्डौ यस्मिन्प्रहरणे तद् द्विदण्डि प्रहरणम् । द्विमुसलि । उभा- हस्ति । उभयाहस्ति ॥ प्रसंभ्यां जानुनोर्ज्ञुः ।५।४।१२९ ॥ आभ्यां परयोर्जानुशब्दयो- र्जुरादेशः स्याद्बहुव्रीहौ ॥ प्रगते जानुनी यस्य प्रज्ञुः । संज्ञुः ॥ ऊर्ध्वाद्दिभाषा ।५।४। १३० ॥ ऊर्ध्वज्ञुः । ऊर्ध्वजानुः ॥ धनुषश्च ।५।४।१३२ ॥ धनुरन्तस्य बहुव्रीहेरनङादेशः स्यात् ॥ शार्ङ्गधन्वा ॥ वा संज्ञायाम् ।५।४।१३३ ॥ शतधन्वा । शतधनुः ॥ जायाया निङ् ।५।४।१३४ ॥ जायान्तस्य बहुव्रीहेर्निङादेशः स्यात् ॥ लोपो व्योर्वलि ।६।१।६६ ॥
A द्विदण्डि, द्विमुसलि, उभाञ्जलि, उभयाञ्जलि, उभादन्ति, उभयादन्ति, उभाहस्ति, उभयाहस्ति, उभाकर्णि, उभयाकर्णि, उभापाणि, उभयापाणि, उभाबाहु, उभयाबाहु, एकपदि, प्रोष्ठपदि, आश्वपदि, सपदि, निकुच्यकर्णि, संहतपुच्छि, अन्तेवासि । इति द्विदण्ड्यादिः ॥
१ 'राजाहःसखिभ्यः' इत्यादाविव 'धर्मादनिच्' इत्येवेष्टसिद्धावपि धर्मशब्दे यदुत्तरत्वमपेक्ष्यते तत्र पूर्वस्मिन् केवलत्वं सजातीयान्यरहितत्वेन नियतत्वं परत्वसामानाधिकरणत्वमेव यदा भवेत् तदैव धर्म- शब्दान्ताद् अनिच् स्याद् इति बोधयितुं 'केवलात्' इति पदम् । तथा च 'केवलात्' इति पञ्चम्या 'तस्मा- दित्युत्तरस्य' इति परिभाषया उत्तरपदोपस्थितौ उत्तरत्वस्य पूर्वसापेक्षत्वादेव 'पूर्वात्' इत्यस्याक्षेपः । तथा च परत्वसामानाधिकरणपूर्वत्वविशिष्टान् उत्तरो यो धर्मशब्दः तदन्तबहुव्रीहियोग्यालौकिकप्रक्रियावाक्यस्या- न्तावयवोऽनिच् स्यादिति सूत्रार्थसंपत्तौ केवलपदव्यावर्त्यव्यावृत्तिरीतिमुपपादयति—स्वशब्दो हीति । केवलं पूर्वपदं नियतपूर्वत्वविशिष्टपदम् इत्यर्थः ॥ मध्यमत्वात् परत्वसामानाधिकरणत्वात् आपेक्षिकं वैवक्षिकमित्यर्थः ॥ २ अनेकपदानामेव बहुव्रीह्यङ्गीकारात् 'धर्मशब्दान्ताद् बहुव्रीहेः' इत्यर्थे तदैव धर्मशब्दोऽन्ते भवति यदि किंचिदन्यत् पदं पूर्वमपि भवेदिति भावः ॥ ३ समासान्तमिति । अनिच्प्रत्ययान्तमिति भावः ॥ ४ प्रकृतानुपयुक्तत्वादैत्यविशेषजम्बीरौ द्वावर्थौ न निर्दिष्टौ ॥ ५ 'अनिच्प्रत्ययान्त एवेति बोध्यम् ॥ ६ प्रसमुत्तरजानुशब्दकबहुव्रीहौ जानुशब्दस्य ज्ञुरादेश इत्यर्थः ॥ “जानुनोरिति द्विवचनमर्थगतं द्वित्व- मारोप्य पञ्चमीभ्रमनिवृत्तये” ॥ 'उपज्ञु बाधो नमसा सदेम' इत्यत्र वेदे तु 'तत्त्वा यामि' इत्यत्र चालोप इव मध्यस्थाकारलोपेन वैदिकेन कथमसाधुत्वमिति भावः ॥