वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 259, कुल 835 में से
संदर्भ में पढ़ेंचरति आकर्षिकः । षित्त्वान्ङीष् । आकर्षिकी ॥ ^Aपर्पादिभ्यः ष्ठन् ।४।४।१० ॥ पर्पेण चरति पर्पिकः । पर्पिकी । येन पीठेना पङ्ग्वश्चरन्ति स पर्पः । अश्विकः । रथिकः ॥ श्वग- णाट्ठञ् ।४।४।११ ॥ चात् ष्ठन् ॥ श्वादेरिति ।७।३।८ ॥ ऐच् न ॥ श्वमन्त्रस्यापत्यं श्वामन्त्रिः । श्वादंष्ट्रिः । तदादिविधौ चेदमेव ज्ञापकम् ॥ इकारादाविति वाच्यम् * ॥ श्वगणेन चरति श्वागणिकः । श्वागणिकी । श्वगणिकः । श्वगणिकी ॥ पदान्तस्यान्यतर- स्याम् ।७।४।९ ॥ श्वादेरङ्गस्य पदशब्दान्तस्यैत्वा । श्वापदस्येदं श्वापदम् । शौवापदम् ॥ ^Bवेतनादिभ्यो जीवति ।४।४।१२ ॥ वेतनेन जीवति वैतनिकः धानुष्कः ॥ वस्त्रक्रय- विक्रयाट्ठन् । ४।४।१३ ॥ वस्त्रेन मूल्येन जीवति वस्त्रिकः । क्रयविक्रयग्रहणं संघातविगृ- हीतार्थम् । क्रयविक्रयिकः । क्रयिकः । विक्रयिकः ॥ आयुधाच्छ च । ४ । ४ । १४ ॥ चाट्ठन् । आयुधेन जीवति आयुधीयः । आयुधिकः ॥ हरत्युत्सङ्गादिभ्यः^C । ४।४।१५॥ उत्सङ्गेन हरत्यौत्सङ्गिकः ॥ ^Dभस्त्रादिभ्यः ष्ठन् । ४।४।१६ ॥ भस्त्रया हरति भस्त्रिकः । षित्त्वान्ङीष् । भस्त्रिकी ॥ विभाषा विवधात् । ४।४।१७ ॥ विवधेन हरति विवधिकः । पक्षे ठक् । वैवधिकः । १एकदेशविकृतस्यानन्यत्वाद्वीवधादपि ष्ठन् । वीवधिकः । वीवधिकी । विवधवीवधशब्दौ उभयतोबद्धशिक्ये स्कन्धवाह्ये काष्ठे वर्तेते ॥ अण् कुटिकायाः । ४ । ४ । १८ ॥ कुटिलिका व्याधानां गतिविशेषः कर्मारोपकरणभूतं लोहं च । कुटिलिकया हरति मृगानङ्गारान्वा कौटिलिको व्याधः कर्मारश्च ॥ निर्वृत्तेऽक्ष^Eद्यूतादिभ्यः । ४।४। १९ ॥ अक्षद्यूतेन निर्वृत्तमाक्षद्यूतिकं वैरम् ॥ क्त्रेर्मम्नित्यम् । ४।४।२० ॥ क्त्रिप्रत्ययान्तप्रकृतिका- तृतीयान्तान्निर्वृत्तेऽर्थे मप्स्थान्नित्यम् । कृत्या निर्वृत्तं कृत्रिमम् । पक्त्रिमम् ॥ भावप्रत्ययान्ता- दिमप् वक्तव्यः * ॥ पाकेन निर्वृत्तं पाकिमम् । त्यागिमम् ॥ अपमित्ययाचिताभ्यां कक्कनौ । ४।४।२१ ॥ अपमित्येति ल्यबन्तम् । अपमित्य निर्वृत्तं आपमित्यकम् । याचितेन निर्वृत्तं याचितकम् ॥ संसृष्टे । ४।४।२२ ॥ दध्ना संसृष्टं दाधिकम् ॥ चूर्णादिनिः । ४।४। २३ ॥ चूर्णैः संसृष्टाश्चूर्णिनोऽपूपाः ॥ लवणालुक् । ४।४।२४ ॥ लवणेन संसृष्टो लवणः सूपः । लवणं शाकम् ॥ मुद्गादण् । ४।४।२५ ॥ मौद्ग ओदनः ॥ व्यञ्जनैरुपसिक्ते । ४ । ४ । २६ ॥ ठक् ॥ दध्ना उपसिक्तं दाधिकम् ॥ ओजःसहोऽम्भसा वर्तते । ४।४।२७॥ A पर्प, अश्व, अश्वत्थ, रथ, जाल, व्याल, न्यास, पादः पञ्च । इति पर्पादिः ॥ B वेतन, वाहन, अर्धवाहन, धनुष्, दण्ड, जाल, वेश, उपवेश, प्रेषण, उपवस्ति, सुख, शय्या, शक्ति, उपनिषद्, उपदेश, स्फिच्, पाद, उपस्थ, उपस्थान, उपहस्त । इति वेतनादिः ॥ C उत्सङ्ग, उडुप, उत्पूट, उत्पूत, उत्पन्न, पिटक, पिटाक । इत्युत्सङ्गादिः ॥ D भस्त्रा, भरट, भरण, शीर्षभार, शीर्पेभार असंभार, अंसेभार, । इति भस्त्रादिः ॥ E अक्षद्यूत, जानुप्रहत, जङ्घाप्रहत, जङ्घाप्रहत, पादस्वेदन, कण्टकमर्दन, गतानुगत, गतागत, यातोपयात, अनुगत । इत्यक्षद्यूतादिः ॥ १ ‘वीवपाच्चेति वक्तव्यम्’ इति वार्तिकं सूत्राक्षरैरेव गतार्थमप्याहोपुरुषिकयाह-एकदेशेति ॥ परंत्वे- तदसङ्गतमेव, एवं सति ‘पौरोडाशपुरोडाशाच्छन्’ इत्यत्रापि पौरोडाशग्रहणमनर्थकं स्यादिति बोध्यम् ॥