वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 280, कुल 835 में से
संदर्भ में पढ़ेंभिम्यां कन् । अभेः पाक्षिको दीर्घश्च ॥ अनुकामयते अनुकः । अभिकामयते अभिकः । अभीकः ॥ पार्श्वेनान्विच्छति । ५ । २ । ७५ ॥ अनृजुरुपायः पार्श्वं तेनान्विच्छति पा- र्श्वकः ॥ अयःशूलदण्डाजिनाभ्यां ठक्ठञौ । ५ । २ । ७६ ॥ तीक्ष्ण उपायोऽयःशूलं तेनान्विच्छति आयःशूलिकः साहसिकः । दण्डाजिनं दम्भः तेनान्विच्छति दाण्डाजि- निकः ॥ तावतिथं ग्रहणमिति लुग्वा । ५ । २ । ७७ ॥ कन् स्यात्पूरणप्रत्ययस्य च लुग्वा ॥ द्वितीयकं द्विकं वा ग्रहणं देवदत्तस्य । द्वितीयेन रूपेण ग्रहणमित्यर्थः ॥ तावतिथेन गृह्णातीति कन्वक्तव्यो नित्यं च लुक् * ॥ षष्ठेन रूपेण गृह्णाति षट्को देवदत्तः । पञ्चकः॥ स एषां ग्रामणीः । ५ । २ । ७८ ॥ देवदत्तो मुख्यो येषां ते देवदत्तकाः । त्वत्काः ।