वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 292, कुल 835 में से
संदर्भ में पढ़ेंतद्धितेषु स्वार्थिकप्रकरणम् । (२४१) कनो लुप्त्यात् ॥ देवपथः । हंसपथः ॥ आकृतिगणोऽयम् ॥ वस्तेर्डञ् ।५।३।१०१ ॥ इवेत्यनुवर्तत एव । प्रतिकृताविति निवृत्तम् ॥ वस्तिरिव वास्तेयम् । वास्तेयी ॥ शिलाया ढः ।५।३।१०२ ॥ शिलाया इति योगविभागाड्डञपीत्येके । शिलेव शिलेयम् । शैलेयम् ॥ ᴬशाखादिभ्यो यः ।५।३।१०३ ॥ शाखेव शाख्यः । मुख्यः । जघनमिव जघन्यः । अग्र्यः । शरण्यः ॥ द्रव्यं च भव्ये ।५।३।१०४ ॥ द्रव्यमयं ब्राह्मणः ॥ कुशा- ग्राच्छः ।५।३।१०५ ॥ कुशाग्रमिव कुशाग्रीया बुद्धिः ॥ समासाच्च तद्विषयात् । ५।३।१०६ ॥ इवार्थविषयात्समासाच्छः स्यात् ॥ काकतालीयो देवदत्तस्य वधः । इहँ काक- तालसमागमसदृशश्चौरसमागम इति समासार्थः । तत्प्रयुक्तः काकमरणसदृशस्तु प्रत्ययार्थः । अजाकृपाणीयः । अतर्कितोपनत इति फलितोऽर्थः ॥ ᴮशर्करादिभ्योऽण् ।५।३।१०७ ॥ शर्करेव शार्करम् ॥ ᶜअङ्गुल्यादिभ्यष्ठक् ।५।३।१०८ ॥ अङ्गुल्येव आङ्गुलिकः । भरुजेव भारुजिकः ॥एकशालायाष्ठञन्यतरस्याम् ।५।३।१०९ ॥ एकशाला शब्दाद्विवार्थे ठञ्वा पक्षे ठक् ॥ एकशालेव एकशालिकः । ऐकशालिकः ॥ कर्कलोहितादीकक् ।५। ३।११० ॥ कर्कः शुक्लोऽश्वः स इव कार्कीकः । लौहीतीकः स्फटिकः ॥ पूगाञ्ज्यौऽ- ग्रामणीपूर्वात् ।५।३।११२ इवार्थो निवृत्तः । नानाजातीया अनियतवृत्तयोऽर्थकाम- प्रधानाः सङ्घाः पूगास्तद्वाचकात्स्वार्थे ञ्यः स्यात् ॥ लौहित्यञ्य्यः ॥ व्रातचफञोरस्त्रि- याम् ।५।३।११३ ॥ व्राते—कापोतपाक्यः ॥ फञ्—कौञ्जायन्यः । ब्राह्मायन्यः ॥ आयु- धजीविसङ्घाञ्ञ्यडवाहीकेष्वब्राह्मणराजन्यात् ।५।३।११४ ॥ वाहीकेषु य आयुधजीविसङ्घस्तद्वाचिनः स्वार्थे ञ्यट् । क्षौद्रक्यः । मालव्यः । टित्त्वान्ङीप् । क्षौद्रकी ॥ आयुधेति किम् ! मल्लाः ॥ सङ्घेति किम् ! सम्राट् ॥ वाहीकेषु किम् ? शबराः ॥ अब्राह्मणेति किम् ! गोपाहकाः । शालङ्कायनाः । ब्राह्मणे तद्विशेषग्रहणम् । राजन्ये स्वरूपग्रहणम् ॥ वृकाट्ठेण्यण् ।५।३।११५ ॥ आयुधजीविसङ्घवाचकात्स्वार्थे ॥ वार्केण्यः ॥ आयुधेति किम् ! A शाखा, मुख, शृङ्ग, जघन, मेघ, अग्र, चरण, स्कन्ध, स्कन्द, उरस्, शिरस्, अग्र, शरण । इति शाखादिः ॥ B शर्करा, कपालिका, कपाटिका, कनिष्ठिका, पुण्डरीक, शतपत्र, गोलोमन्, लोमन्, गोपुच्छ, नसची, नकुल, सिकता । इति शर्करादिः ॥ C अङ्गुलि, भरुज, बभ्रु, वल्गु, मण्डर, मण्डल, शष्कुली, हरि, कपि, मुनि, रूह, खल, उदश्वित्, गोणी, उरस्, कुलिश । इत्यङ्गुल्यादिः ॥ १ अत्र यदित्यपपाठः । उग्वादिभ्य इति सूत्रभाष्यविरोधात् ॥ २ "द्वाविवाथौँ काकागमनमिव तालप- तनमित्र क्रकतालम् काकतालमिव काकतालीयं” इति भाष्यम् ‘वृत्तिविषये काकतालशब्दौ काकतालसमवे- तक्रियावाचिनौ । तत्र काकागमनं देवदत्तागमनस्योपमानम्, तालपतनं दस्तूपनिपतनस्य । तालेन यः काकस्य वधः स देवदत्तस्य दस्युना वधस्योपमानमिति वधादिः काकतालीयादिशब्दवाच्यः संपद्यते' इति प्रदीपं च मनसि निधाय फलितमाह–इहेत्यादिना ॥ १६