वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 431, कुल 835 में से
संदर्भ में पढ़ेंविधानात् । इट्सकौ । अमालासीत् ॥ कविरिव कवयति । आशीर्लिङि कवीयात् । 'सिचि १ वृद्धिरित्यत्र धातोरित्यनुवर्त्य धातुरेव यो धातुरिति व्याख्यानान्नामधातोर्न वृद्धिरिति कैयटा- दयः । अकवयीत् । माधवस्तु नामधातोपि वृद्धिमिच्छति । अकवायीत् ॥ विरिव २ वयति । विवाय । विव्यतुः । अवयीत् । अवायीत् ॥ श्रीरिव श्रयति । शिश्राय । शिश्रियतुः ॥ पितेव पितरति । आशिषि रिङ् । पित्रियात् ॥ भूरिव भवति । अत्र ' गातिस्थेति 'भुवो वु- गिति 'भवतेरः' इति च न भवन्ति । ३ अभिव्यक्तत्वेन धातुपाठस्थस्यैव तत्र ग्रहणात् । वुभाव । अभावीत् ॥ द्रुरिव द्रवति । 'णिश्रीति चङ् न । अद्रावीत् ॥ अनुनासिकस्य क्विझलोः क्ङिति । ६।४।१९ ॥ अनुनासिकान्तस्योपधाया दीर्घः स्यात् क्वौ झलादौ च क्ङिति ॥ इद- मित्राचरति इदामति । राजेव