भारतकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 444, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 444

विकरोति कामः ॥ अकर्मकाच्च ।१।३।३५॥ वेः कृञः इत्येव । छात्रा विकुर्वते । विकारं लभन्ते इत्यर्थः ॥ संमाननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः ।१।३। ३६ ॥ अत्रोत्सञ्जनज्ञानविगणनव्यया नयतेर्वाच्याः । इतरे प्रयोगोपाधयः । तथा हि । शास्त्रे नयते । शास्त्रस्थं सिद्धान्तं शिष्येभ्यः प्रापयतीत्यर्थः । तेन च शिष्यसंमाननं फलितम् । उत्सञ्जने । दण्डमुन्नयते । उत्क्षिप्तीत्यर्थः । माणवकमुपनयते । विधिना आत्म- समीपं प्रापयतीत्यर्थः । उपनयनपूर्वकेणाध्यापनेन हि उपनेतरि आचार्यत्वं क्रियते । ज्ञाने । तत्त्वं नयते । निश्चिनोतीत्यर्थः । कर्मकारानुपनयते । भृतिदानेन स्वसमीपं प्रापयतीत्यर्थः । विगणनमृणादेर्निर्यातनम् । करं विनयते । राज्ञे देयं भागं परिशोधयतीत्यर्थः । शतं विनयते । धर्मार्थं विनियुङ्क्त इत्यर्थः ॥ कर्तृस्थे चाशरीरे कर्मणि ।१।३।३७॥ नियः कर्तृस्थे कर्मणि यदात्मनेपदं प्राप्तं तच्छरीरावयवभिन्ने एव स्यात् ॥ सूत्रे शरीरशब्देन तदवयवो लक्ष्यते । क्रोधं विनयते । अपगमयति । तत्फलस्य चित्तप्रसादस्य कर्तृगतत्वात्स्वरितञित इत्येव सिद्धे नियमार्थमिदम् । तेनेह न । गण्डं विनयति । कथं तर्हि 'विगणय्य नयन्ति पौरुषमिति ? कर्तृगामित्वाविवक्षायां भविष्यति ॥ वृत्तिसर्गतायनेषु क्रमः ।१।३।३८॥ वृत्तिरप्रति- बन्धः । ऋचि क्रमते बुद्धिः । न प्रतिहन्यत इत्यर्थः ॥ सर्ग उत्साहः । अध्ययनाय क्रमते । उत्सहते इत्यर्थः ॥ क्रमन्तेऽस्मिन् शास्त्राणि । स्फीतानि भवन्तीत्यर्थः ॥ उपपराभ्याम् । १।३।३९॥ वृत्त्यादिष्वित्येवात्रेव क्रमेर्न तूपसर्गान्तरपूर्वात् ॥ उपक्रमते । पराक्रमते । नेह- संक्रामति ॥ आङ उद्गमने ।१।३।४०॥ आक्रमते सूर्यः । उदयत इत्यर्थः ॥ ज्योति- रुद्गमन इति वाच्यम् * ॥ नेह-आक्रामति धूमो हर्म्यतलात् ॥ वेः पादविहरणे । १।३।४१॥ साधु विक्रमते वाजी ॥ पादविहरणे किम् ? विक्रामति सन्धिः । द्विधा भवति । स्फुटतीत्यर्थः ॥ प्रोपाभ्यां समर्थाभ्याम् ।१।३।४२॥ समर्थौ तुल्यार्थौ । शकन्ध्वादि-

१ विकरोतीति । अन्यथा करोतीत्यर्थः ॥ २ सम्माननेति । नयतेर्ण्यन्तत्वात् परगा- मिक्रियाफलविवक्षायामात्मनेपदार्थं वचनम् ॥ ३ प्रयोगोपाधय इति । शब्दानां यथायोगं समभिव्याहृतत्वेनोच्चारणं प्रयोगः । उप समीपवर्तिनि आदधाति संक्रामयति स्वीयं धर्ममित्युपाधिः । एवञ्च प्रयोगनियामक इत्यर्थः ॥ तत्र सम्माननं पूजनम् । उत्सञ्जनमुत्क्षेपणम् । आचार्यकरण- माचार्यक्रिया । ज्ञानं प्रमेयनिश्चयः । भृतिर्वेतनम् । व्ययो धर्मादिषु विनियोगः ॥ ४ कर्तृस्थे चाशरीर इति । शीर्यते इति शरीरम् । प्रतिक्षणं क्षीयमाणं देहं शरीरम् ॥ शरीरशब्देनेति । शरीरतादात्म्यापन्नस्यैव कर्तृत्वेन शरीरस्य तत्स्थत्वासम्भवः अवयवानान्तु सम्बन्धविशेषेण तत्स्थत्वसम्भव इति भावः ॥ ५ गण्डमिति । "गण्डः पृष्ठगुडे कुब्जे" इति विश्वः ॥ ६ उत्साह इति । उत्साह- श्चित्तवृत्तिविशेषः, तद्विषयकविलक्षणज्ञानजन्यसुखविशेषो वा ॥ ७ उद्गमन इति । ऊर्ध्वदेशसंयोगानु- कूलव्यापारः । कथं तर्हि "नभः समाक्रामति चन्द्रमाः क्रमात्" इति । उच्यते । व्याप्तिविशिष्टे क्रमिर्वर्तते । नोद्गमने ॥ ८ वेः पादेति । पादविहरणं पादविक्षेपः॥ धातूनामनेकार्थत्वं बोधयितुं सूत्रे पादविहरणं इत्युक्तम् ॥ ९ प्रोपाभ्यामिति । समस्तुल्योऽर्थो ययोरिति विग्रहे शकन्ध्वादित्वात् पररूपम् ॥