वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 589, कुल 835 में से
संदर्भ में पढ़ेंरकादपि दत्तश्रुतयोरन्त उदात्तो भवति । संश्रुतः । आशिषि किम् ? देवैः खाता देवखाता । आशिष्येवेत्येवमत्रेष्टो नियमः । तेनानाहतो नदति देवदत्त इत्यत्र न । शङ्खविशेषस्य संज्ञे- यम् । तृतीयाकर्मणीति पूर्वपदप्रकृतिस्वरत्वमेव भवति ॥ इत्थम्भूतेन कृतमिति च । ६ । २ । १४९ ॥ इत्थम्भूतेन कृतमित्येतस्मिन्नर्थे यः समासस्तत्र क्तान्तमुत्तरपदमन्तोदात्तं स्यात् ॥ सुप्तप्रलपितम् । प्रमत्तगीतम् । कृतमिति क्रियासामान्ये करोतिर्नाभूतप्रादुर्भाव एव । तेन प्रलपिताद्यपि कृतं भवति । तृतीयाकर्मणीत्यस्यापवादः ॥ अनो भावकर्म- वचनः । ६ । २ । १५० ॥ कारकात्परमनप्रत्ययान्तं भाववचनं कर्मवचनं चान्तोदात्तम् ॥ पयःपानं सुखम् । राजभोजनाः शालयः । अनः किम् ? हस्तादायः । भेति किम् ? दन्तधावनम् । करणे ल्युट् । कारकात्किम् । निदर्शनम् ॥ मन्वक्तिन्व्याख्यानश- यनासनस्थानयाजकादिक्रीताः । ६ । २ । १५१ ॥ कारकात्पराणि एतान्युत्तरपदान्यन्तो- दात्तानि तत्पुरुषे ॥ कृत्स्वरापवादः । रथवर्त्म । पाणिनिकृतिः । छन्दोव्याख्यानम् । राजश- यनम् । राजासनम् । अश्वस्थानम् । ब्राह्मणयाजकः । गोक्रीतः । कारकात्किम् ? प्रभूतौ सङ्ग- तिम् । अत्र तादौ च नितीति स्वरः ॥ सप्तम्याः पुण्यम् ।६।२।१५२ ॥ अन्तोदात्तम् ॥ अध्य- यनपुण्यम् । तत्पुरुषे तुल्यार्थेति प्राप्तम् । सप्तम्याः किम् ? वेदेन पुण्यं वेदपुण्यम् ॥ ऊनार्थकलं तृतीयायाः ।६।२।१५३ ॥ माषोनम् । माषविकलम् । वाक्कलहः । तृतीयापूर्वपदप्रकृति- स्वरापवादोऽयम् । अत्र केचिदर्थेति स्वरूपग्रहणमिच्छन्ति । धान्यार्थः । ऊनशब्देन त्वर्थनि- र्देशार्थेन तदर्थानां ग्रहणमिति प्रतिपदोक्तत्वादेव सिद्धे तृतीयाग्रहणं स्पष्टार्थम् ॥ मिश्रं चानुपसर्गमसन्धौ । ६ । २ । १५४ ॥ पणबन्धेनैकार्थ्यं सन्धिः ॥ तिलमिश्राः । सर्पि- र्मिश्राः । मिश्रं किम् ? गुडधानाः । अनुपसर्गं किम् ? तिलसंमिश्राः । मिश्रग्रहणे सोपसर्ग- ग्रहणस्येदमेव ज्ञापकम् । असन्धौ किम् ? ब्राह्मणमिश्रो राजा ब्राह्मणैः सह संहित ऐकार्थ्य- मापन्नः ॥ नञो गुणप्रतिषेधे सम्पाद्यर्हहितालमर्थास्तद्धिताः । ६ । २।१५५ ॥ सम्पा- द्याद्यर्थतद्धितान्ता नञो गुणप्रतिषेधे वर्तमानात्परेऽन्तोदात्ताः ॥ कर्णवेष्टकाभ्यां संपादि कार्ण- वेष्टिकिकम् । न कार्णवेष्टिकिकमकार्णवेष्टिकिकम् ॥ छेदमर्हति छेदिकः । न छेदिकोऽच्छेदिकः । न वत्सेभ्यो हितोऽवत्सीयः । न सन्तापाय प्रभवति असान्तापिकः । नञः किम् ? गर्दभर- थमर्हति गार्दभरथिकः । विगार्दभरथिकः । गुणप्रतिषेधे किम् ? गार्दभरथिकादन्योऽगार्दभर- थिकः । गुणो हि तद्धितार्थे प्रवृत्तिनिमित्तं सम्पादित्वाद्युच्यते । तत्प्रतिषेधो यत्रोच्यते तत्रार्यं विधिः । कर्णवेष्टकाभ्यां न सम्पादि सुखमिति । संपेति किम् ? पाणिनीयमधीते पाणिनीयः । न पाणिनीयः अपाणिनीयः । तद्धिताः किम् ? वोढुमर्हति वोढा । न वोढाऽवोढा ॥ यय- तोश्चातदर्थे ।६।२।१५६ ॥ ययतौ यौ तद्धितौ तदन्तस्योत्तरपदस्य नञो गुणप्रतिषेधवि- षयात्परस्यान्त उदात्तः स्यात् ॥ पाशानां समूहः पाश्या न पाश्या अपाश्या । अदन्तयम् ।
१ याजकादयः षष्ठीसमासे उक्ताः ।