वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 590, कुल 835 में से
संदर्भ में पढ़ेंअतदर्थे किम् ? अपाद्यम् । तद्धितः किम् ? अदेयम् । गुणप्रतिषेधे किम् ? दन्त्यादन्यदद- न्त्यम् । तदनुबन्धग्रहणे नातदनुबन्धकस्येति । नेह-अवामदेव्यम् ॥ अच्कावशकौ । । ६।२।१५७ ॥ अजन्तं कान्तं च नञः परमन्तोदात्तमशक्तौ गम्यायाम् ॥ अपचः । पक्तुं न शक्तः । अविलिखः । अशक्तौ किम् ? अपचो दीक्षितः । गुणप्रतिषेधे इत्येव । अन्योऽयं पचादपचः ॥ आक्रोशे च । ६।२।१५८ ॥ नञः परावच्कावन्तोदात्तावाक्रोशे ॥ अपचो जाल्मः । पक्तुं न शक्नोतीत्येवमाक्रोश्यते । अविक्षिपः ॥ संज्ञायाम् । ६।२।१५९ ॥ नञः परमन्तोदात्तं संज्ञायामाक्रोशे ॥ अदेवदत्तः ॥ कृत्योकेष्णुञ्चार्वादयश्च । ६।२।१६० ॥ नञः परेऽन्तोदात्ताः स्युः ॥ अकर्तव्यः । उक-अनागामुकः । इष्णुच्-अनलङ्करिष्णुः । इष्णुज्ग्रहणे खिष्णुचो द्वयनुबन्धकस्यापि ग्रहणमिकारादेर्विधानसामर्थ्यात् । अनाढ्यम्भविष्णुः । चार्वादिः । अचारुः । असाधुः ॥ राजाहोश्छन्दसि ॥ अराजा । अनहः । भाषायां नञः स्वर एव ॥ विभाषा तृन्नन्नतीक्ष्णशुचिषु । ६।२ । १६१ ॥ तृन्-अकर्ता । अन्न- अनन्नम् । अतीक्ष्णम् । अशुचि । पक्षे अव्ययस्वरः ॥ बहुव्रीहाविदमेतत्तद्द्द्यचः प्रथम- पूरणयोः क्रियागणने । ६।२।१६२ ॥ एभ्योऽनयोरन्त उदात्तः ॥ इदं प्रथममस्य स इद- म्प्रथमः । एतद्द्वितीयः । तत्पञ्चमः । बहुव्रीहौ किम् ? अनेन प्रथम इंदप्रथमः । तृतीयेति योगविभागात्समासः । इदमेतत्तद्द्व्यचः किम् ? यत्प्रथमः । प्रथमपूरणयोः किम् ? तानि बहू- न्यस्य तद्बहुः । क्रियागणने किम् ? अयं प्रथमः प्रधानं येषां ते इदम्प्रथमाः । द्रव्यगणन- मिदम् । गणने किम् ? अयं प्रथम एषां ते इदम्प्रथमाः इदम्प्रधाना इत्यर्थः । उत्तरपदस्य कार्यित्वात्कपि पूर्वमन्तोदात्तम् । इदम्प्रथमकः । बहुव्रीहावित्यधिकारो वनं समास इत्यतः प्राग्बोध्यः ॥ संख्यायाः स्तनः । ६।२।१६३ ॥ बहुव्रीहावन्तोदात्तः ॥ द्विस्तना । चतुः- स्तना । संख्यायाः किम् ? दर्शनीयस्तना । स्तनः किम् । द्विशिराः ॥ विभाषा छन्दसि । ६।२। १६४ ॥ द्विस्तनां करोति ॥ संज्ञायां मित्राजिनयोः । ६।२।१६५ ॥ देव- मित्रः । कृष्णाजिनम् । संज्ञायां किम् ? प्रियमित्रः ॥ ऋषिप्रतिषेधो मित्रे * ॥ विश्वामित्र ऋषिः ॥ व्यवधायिनोऽन्तरम् । ६।२। १६६ ॥ व्यवधानवाचकात्परमन्तोदात्तम् ॥ वस्त्र- मन्तरं व्यवधायकं यस्य स वस्त्रान्तरः । व्यवधायिनः किम् ? आत्मान्तरः । अन्यस्वभाव इत्यर्थः ॥ मुखं स्वाङ्गम् । ६।२।१६७ ॥ गौरमुखः । स्वाङ्गं किम् ? दीर्घमुखा शाला ॥ नाऽव्ययदिक्शब्दगोमहत्स्थूलमुष्टिपृथुवत्सेभ्यः । ६।२। १६८ ॥ उच्चैर्मुखः । प्राङ्मुखः । गोमुखः । महामुखः । स्थूलमुखः । मुष्टिमुखः । पृथुमुखः । वत्समुखः । पूर्वपदप्रकृ- तिस्वरोऽत्र । गोमुष्टिवत्सपूर्वपदस्योपमानलक्षणोऽपि विकल्पोऽनेन बाध्यते ॥ निष्ठापमाना- १ चारु, साधु, यौधिकि, अनङ्गमेजय, वदान्य, अकस्मात्, “ वर्तमान, वर्धमान, त्वरमाण, म्रियमाण, क्रियमाण, रोचमान, शोभमानाः संज्ञायाम् ” विकारसदृशे व्यस्तसमस्ते, गृहपति, गृहपतिक, राजाहोश्छन्दसि ॥ इति चार्वादिः ॥