BharatKosha
Back to the archive

वायु पुराण

Vayu Purana

by महर्षि वेदव्यास / अनुवादक: पं० तारिणीश झा

Source: हिन्दी साहित्य सम्मेलन, प्रयाग · हिन्दी साहित्य सम्मेलन, प्रयाग (origin)

DevanagariHindipublished465 pages
Page 261Permalink

३५२ श्रीमद्वैपायनमुनिप्रणीतम्– [अ० ६८-६९श्लो० २६-३९-१-७] ( कश्यपीयप्रजासर्गः )

ताभ्यां पुत्रसहस्राणि षष्टिर्दानवपुङ्गवाः । चतुर्दश तथाऽन्यानि हिरण्यपुरवासिनाम् ॥ २६ पौलोमाः कालकेयाश्च दानवाः सुमहाबलाः । अवध्या देवतानां ते निहताः सव्यसाचिना ॥ २७ मयस्य जाता ये पुत्राः सर्वे वीरपराक्रमाः । मायावी दुन्दुभिश्चैव वृषश्च महिषस्तथा ॥ २८ बालिको वज्रकर्णश्च कन्या मन्दोदरी तथा । दैत्यानां दानवानां च सर्ग एष प्रकीर्तितः ॥ २९ दनायुषायाः पुत्रास्तु स्मृताः पञ्च महाबलाः । अरूरुर्बलिजन्मौ च विरक्षश्च विषस्तथा ॥ ३० अरूरोस्तनयः क्रूरो धुन्धुर्नाम महासुरः । निहतः कुवलाश्वेन उत्तङ्कवचनात्किल ॥ ३१ बलेः पुत्रौ महावीर्यौ तेजसाऽप्रतिमावुभौ । कुम्भिलश्चक्रवर्मा च स कर्णः पूर्वजन्मनि ॥ ३२ विरक्षस्यापि पुत्रौ द्वौ कालकश्च वरश्च तौ । विषस्य त्वभवन्पुत्राश्चत्वारः क्रूरकर्णिकः ॥ श्राद्धहा यज्ञहा चैव ब्रह्महा पशुहा तथा ॥ ३३ क्रान्ता दनायुषापुत्रा वृत्रस्यापि निबोधत । जज्ञिरे श्वसनाद्धोराद्दृष्टस्येन्द्रेण युध्यतः ॥ ३४ भर्त्तारो मनसा ख्याता राक्षसाः सुमहाबलाः । शतं तानि सहस्राणि महेन्द्रानुचराः स्मृताः ॥ ३५ सर्वे ब्रह्मविदः सौम्या धार्मिकाः सूक्ष्ममूर्तयः । प्रजास्वन्तर्गताः सर्वे निवसन्ति सुधार्मिकाः ॥ ३६ दैत्यानां दानवानां स सर्ग एष प्रकीर्तितः । प्रवाद्यजनयत्पुत्रान्यज्ञै वै गायनोत्तमान् ॥ ३७ सत्वः सत्त्वात्मकश्चैव कलापश्चैव वर्यवान् । क्रुतवीर्यो ब्रह्मचारी सुपाण्डुश्चैव सप्तमः ॥ ३८ पनश्चैव तरण्यश्च सुचन्द्रो दशमस्तथा । इत्येते देवगन्धर्वा विज्ञेयाः परिकीर्तिताः ॥ ३९ इति श्रीमहापुराणे वायुप्रोक्ते उपोद्घातपादे कश्यपीयप्रजासर्गो नामाष्टषष्टितमोऽध्यायः ॥ ६८ ॥

आदितः श्लोकानां समष्ट्यङ्काः—६१९१


अथ नवषष्टितमोऽध्यायः ।

कश्यपीयप्रजासर्गः ।

सूत उवाच-- गन्धर्वाप्सरसः पुण्या मौनेयाः परिकीर्तिताः । चित्रसेनोद्यसेनश्च ऊर्णायुरनघस्तथा ॥ १ धृतराष्ट्रः पुलोमा च सूर्यवर्चास्तथैव च । युगपत्तृणपत्कालिदितिश्चित्ररथस्तथा ॥ २ त्रयोदशो भ्रमिशिराः पर्जन्यश्च चतुर्दशः । कलिः पञ्चदशश्चैव नारदश्चैव षोडशः ॥ इत्येते देवगन्धर्वा मौनेयाः परिकीर्तिताः ॥ ३ चतुस्त्रिंशद्यवीयस्यस्तेषामप्सरसः शुभाः । अन्तरा दारवत्या च प्रियमुरुख्या सुरोत्तमा ॥ ४ मिश्रकेशी तथा चाशी वर्णिनी वाऽप्यलम्बुषा । मारीची पुत्रिका चैव विद्युद्वर्णा तिलोत्तमा ॥ ५ अद्रिका लक्षणा चैव देवी रम्भा मनोरमा । सुवरा च सुबाहुश्च पूर्णिता सुप्रतिष्ठिता ॥ ६ पुण्डरीका सुगन्धा च सुदन्ता सुरसा तथा । हेमा शारद्वती चैव सुवृत्ता कमला च या ॥ ७

Page 262Permalink

[अ० ६९ श्लो० ८-३६] वायुपुराणम् । २५३

( कश्यपीयप्रजासर्गः )

सुभुजा हंसपादा च लौकिक्योऽप्सरसस्तथा । गन्धर्वाप्सरसो ह्येता मौनेयाः परिकीर्तिताः ॥ ८
गन्धर्वाणां दुहितरो मया याः परिकीर्तिताः । (*तासां नामानि सर्वासां कीर्त्यमानानि मे शृणु ॥
सुयशा प्रथमा तासां गान्धर्वी तदनन्तरम् । विद्यावती चारुमुखी सुमुखी च वरानना ) ॥ १०
तत्रेमे सुयशापुत्रा महाबलपराक्रमाः । प्रचेतसः सुता यक्षास्तेषां नामानि मे शृणु ॥ ११
कम्बलो हरिकेशश्च कपिलः काञ्चनस्तथा । मेघमाली तु यक्षाणां गण एष उदाहृतः ॥ १२
सुयशाया दुहितरश्चतस्रोऽप्सरसः स्मृताः । तासां नामानि वै सम्यग्ब्रुवतो मे निबोधत ॥ १३
लोहेयी त्वभवज्ज्येष्ठा भरता तदनन्तरम् । कृशाङ्गी च विशाला च रूपेणाप्रतिमा तथा ॥ १४
ताभ्योऽपरे यक्षगणाश्चत्वारः परिकीर्तिताः । उत्पादिता विशालेन विक्रान्तेन महात्मना ॥ १५
लोहेया भरतेयाश्च कृशाङ्गेयाश्च विश्रुताः । विशालेयाश्च यक्षाणां पुराणे प्रथिता गणाः ॥ १६
इत्येतैरसुरैर्धीरैर्महाबलपराक्रमैः । नैकैर्यक्षगणैर्व्याप्ता लोका लोकविदां वराः ॥ १७
गन्धर्वाश्चाथ वालेया विक्रान्तेन महात्मना । उत्पादिता महावीर्या महागन्धर्वनायकाः ॥ १८
विक्रमौदार्यसंपन्ना महाबलपराक्रमाः । तेषां नामानि वक्ष्यामि यथावदनुपूर्वशः ॥ १९
चित्राङ्गदो महावीर्यश्चित्रवर्मा तथैव च । चित्रकेतुर्महाभागः सोमदत्तोऽथ वीर्यवान् ॥ २०
तिस्रो दुहितरश्चैव तासां नामानि वक्ष्यते ( मे शृणु ) २१
प्रथमा त्वभ्रिका नाम कम्बला तदनन्तरम् । तथा वसुमती नाम रूपेणाप्रतिमौजसः ॥ २२
ताभ्यः परे कुमारेण गणा उत्पादितास्त्विमे । त्रयो गन्धर्वमुख्यानां (णां) विक्रान्ता युद्धदुर्मदाः ॥ २३
आभ्रेयाः काम्बलेयाश्च तथा वसुमतिसुताः । तैर्गणैर्विविधैर्व्याप्तमिमं लोकं चराचरम् ॥ २४
विद्यावन्तश्च तेनैव विक्रान्तेन महात्मना । उत्पादिता महाभागा रूपविद्याधनेश्वराः ॥ २५
तेषामुदीर्णवीर्याणां गन्धर्वाणां महात्मनाम् । नामानि कीर्त्यमानानि शृणुध्वं मे विवक्षतः ॥ २६
हिरण्यरोमा कपिलः सुलोमा मागधस्तथा । चन्द्रकेतुश्च वै गाङ्गो मोदश्चैव महाबलः ॥ २७
महविद्यावदातानां विक्रान्तानां तपस्विनाम् । इत्येवमादिर्हि गणो द्वे चान्ये च सुलोचने ॥ २८
शिवा च सुमनाश्चैव ताभ्यामपि महात्मना । उत्पादिता विश्ववसा विद्याचरणगोचराः ॥ २९
शैवेयाश्चैव विक्रान्तास्तथा सौमनसा गणाः । एतैर्य्याप्तमिमं लोकं विद्याधरगणैस्त्रिभिः ॥ ३०
एभ्योऽनेकानि जातानि अम्बरान्तरचारिणाम् । लोके गणशतान्येव विद्याधरविचेष्टितात् ॥ ३१
अश्वमुख्याश्च तेनैव विक्रान्तेन महात्मना । उत्पादिता ह्यश्वमुखाः किंनरांस्तान्निबोधत ॥ ३१
समुद्रसेनः कालिन्दो महानेत्रो महाबलः । सुवर्णघोषः सुग्रीवो महाघोषश्च वीर्यवान् ॥ ३२
इत्येवमादिर्हि गणः किंनराणां महात्मनाम् । हयाननानां विद्वाद्भिर्विस्तीर्णः परिकीर्त्यते ॥ ३३
तथा समुत्थितेनैव विक्रान्तेन महात्मना । उत्पादिता नरमुखाः किंनराः शांशपायनाः ॥ ३४
हरिषेणः सुषेणश्च वारिषेणश्च वीर्यवान् । रुद्रदत्तेन्द्रदत्तौ च चन्द्रद्रुममहाद्रुमौ ॥ ३५
बिन्दुश्च बिन्दुसारश्च चन्द्रवंशश्च किंनराः । इत्येते किंनराः श्रेष्ठा लोके ख्याताः सुशोभनाः ॥ ३६

* धनुश्चिह्नान्तर्गतग्रन्थो ग पुस्तके नास्ति ।

Page 263Permalink

२५४ श्रीमद्वैपायनमुनिप्रणीतम्- [अ० ६९ श्लो० ३७-५८] ( कश्यपीयप्रजासर्गः )

नृत्यगीतप्रगल्भानामेतेषां द्विजसत्तमाः । लोके गणशतान्येव किंनराणां महात्मनाम् ॥ ३७ यक्षा यक्षोपशान्तश्च लौहेया रूपशालिनी । दुहिता सुरविन्देति प्रकाशा सिद्धसंमता ॥ ३८ उपायाकेतनस्याहि स्वयमुत्पादितो गणः । करालकेन भूतानां तेषां नामानि मे शृणु ॥ ३९ भूता भूतगणैर्ज्ञेया आवेशकनिवेशकाः । * सुतारः कालभवनानिर्देश कविदेशकाः ॥ इत्येवमादिर्हि गणो भूमिगोजरकः स्मृतः ॥ ४० विज्ञेय इह लोकेऽस्मिन्भूतानां भूतनायकः । ये तूत्कृष्टा भवन्त्येषामम्बरान्तरचारिणाम् ॥ वृक्षायमात्रमाकाशं ते चरन्ति न संशयः ॥ ४१ तत्रेमे देवगन्धर्वाः प्रायेण कथिता मया । देवोपस्थानानिरता विज्ञेयास्ते यशस्विनः ॥ ४२ नारायणं सुरगुरुं विरजं पुष्करेक्षणम् । हिरण्यगर्भं च तथा चतुर्वक्त्रं स्वयंभुवम् ॥ ४३ शंकरं च महादेवमीशानं च जगत्प्रभुम् । इन्द्रपूर्वांस्तथाऽऽदित्यान् रुद्रांश्च वसुभिः सह ॥ ४४ उपतस्थुः सगन्धर्वा नृत्यगीतविशारदाः । त्रिदशाः सर्वलोकस्था निपुणा गीतवादिनः ॥ ४५ हंसो ज्येष्ठः कनिष्ठोऽन्यो मध्यमौ च हहा हूहूः । चतुर्थो धिषणश्चैव ततो वासिरुचिस्तथा ॥ ४६ षष्ठस्तु तुम्बुरुस्तेषां ततो विश्वावसुः स्मृतः । इमाश्चाप्सरसो दिव्या विहिताः पुण्यलक्षणाः ॥ ४७ सुषुवेऽष्टौ महाभागा वरिष्ठा देवपूजिताः । अनवद्यामनवद्यामन्वतां मदनाप्रियाम् ॥ अरूपां सुभगां भासीमरिष्ठाऽष्टौ व्यजायत ॥ ४८ मनोवती सुकेशा च तुम्बुरोस्तु सुते उभे । पञ्चचूडास्त्विमा दिव्या दैविक्योऽप्सरसो दश ॥ ४९ मेनका सहजन्या च पार्णिनी पुञ्जिकस्थला । घृतस्थला घृताची च विश्वाची पूर्वचित्त्यपि ॥ प्रम्लोचेत्यभिविख्याताऽनुम्लोचन्ती तथैव च ॥ ५० अनादिनिधनस्याथ जज्ञे नारायणस्य या । ऊरोः सर्वानवद्याङ्गी उर्वश्येकादशी स्मृता ॥ ५१ मेनस्य मेनका कन्या ब्रह्मणो हृष्टचेतसः । सर्वाश्च ब्रह्मवादिन्यो महायोगाश्च ताः स्मृताः ॥ ५२ गणा अप्सरसां ख्याताः पुण्यास्ते वै चतुर्दश । ÷ आहूताः शोभयन्तश्च गणा ह्येते चतुर्दश ॥ ५३ ब्रह्मणो मानसाः कन्याः शोभयन्त्यो मनोः सुताः । वेगवन्तस्त्वरिष्ठाया ऊर्जायाश्चाभिसंभवा ॥ ५४ (× आयुष्मत्यश्च सूर्यस्य रश्मिजाताः सुभास्वराः । गर्भस्तेजश्च सोमस्य ज्ञेयास्ते कुरवः शुभाः ॥ ५५ यज्ञोत्पन्नाः शुभा नाम ऋक्सामान्यास्तु वह्नयः ) । वारिजा ह्यमृतोत्पन्ना अमृता नामतः स्मृताः ॥ वायुत्पन्ना सुदा नाम भूमिजाता भवास्तु वै । विद्युतश्च रुचो नाम मृत्योः कन्याश्च भैरवाः ५७ शोभयन्त्यश्च कामस्य गणाः प्रोक्ताश्चतुर्दश । सेन्द्रोपेन्द्रैः सुरगणै रूपातिशयनिर्मिताः ॥ ५८


* इदमर्धं नास्ति क. पुस्तके । + एतदर्धस्थानेऽयं ग्रन्थः-‘आहूताः शोभयन्तश्च वेगवत्यस्तथैव च । दुर्मयाश्च युवतयश्च तथा भेकुरयः शुभाः । वह्नयोत्यमृतात्सेदा भुवश्च रुचयस्तथा । भैरवाः शोभयन्त्यश्च गणा ह्येते चतुर्दश ' इति-ख. घ. पुस्तकयोः । × धनुश्चिह्नान्तर्गतग्रन्थः क. पुस्तके नास्ति ।

धनुरूपा महाभागा दिव्या नारी तिलोत्तमा । ब्रह्मणश्चाग्निकुण्डाच्च देवनारी प्रभावती ॥

Page 264Permalink

[०६९श्लो०५९-८२] वायुपुराणम् । २५५ ( कश्यपीयप्रजासर्गः )

धनुरूपा महाभागा दिव्या नारी तिलोत्तमा । ब्रह्मणश्चाग्निकुण्डाच्च देवनारी प्रभावती ॥ रूपयौवनसंपन्ना उत्पन्ना लोकाविश्रुता ॥ ५९ वेदीतलसमुत्पन्ना चतुर्वक्त्रस्य धीमतः । नाम्ना वेदवती नाम सुरनारी महाप्रभा ॥ ६० तथा यमस्य दुहिता रूपयौवनश लिनी । वरहेमनिभा हेमा देवनारी सुलोचना ॥ ६१ इत्येते बहुसाहस्रं भास्वरा ह्यप्सरोगणाः । देवतानामृषीणां च पत्न्यस्ता मातरश्च ह ॥ ६२ सुगन्धाश्चम्पवर्णाश्च सर्वाश्चाप्सरसः समाः । संपयोगे तु कान्तेन माद्यन्ति मदिरां विना ॥ तासामाप्यायते स्पर्शादानन्दश्च विवर्धते ॥ ६३ (*पर्वते नारदे पूर्वं रेतः स्कन्नं प्रजापतेः । पर्वतस्तत्र संभूतो नारदश्चैव तावुभौ ॥ ६४ तयोर्यवीयसी चैव तृतीयाऽरुन्धती स्मृता । देवरुख्यो(?सूर्यजन्म तस्मिन्नारदपर्वतौ ) ॥ ६५ विनतायास्तु पुत्रौ द्वावरुणा गरुडश्च ह । षट्त्रिंशत्तु स्वसारश्च यवीयस्यस्तु ताः स्मृताः ॥ ६६ गायत्र्यादीनि च्छन्दांसि सौपर्णेयाश्च पक्षिणः । हव्यवाहानि सर्वाणि दिक्षु संनिहितानि च ॥ ६७ कण्डूर्नागसहस्रं वै चराचरमजीजनत् । अनेकशिरसां तेषां खेचराणां महात्मनाम् ॥ बहुधा नामधेयानां प्रायशस्तु निबोधत ॥ ६८ तेषां प्रधाननागाश्च शेषवासुकितक्षकाः । सकर्णीरश्च जम्भश्च अञ्जनो वामनस्तथा ॥ ६९ ऐरावतमहापद्मौ कम्बलाश्वतरावुभौ । एलपत्रश्च शङ्खश्च कर्कोटकधनंजयौ ॥ ७० महाकर्णो महानीलो धृतराष्ट्रबलाहकौ । कुमारः पुष्पदन्तश्च सुमुखो दुर्मुखस्तथा ॥ ७१ शिलीमुखो दधिमुखः कालीयः शालिपिण्डकः । बिन्दुपादः पुण्डरीको नागश्चापूरणस्तथा ॥ ७२ कपिलश्चाम्बरीषश्च धृतपादश्च कच्छपः । प्रह्लादः पद्मचित्रश्च गन्धर्वोऽथ मनस्विकः ॥ ७३ नहुषः खररोमा च मणिरित्येवमादयः । काद्रवेया मया ख्याताः खशायास्तु निबोधत ॥ ७४ खशा विजज्ञे पुत्रौ द्वौ विश्रुतौ पुरुषादकौ । ज्येष्ठं पश्चिमसंख्यायां पूर्वस्यां मनुजास्तथा ॥ ७५ विलोहितं विकर्णं च पूर्वं साऽजनयत्सुतम् । चतुर्भुजं चतुष्पादं द्विमूर्धानं द्विधागतिम् ॥ ७६ सर्वाङ्गकेशं स्थूलाङ्गं तुङ्गनासं महोदरम् । स्थूलशीर्षं महाकर्णं मुञ्जकेशं मनोरथम् ॥ ७७ हस्त्योष्ठं दीर्घजङ्घं च अधर्दंष्ट्रं महाहनुम् । रक्तजिह्वं जटाक्षं च स्थूलास्यं दीर्घनासिकम् ॥ ७८ गुहकं शितिकर्णं च महानन्दं महामुखम् । एवंविधं खशा पुत्रं विजज्ञे साऽतिभीषणम् ॥ ७९ तस्यानुजं द्वितीयं तु खशा चैव व्यजायत । त्रिशीर्षं च त्रिपदं च त्रिहस्तं कृष्णलोचनम् ॥ ८० ऊर्ध्वकेशं हरिच्छ्मश्रुं शिलासंहननं दृढम् । ह्रस्वकायं सुबाहुं च महाकायं महाबलम् ॥ ८१ आकर्णदारितास्यं च लम्बभ्रूं स्थूलनासिकम् । स्थूलोष्ठमष्टदंष्ट्रं च द्विजिव्हं शङ्कुकर्णकम् ॥ ८२


* धनुश्चिह्नान्तर्गतग्रन्थः क पुस्तके नास्ति ।

Page 265Permalink

२५६ श्रीमद्द्वैपायनमुनिप्रणीतम्- [अ०६९-श्लो०८३-१०२] ( कश्यपीयप्रजासर्गः)

पिङ्गलोद्धृतनयनं जटिलं पिङ्गलं तथा । महाकर्णं महोरस्कं कटिहीनं कृशोदरम् ॥
नखिनं लोहितग्रीवं सा कनिष्ठं प्रसूतये ॥ ८३
सद्यः प्रसूतमात्रौ तु विवृद्धौ च प्रमाणतः । उपभोगसमर्थाभ्यां शरीराभ्यामुपस्थितौ ॥
सद्योजातविवृद्धाङ्गौ मातरं पर्यभूषताम् । ८४
ज्यायांस्तयोस्तु यः क्रूरो मातरं सोऽभ्यकर्षत । अब्रवीन्मातरायाहि भक्षार्थे क्षुधयाऽर्दितः ॥ ८५
न्यषेधयत्सुतस्त्वेनं ज्यायांसं तु कनिष्ठकः । अब्रवीत्सोऽसकृत्तं वै रक्षेमां मातरं खशाम् ॥
बाहुभ्यां परिगृह्यैनं मातरं तां व्यमोचयत् ॥ ८६
एतस्मिन्नेव काले तु प्रादुर्भूतस्तयोः पिता । तौ दृष्ट्वा विकृताचारौ वसतां हीत्याभाषत ॥ ८७
तौ तु तं पितरं दृष्ट्वा बलवन्तौ त्वरान्वितौ । मातुरेव पुनश्चाङ्के प्रलपेतां स्वमायया ॥ ८८
अथाब्रवीदृषिभार्यामावाभ्यामुक्तवत्यसि । पूर्वमाचक्ष्व तत्त्वेन तथैवाऽऽभ्यां व्यतिक्रमम् ॥ ८९
मातुलं भजते पुत्रः पितॄन्भजति कन्यका । यथाशीला भवेन्माता तथाशीलो भवेत्सुतः ॥ ९०
यद्वर्णा तु भवेद्भूमिस्तद्वर्णं सलिलं ध्रुवम् । मातृणां शीलदोषेण तथा शीलगुणैः पुनः ॥
विभिन्नास्तु प्रजाः सर्वास्तथा ख्यातिवशेन च ॥ ९१
बलशीलादिभिस्तासामदितिर्धर्मतत्परा । * गन्धशीला दितिश्चैव प्रवाध्ययनशालिनी ॥
धर्मशीलादिभिश्चैव प्रबोधबलशालिनी ॥ ९२
गीतशीला तथाऽरिष्टा मायाशीला दनुः स्मृता । विनता तु पुनर्देवी वैहायसगतिप्रिया ॥ ९३
तपोमयेन शीलेन सुरभिः समलंकृता । क्रोधशीला तथा कद्रूः क्रोधेनासुखशीलका ॥ ९४
दनायुषायाः शीलं वै वैराद्यनुग्रहलक्षणम् । त्वं च देवि महाभागे क्रोधशीला मताऽसि मे ॥ ९५
इत्येतानि स्वशीलानि स्वभावालोकनान्नृणाम् । कर्मतो यत्नतो बुद्ध्या रूपतो बलतस्तथा ॥
क्षमातश्चैव भिन्नानि भावितातार्थबलेन च ॥ ९६
रजःसत्त्वतमोवृत्तेर्विश्वरूपाः स्वभावतः । मातुलं त्वनुयातास्ते पुत्रका गुणवृत्तिभिः ॥ ९७
इत्येवमुक्त्वा भगतान्खशामप्रतिमां तदा । पुत्रावाहूय साम्ना वै चक्रे सोममभीतयः (?) ॥ ९८
ताभ्यां च यत्कृतं तस्यास्तदाचष्ट तदा खशा । मात्रा यथा समाख्यातं कर्म ताभ्यां पृथक्पृथक्
तेन धात्वर्थयोगेन तत्वदर्शी चकार ह ॥ ९९
यक्ष इत्येष धातुर्वै खादने क्षपणे च सः । यक्षयत्युक्तवान्यस्मात्तस्माद्यक्षो भवत्ययम् ॥ १००
रक्ष इत्येष धातुर्यः पालने स विभाव्यते । उक्तवांश्चैव यस्मात्तु रक्ष मे मातरं खशाम् ॥
नाम्नाऽयं राक्षसस्तस्माद्भविष्यति तवाऽऽत्मजः ॥ १०१
स तदा तद्विधान्दृष्ट्वा विज्ञाय तु तयोः पिता । तथा भाविनमर्थं च बुद्ध्वा मातृकृतं तयोः ॥ १०२


* इदमर्धं नास्ति क. पुस्तके ।

Page 266Permalink

[अ०६९श्लो०१०३-१२९] वायुपुराणम्। २५७ (कश्यपीयप्रजासर्गः) तावभौ क्षुधितौ दृष्ट्वा विस्मितः परिमृग्य च। तयोः प्रादिशदाहारं प्रजापतिरसुग्वसे ॥ १०३ पिता तौ क्षुधितौ दृष्ट्वा वरं चेमं तयोर्ददौ। युवयोर्हस्तसंस्पर्शो नक्तमेव तु सर्वशः ॥ १०४ नक्ताहारविहारौ च दिवास्वमोपभोगिनौ। नक्तं चैव बलीयांसौ दिवास्वमावुभौ युवाम् ॥ १०५ मातरं रक्षतं चैव धर्मश्चैवानुशिष्यताम्। इत्युक्त्वा कश्यपः पुत्रौ तत्रैवान्तरधीयत ॥ १०६ गते पितरि तौ वीरौ निसर्गादेव दारुणौ। विपर्ययेण वर्तन्तौ किंभक्षौ पाणिहिंसकौ ॥ १०७ महाबलौ महासत्त्वौ महाकायौ दुरासदौ। मायाविनौ च दृप्तौ तावन्तर्धानगतावुभौ ॥ १०८ तौ कामरूपिणौ घोरौ विकृताङ्गौ स्वभावतः। रूपानुरूपैराहारैः प्रभवेतामुभावपि ॥ १०९ देवासुरानृषींश्चैव गन्धर्वान्किन्नरानपि। पिशाचांश्च मनुष्यांश्च पन्नगान्याक्षिणः पशून् ॥ ११० भक्षार्थमपि लिप्सन्तौ सर्वतस्तौ निशाचरौ। इन्द्रण तु वरौ चैव धृतौ दत्त्वा त्ववध्यताम् ॥ १११ यक्षस्तु न कदाचिद्वै निशीथे ह्येककश्चिरम्। आहारं स परीप्सन्वैन शब्देनानुच्चार ह ॥ ११२ आससाद पिशाचौ द्वौ जनुचण्डौ च तावुभौ। पिङ्गाक्षावूर्ध्वरोमाणौ वृत्ताक्षौ तु सुदारुणौ ॥ ११३ अत्तृङ्मांसवसाहारौ पुरुषादौ महाबलौ। कन्याभ्यां सहितौ तौ तु ताभ्यां प्रियचिकीर्षया ॥ ११४ द्वे कन्ये कामरूपिण्यौ तदाचारे च ते शुभे। आहारार्थमटन्तौ तौ कन्याभ्यां सहितावुभौ ॥ ११५ तेऽपश्यन्राक्षसं तत्र कामरूपं महाबलम्। सहसा संनिपाते तु दृष्ट्वा चैव परस्परम् ॥ ११६ रक्षमाणौ ततोऽन्योन्यं परस्पराजिघृक्षवः। पितरावूचतुः कन्ये युवामानयतं द्रुतम् ॥ ११७ जीवग्राह्ये विगृह्यैनं विस्फुरन्तं पदे पदे। ततः समभिसृत्यैनं कन्ये जगृहतुस्तदा ॥ गृहीत्वा हस्तयोस्ताभ्यामानीते पितृसंसदि ॥ ११८ ताभ्यां करे गृहीतं तं पिशाचावथ राक्षसम्। पृच्छतां कोऽसि कस्य त्वं स च सर्वमभाषत ॥ ११९ तस्य कर्माभिविज्ञातं ज्ञात्वा तौ राक्षसर्पभौ। अजस्य खण्डं तस्यैते प्रत्यपादयतां सुते ॥ १२० तौ तुष्टौ कर्मणा तस्य कन्ये द्वे ददतुस्तु ते ॥ १२१ पैशाचेन विवाहेन सुदत्या बुद्धवाहनः। अजः खण्डश्च ताभ्यां तौ तदाश्रावयतां धनम् ॥ १२२ इयं ब्रह्मधना नाम मम कन्या ह्यलोमिका। ब्रह्मसत्वधनाहारा इति खण्डोऽभ्यभाषत ॥ १२३ इयं जन्तुधना नाम कन्या सर्वाङ्गसुन्दरी। जन्तवोऽस्या धनाहारास्तावश्रावयतां धनम् ॥ १२४ सर्वाङ्गकेशी नाम्ना च कन्या जन्तुधना तथा। अकर्णान्ताऽप्यरोमा च कन्या ब्रह्मधना तु या ॥ ब्रह्मधनं प्रसूता सा तत्फलां चैव कन्यका। एवं पिशाचकन्ये ते मिथुने द्वे प्रसूयताम् ॥ तयोः प्रजाविसर्गं च ब्रुवतो मे निबोधत ॥ १२६ हेतृप्रहेतुरुग्रश्च(?) पौरुषेयो वधस्तथा। विस्फूर्जिश्चैव वातश्च आपो व्याघ्रस्तथैव च ॥ १२७ सर्पेश्च राक्षसा ह्येते यातुधानात्मजा दश। सूर्यस्यानुचरा ह्येते सह तेन भ्रमन्ति च ॥ १२८ हेतुपुत्रस्तथा लङ्कुर्लङ्कोद्गीवेव चात्मजौ। माल्यवांश्च सुमाली च प्रहेतुतनयाञ्शृणु ॥ प्रहेतुतनयः श्रीमान्पुलोमा नामविश्रुतः ॥ १२९ ३३

Page 267Permalink

२५८ श्रीमद्वैपायनमुनिप्रणीतम्- [अ०६९श्लो०१३०-१५४] ( कश्यपीयप्रजासर्गः )

वधपुत्रौ दुराचारौ विघ्नश्च शमनश्च ह । विद्युत्पुत्रौ दुराचारो रुमनो नाम राक्षसः ॥ स्फूर्जपुत्रा निकुम्भश्च क्रूरो वै ब्रह्मराक्षसः । वातपुत्रौ विरागस्तु आपपुत्रस्तु जम्बुकः ॥ १३० व्याघ्रपुत्रो निरानन्दो जन्तूनां विघ्नकारकः । इत्येते वै पराक्रान्ताः क्रूराः सर्वे तु राक्षसाः ॥ १३१ कीर्तिता यातुधानास्तु ब्रह्मधानान्निबोधत । यज्ञः पिता धुनिः क्षेमो ब्रह्म पापोऽथ यज्ञहा ॥ १३२ स्वाकोटकः कलिः सर्पो ब्रह्मधानात्मजा दश । स्वसारो ब्रह्मराक्षस्यस्तेषां चेमाः सुदारुणाः ॥ १३३ रक्तकर्णा महाजिह्वाऽक्षया चैवोपहारिणी । एतेषामन्वये जाताः पृथिव्यां ब्रह्मराक्षसाः ॥ १३४ श्लेष्मातकतरुष्वेते प्रायशस्तु कृतालयाः । इत्येते राक्षसाः क्रान्ता यक्षस्यापि निबोधत ॥ १३५ चकमेऽप्सरसं यक्षः पञ्चस्थूलां ऋतुस्थलीम् । तां लिप्सुश्चिन्तयानश्च नन्दनं स चचार ह ॥ १३६ वैभ्राजं सुरभिं चैव तथा चैत्ररथं च यत् । दृष्टवान्नन्दने तस्मिन्नप्सरोभिः सहासतीम् ॥ १३७ नोपायं विन्दते तत्र तस्या लाभाय चिन्तयन् । दूषितः स्वेन रूपेण कर्मणा तेन दूषितः ॥ १३८ ममोद्विजन्ते भूतानि भयावृत्तस्य सर्वशः । तत्कथं नाम चार्वङ्गी प्रामुयामहमङ्गनाम् ॥ १३९ दृष्टोपायं ततः सोऽथ शीघ्रकारी व्यवर्तत । कृत्वा रूपं वसुरुचेर्गन्धर्वस्य तु गुह्यकः ॥ ततः सोऽप्सरसां मध्ये तां जग्राह ऋतुस्थलीम् ॥ १४० बुद्ध्वा वसुरुचिं तं सा भावेनैवाभ्यवर्तत । संवृतः स तया सार्धं दृश्यमानोऽप्सरोगणैः ॥ १४१ तत्र संसिद्धकरणः सद्यो जातः सुतोऽस्य वै । परिणाहोच्चैर्युक्तः सद्यो वृद्धो ज्वलञ्श्रिया ॥ राजाऽहमिति नाभिर्हि पितरं सोऽभ्यभाषत । तवात्र जाते न भीतिः पिता तं प्रत्युवाच ह ॥ १४३ मात्राऽनुरूपो रूपेण पितुर्वीर्येण जायते । जाते स तस्मिन्हर्षेण स्वरूपं प्रत्यपद्यत ॥ १४४ स्वभावं प्रतिपद्यन्ते बृहन्तो यक्षराक्षसाः । म्रियमाणाः प्रसूताश्च क्रुद्धा भीताः प्रहर्षिताः ॥ १४५ ततोऽब्रवीदप्सरसं स्मयमानः स गुह्यकः । गृहं मे गच्छ सुश्रोणि सपुत्रा वरवर्णिनी ॥ १४६ इत्युक्ता सहसा तं च दृष्ट्वा स्वं रूपमास्थितम् । विभ्रान्ताः प्राद्रवन्भीताः क्रोधमानाप्सरोगणाः ॥ गच्छन्तीरन्वगच्छद्या पुत्रस्तां सान्त्वयन्निरा । गन्धर्वाप्सरसां मध्ये तां नीत्वा स न्यवर्तत ॥ १४८ तां च दृष्ट्वा समुत्पत्तिं यक्षस्याप्सरसां गणाः । यक्षाणां त्वं जनित्रीति प्रोचुस्तां वै ऋतुस्थलीम् ॥ जगाम सह पुत्रेण ततो यक्षः स्वमालयम् । न्यग्रोधरोहिणं नाम गुह्यका यत्र शेरते ॥ तस्मान्निवासो यक्षाणां न्यग्रोधः सर्वतः प्रियः ॥ १५० यक्षो रजतनाभस्तु गुह्यकानां पितामहः । अनुह्रादस्य दैत्यस्य भद्रामतिवरां सुताम् ॥ उपयेमे स भद्रायां यस्यां मणिवरो वशी ॥ १५१ जज्ञे सा मणिभद्रं च शक्रतुल्यपराक्रमम् । तयोः पत्न्यौ भगिन्यौ तु ऋतुस्थल्यात्मजे शुभे ॥ १५२ नाम्ना पुण्यजनी चैव तथा देवजनी च या । विजज्ञे मणिभद्रात्तु पुत्रान्पुण्यजनी शुभान् ॥ १५३ सिद्धार्थं सूर्यतेजं च सुमन्तं नन्दनं तथा । कन्यकं यविकं चैव मणिदत्तं वसुं तथा ॥ १५४

Page 268Permalink

[अ० ६९ श्लो० १५५-१८०] वायुपुराणम्। ३५९ ( कश्यपीयप्रजासर्गः ) सर्वानुभूतं शङ्खं च पिङ्गाक्षं भीरुमेव च। तथा मन्दरशोभि च पद्मं चन्द्रप्रभं तथा॥ १५५ मेघपूर्णं सुभद्रं च प्रद्योतं च महौजसम् । द्युतिमत्केतुमन्तौ च मित्रं मौलिसुदर्शनौ ॥ १५६ चत्वारो विंशतिश्चैव पुत्राः पुण्यजनाः शुभाः। जज्ञिरे मणिभद्रस्य ते सर्वे पुण्यलक्षणाः॥ तेषां पुत्राश्च पौत्राश्च यक्षाः पुण्यजनाः शुभाः॥ १५७ विजज्ञे देवजननी पुत्रान्मणिवरात्मजात्। पूर्णभद्रं हेमरथं मणिमन्नन्दिवर्धनी॥ १५८ कुस्तुम्बुरुं पिशाङ्गाभं स्थूलकर्णं महाजयम्। श्वेतं च विपुलं चैव पुष्पवन्तं भयावहम्॥ १५९ 'पद्मवर्णं सुनेत्रं च पक्षं बालं बकं तथा। कुमुदं क्षेमकं चैव वर्धमानं तथा दमम्॥ १६० पद्मनाभं वराङ्गं च सुवीरं विजयं कृतिम्। पूर्णमासं हिरण्याक्षं सुरूपं चैवमादयः॥ १६१ पुत्रा मणिवरस्यैते यक्षा वै गुह्यकाः स्मृताः। सुरूपाश्च विरूपाश्च स्रग्विणः पियदर्शनाः॥ १६२ तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः॥ १६३ खशायास्त्वपरे पुत्रा राक्षसाः कामरूपिणः। तेषां यथा प्रधानान्वै वर्ण्यमानान्निबोधत॥ १६४ लालाविः कुथनो भीमः सुमाली मधुरेव च। विस्फूर्जितो विद्युज्जिह्वो मातङ्गो धूम्रितस्तथा॥ १६५ चन्द्रार्कः सुकरो बुधः कपिलोमः महासकः। क्रीडः परशुनाभश्च चक्राक्षश्च निशाचरः॥ १६६ त्रिशिराः शतदंष्ट्रश्च तुण्डकेशश्च राक्षसः। यक्षश्चाकम्पनश्चैव दुर्मुखश्च शिलीमुखः॥ १६७ इत्येते राक्षसवर विक्रान्ता गणरूपिणः। सर्वलोकचरास्ते तु त्रिदशानां समक्रमाः॥ १६८ सप्त चान्या दुहितरस्ताः शृणुध्वं यथाक्रमम्। तासां च यः प्रजासर्गो येन चोत्पादिता गणाः॥ आलम्बा उत्कचा कृष्णा निर्ऋता कपिला शिवा। केशिनी च महाभागा भगिन्यः सप्त याः स्मृताः ताभ्यो लोकामिषादश्च हन्तारो युद्धदुर्मदाः। उदीर्णा राक्षसगणा इमे उत्पादिताः शुभाः॥ १७१ आलम्बेयो गणः क्रूर उत्कचेयो गणस्तथा। तथा कार्ष्णेयशैवेया राक्षसा ह्युत्तमा गणाः॥ १७२ तथैव नैर्ऋतो नाम त्र्यम्बकानुचरेण ह। उत्पादितः प्रजासर्गो गणेश्वरचरेण तु॥ १७३

  • उत्पादितां बलवता उदीर्णा यक्षराक्षसाः। विक्रान्ताः शौर्यसंपन्ना नैर्ऋता देवराक्षसाः॥ येषामधिपतिर्युक्तो नाम्ना ख्यातो विरूपकः॥ १७४ तेषां गणशतानेका उद्धतानां महात्मनाम्। प्रायेणानुचरन्त्येते शंकरं जगतः प्रभुम्॥ १७५ दैत्यराजेन कुम्भेन महाकाया महात्मना। उत्पादिता महावीर्या महाबलपराक्रमाः॥ १७६ कापिलया महावीर्या उदीर्णा दैत्यराक्षसाः। कम्पनेन च यक्षेण केशीन्यास्ते परे जनाः॥ १७७ उत्पादिता बलवता उदीर्णा यक्षराक्षसाः। केशिनीदुहितुश्चैव नीलायाः क्षुदमानसाः॥ १७८ आलम्बेयेन जनिता नैकाः सुरासिकेन हि। नैला इति समाख्याता दुर्जया घोरविक्रमाः॥ १७९ चरन्ति पृथिवीं कृत्स्नां तत्र ते देवलोकिकाः। बहुत्वाच्चैव सर्गस्य तेषां वक्तुं न शक्यते॥ १८०

* इदमर्धं नास्ति ख, ग, घ, ङ, पुस्तकेषु।

Page 269Permalink

२६० श्रीमद्वैपायनमुनिप्रणीतम्- [अ० ६९।श्लो० १८१-२०७] (कश्यपीयप्रजासर्गः)

तस्यास्त्वपि च नीलाया विकचा नाम राक्षसी । दुहिता स्वभावविकचा मन्दसत्त्वपराक्रमा ॥ १८१ तस्या अपि विरूपेण नैर्ऋतेनेह च प्रजाः । उत्पादिताः सुरा(?) घोराः शृणु तांस्त्वनुपूर्वशः॥ १८२ दंष्ट्राकरालाविकृता महाकर्णा महोदराः । हारका भीषकांश्चैव तथैव कामकाः परे ॥ १८३ वैनकाश्र्व पिशाचाश्र्व वाहकाः पाशकाः परे । भूमिराक्षसका ह्येते मन्दाः पुरुषविक्रमाः ॥ १८४ चरन्त्यदृष्टपूर्वाश्र्व नानाकारा ह्यनेकंशः । उत्कृष्टबलसत्त्वा ये ते च वै खेचराः स्मृताः ॥ १८५ लक्षमात्रेण चाऽऽकाशं स्वल्पाः स्वल्पं चरन्ति वै । एतैर्व्याप्तमिमं लोकं शतशोऽथ सहस्रशः ॥ १८६ भूमिराक्षसकैः सर्वैरनेकैः क्षुद्रराक्षसैः । नानाप्रकारैराक्रान्ता नानादेशाः समन्ततः ॥ १८७ समासाभिहताश्चैव सृष्टो राक्षसमातरः । अष्टौ विभागा ह्येषां हि विख्याता अनुपूर्वशः ॥ १८८ भद्रका निकराः केचिद्यज्ञनिष्पत्तिहेतुकाः (?) । सहस्रशतसंख्याता मर्त्यलोकविचारिणः ॥ १८९ पूतना मातृसामान्यास्तथा भूतभयंकराः । बालानां मानुषे लोके ग्रहा वैमानहेतुकाः ॥ १९० स्कन्दग्रहादयश्चैव आपकाश्चासकादयः । कौमारास्ते तु विज्ञेया बालानां ग्रहवृत्तयः ॥ १९१ स्कन्दग्रहाविशेषाणां मायिकानां तथैव च । पूतनानामभूतानां ये च लोकविनायकाः ॥ १९२ सहस्रशतसंख्यानां मर्त्यलोकविचारिणाम् । एवं गणशतान्येव चरन्ति पृथिवीमिमाम् ॥ १९३ यक्षाः पुण्यजना नाम तथा ये केऽपि गुह्यकाः । यक्षा देवजनाश्चैव तथा पुण्यजनाश्च ये ॥ १९४ गुह्यकानां च सर्वेषामगस्त्या ये च राक्षसाः । पौलस्त्या राक्षसा ये च विश्वामित्राश्च ये स्मृताः ॥ यक्षाणां राक्षसानां च पौलस्त्यागस्तयश्च ये । तेषां राजा महाराजः कुबेरो ह्यलकाधिपः ॥ १९६ यक्षा दृष्ट्वा पिबन्तीह नृणां मांसमसृग्वसाम् । रक्षांस्यनुप्रवेशेन पिशाचाः परिपीडनैः ॥ १९७ सर्वलक्षणसंपन्नाः समक्षेत्राश्च देवतैः । भास्वरा बलवन्तश्च ईश्वराः कामरूपिणः ॥ १९८ अनाभिभाष्या विक्रान्ताः सर्वलोकनमस्कृताः । सूक्ष्मास्त्वौजस्विनो मेध्या वरदा यज्ञियाश्च ये ॥ देवानां तुल्यधर्माणो ह्यसुराः सर्वशः स्मृताः । त्रिभिः पादैस्तु गन्धर्वा देवैर्हीनाः प्रभावतः ॥ १०० गन्धर्वेभ्यस्त्रिभिः पादैर्हीना वै सर्वगुह्यकाः । प्रभावतुल्या यक्षाणां विज्ञेयाः सर्वराक्षसाः ॥ ऐश्वर्यहीना यक्षेभ्यः पिशाचास्त्रिगुणं पुनः ॥ २०१ एवं धनेन रूपेण आयुषा च बलेन च । धर्मैश्वर्येण बुद्ध्या च तपःश्रुतपराक्रमैः ॥ २०२ देवासुरेभ्यो हीयन्ते त्रीन्पादान्वै परस्परम् । गन्धर्वाद्याः पिशाचान्ताश्चतस्रो देवयोनयः ॥ २०३

सूत उवाच—

अतः शृणुत भद्रं वः प्रजाः क्रोधवशात्मकाः । क्रोधायां कन्यका जज्ञे द्वादश ह्यात्मसंभवाः ॥ या भार्याः पुलहस्याऽऽसन्नामतस्ता निबोधत ॥ २०४ मृगी च मृगमन्दा च हरिर्भद्रा इरावती । भूता च कपिशा दंष्ट्रा निशा तिर्या तथैव च ॥ श्वेता चैव स्वरा चैव सुरसा चेति विश्रुताः ॥ २०५ मृग्यास्तु हरिणाः पुत्रा मृगाश्चान्याः शशास्तथा । न्यङ्कवः शरभा ये च रुरवः पृषताश्च ये ॥ मृगराजा मृगमन्दाया गवयाश्चापरे तथा । महिषोष्ट्रवराहाश्च खड्गगौरमुखास्तथा ॥ २०७

Page 270Permalink

[अ०६९श्लो०२०८-२३०] वायुपुराणम् । २६१

(कश्यपीयप्रजासर्गः)

हरेस्तु हरयः पुत्रा गोलाङ्गूलतरक्षवः । वानराः किंनराश्चैव व्याघ्राः किंपुरुषास्तथा ॥
इत्येवमादयोऽन्येऽपि इरावत्या निबोधत ॥ २०८
* सूर्यस्याण्डकपाले द्वे समानीय तु भौवनः । हस्ताभ्यां परिगृह्याथ रथंतरमगायत ॥ २०९
साम्ना प्रसूयमानेन सद्य एव गजोऽभवत् । स प्रागच्छदिरावत्यै पुत्रार्थे स तु भौवनः ॥ २१०
इरावत्याः सुतो यस्मात्तस्मादैरावतः स्मृतः । देवराजोपवाह्यत्वात्प्रथमः स मतङ्गराट् ॥
शुभ्राभ्राम्रभ्रतुर्दंष्ट्रः श्रीमानैरावतो गजः ॥ २११
अप्सुजस्यैकमूलस्य सुवर्णामस्य हस्तिजः । षड्दन्तस्य हि भद्रस्य औपवाह्यश्व वै बलः ॥ २१२
तस्य पुत्रोऽञ्जनश्चैव सुप्रतीकोऽथ वामनः । पद्मश्चैव चतुर्थोऽभूद्धास्तिनी चाभ्रमुस्तथा ॥ २१३
दिग्गजांस्तांश्च चत्वा(तु)रः श्वेताऽजनयताऽऽशुगान् । भद्रं मृगं च मन्दं च संकीर्णं चतुरः सुतान् ॥
संकीर्णोऽप्यञ्जनो यस्तु उपवाह्यो यमस्य तु । भद्रो यः सुप्रतीकस्तु हरितः स ह्यपांपतेः ॥ २१५
पद्मो मन्दस्तु यो गौरो द्विषो ह्यैलविलस्य सः । । मृगः श्यामस्तु यो हस्ती उपवाह्यः स पावकैः
पद्मोत्तरस्तु यः पद्मो गजां वै वरुणो गणः । उपलेपनमेषश्व तस्याष्टौ जज्ञिरे सुताः ॥ २१७
उदग्रभावेनोपेता जायन्ते तस्य चान्वये । श्वेतबालनखाः पिङ्गा वर्ष्मवन्तो मतङ्गजाः ॥
मतङ्गजान्प्रवक्ष्यामि नागानन्यानपि क्रमात् ॥ २१८
कपिलः पुण्डरीकश्च सुमनाभो रथान्तरः । जातौ नाम्ना सुतौ ताभ्यां सुप्रतिष्ठप्रमर्दनौ ॥ २१९
शूलाः स्थूलाः शिरोदान्ताः शुद्धबालनखास्तथा । बलिनः शक्तिनश्चैव मृतास्त्वाकुलिका गजाः
पुष्पदन्तो बृहतसामा षड्दन्तो दन्तपुष्पवान् । ताम्रवर्णी च तत्पुत्रः सहचारिविषाणितः ॥ २२१
अन्वये चास्य जायन्ते लम्बोष्ठाश्चारुदर्शिनः । श्यामाः सुदर्शनाश्चण्डा नानापीडायताननाः ॥ २२२
वामदेवोऽञ्जनश्यामः साम्नो जज्ञेऽथ वामनः । भार्या चैवाङ्गदा तस्य नीलवलक्षणौ सुतौ ॥ २२३
चण्डाश्चारुशिरोग्रीवा व्यूढोरस्कास्तपस्विनः । नरैर्बद्धाः कुले तेषां जायन्ते विकृता गजाः ॥ २२४
सुप्रतीकस्तु रूपेण नास्त्यस्य सदृशो गजः । तस्य प्रहारी संपाती पृथुश्चात्तिसुतास्त्रयः ॥ २२५
पशवो दीर्घतालवोष्ठाः सुविभक्तशिरोदराः । जायन्ते मृदुसंभूता वंशे तस्य मतङ्गजाः ॥ २२६
अञ्जनादञ्जना साम्नो विजज्ञे चाञ्जानावती । + एवं माता तयोश्चापि प्रथितायुरजः सुतौ ॥ २२७
महाविभक्तशिरसः स्निग्धजीमूतसंनिभाः । सुदर्शनाः सुवर्ष्माणः पद्माभाः परिमण्डलाः ॥
शूनाः पीतायतमुखा गजास्तस्यान्ययेऽभवन् ॥ २२८
जज्ञे चन्द्रमसः साम्नः पिङ्गला कुमुद्द्युतिः । पिङ्गलायाः सुतौ तस्यां महापद्मोर्मिमालिनौ ॥
समायवरदांश्चण्डान्प्रवृद्धबलिनोदरान् । हस्तियुद्धे प्रियान्नागान्विद्धि तस्य कुलोद्भवान् ॥ २३०


* इदमर्धं नास्ति घ. पुस्तके । + एतदर्थस्थान इदमर्धं 'पवमाना तयोश्चापि प्रथिताः पुरुजः सुतौ' इति ख. घ. ङ. पुस्तकेषु ।

Page 271Permalink

२६२ श्रीमद्वैपायनमुनिप्रणीतम्– [अ० ६९श्लो० २३१–२५७] ( कश्यपीयप्रजासर्गः )

एतान्देवासुरे युद्धे जयार्थे जगृहुः सुराः । कृतार्थैश्च विसृष्टास्तेः पूर्वोक्ताः प्रव्ययुर्दिशः ॥ २३१ एतेषामन्वये जातान्विनीतांस्त्रिदशा ददुः । अङ्गाय लोमपादाय सूत्रकाराय वै द्विपान् ॥ २३२ द्विरदो द्विरदाभ्यां च हस्ताद्धस्ती करात्करी । वरणाद्वारणी दन्ती दन्ताभ्यां गर्जनाद्गजः ॥ २३३ कुञ्जरः कुञ्जचारित्वान्नागो नगविरोघतः । मत्वा यातीति मातङ्गो द्विपो द्वाभ्यां पिबन्स्मृतः ॥ सामजः सामजातत्वादिति निर्वचनक्रमः ॥ २३४ एषां जिह्वापरावृत्तिरि(र)वाक्त्वं ह्यभिशापजम् । बलस्यानवतो या तु या चैषां गूढमुष्कता ॥ उभयं दन्तिनामेतत्स्वयंभूसुरशापजम् ॥ २३५ देवदानवगन्धर्वाः पिशाचोरगराक्षसाः । कन्यासु जाता दिग्नागैर्नानासत्त्वास्ततो गजाः ॥ २३६ संभूतिश्च प्रभूतिश्च नामनिर्वचनं तथा । एतद्गजानां विज्ञेयं येषां राजा विभावसुः ॥ २३७ कौशिकाद्याः समुद्रात्तु गङ्गायास्तदनन्तरम् । अञ्जनस्यैकमूलस्य प्राच्यान्नागवनं तु तत् ॥ २३८ उत्तरा तस्य विन्ध्यस्य गङ्गाया दक्षिणे च यत् । गङ्गोद्भेदोत्करूषेभ्यः सुपतीकस्य तद्वनम् ॥ अपरेणोत्कलाच्चैव ह्यवेदिभ्यश्च पश्चिमम् । एकभूवात्मजस्यैतद्धामनस्य वनं स्मृतम्(?) ॥ २४० अपरेण तु लौहित्यमासिन्धोः पश्चिमेन तु । यमस्यैतद्वनं प्रोक्तमनुपूर्वंतमेव तत् ॥ २४१ भूतिर्विजज्ञे भूतांश्च रुद्रस्यानुचरान्प्रभो । स्थूलांश्चांश्च दीर्घांश्च वामनान्ह्रस्वकान्समान् ॥ २४२ लम्बकर्णान्प्रलम्बोष्ठालम्बजिह्वास्तनोदरान् । एकरूपान्विरूपांश्च लम्बस्फिक्स्थूलपिण्डिकान् ॥ २४३ सरोवरसमुद्रादिनदीपुलिनवासिनः । कृष्णान्गौरांश्र नीलांश्च श्वेतांश्र लोहितारुणान् ॥ २४४ बभ्रून्व्रै शबलान्धूम्रान्कदून् राक्षसदारुणान् । मुञ्जकेशान्हृषीकेशान्सर्पयज्ञोपवीतिनः ॥ २४५ विसृष्टाक्षान्विरूपाक्षांल्लक्षाक्षानेकलोचनान् । बहुशीर्षान्विशीर्षांश्च एकशीर्षानशीर्षकान् ॥ २४६ चण्डांश्च विकटांश्चैव विरोमान्रोमशांस्तथा । अन्धांश्च जटिलांश्चैव कुब्जान्हेषकवामनात् ॥ २४७ सरोवरसमुद्रादिनदीपुलिनसेविनः । एककर्णान्महाकर्णान्शङ्कुकर्णानकर्णिकान् ॥ २४८ दंष्ट्रिणो नखिनश्चैव निर्दन्तांश्च द्विजिव्हिकान् । एकहस्तान्द्विहस्तांश्च त्रिहस्तांश्चाप्यहस्तकान् ॥ एकपादान्द्विपादांश्च त्रिपादान्वहुपादकान् । महायोगान्महासत्त्वान्सुतपस्कान्महाबलान् ॥ २५० सर्वत्रगानप्रतिघान्वलज्ञान्कामरूपिणः । घोरान्क्रूरांश्र मेध्यांश्च शिवान्पुण्यान्सवादिनः ॥ २५१ कुशहस्तान्महाजिह्वान्महाकर्णान्महाननान् । हस्तादांश्च सुखादांश्च शिरोदांश्र कपालिनः ॥ २५२ धन्विनो मुद्ररधरानासिशूलधरांस्तथा । दीप्तास्यान्दीप्तनेत्रांश्च चित्रमाल्यानुलेपनान् ॥ २५३ अन्नादान्पिशितादांश्च बहुरूपान्सुरूपकान् । रात्रिसंध्याचरान्घोरान्कांचित्सौम्यान्दिवाचरान् ॥ नक्तंचरान्सुदुःप्रेक्ष्यान्घोरांस्तान्व्रै निशाचरान् ॥ २५४ . परत्वे च भवं देवं सर्वे ते गतमानसाः । नैषां भार्याऽऽस्ति पुत्रो वा सर्वे ते ह्यूड्वरेतसः ॥ २५५ शतं तानि सहस्राणि भूतानामात्मयोगिनाम् । एते सर्वे महात्मानो भूत्याः पुत्राः प्रकीर्तिताः ॥ कपिशा जज्ञे कूष्माण्डी कुप्माण्डाञ्जज्ञिरे पुनः । मिथुनानि पिशाचानां वर्णेन कपिशेन च ॥ कपिशत्वात्पिशाचास्ते सर्वे च पिशिताशनाः ॥ २५७

अनर्कश्च अनर्का च कखण्डश्च कुखण्डिका । पाणिपात्रा पाणिपात्री पांशुः पांशुमञ्जी तथा ॥

Page 272Permalink

[अ०६९--श्लो० २५८-२८०] वायुपुराणम् । २६३

( कश्यपीयप्रजासर्गः ) युग्मानि षोडशान्यानि वर्तमानास्तदन्वयाः । नामतस्तान्प्रवक्ष्यामि पुरुषादांस्तदन्वयान् ॥ २५८ छगलश्छगली चैव वक्रो वक्रमुखी तथा । षोडशानां गणा चैव सूची सूचीमुखस्तथा ॥ २५९ कुम्भपात्रश्च कुम्भी च वज्रदंष्ट्रश्च दुन्दुभिः । उपचारोपचारश्च उलूखल उलूखली ॥ २६० अनर्कश्च अनर्का च कखण्डश्च कुखण्डिका । पाणिपात्रा पाणिपात्री पांशुः पांशुमञ्जी तथा ॥ णितुण्डश्च नितुण्डी च निपुणा निपुणस्तथा । छलादोच्छेषणा चैव प्रस्कन्दः स्कन्दिका तथा ॥ षोडशानां पिशाचानां गणाः प्रोक्तास्तु षोडश ॥ २६२ अजामुखा बकमुखाः पूरिणः स्कन्दिनस्तथा । विषादाङ्गारिकाश्चैव कुम्भपात्राः प्रकुन्दकाः ॥ २६३ उपचारोलूखलिका ह्यनर्काश्च कुखण्डिकाः । पाणिपात्राश्च नैतुण्डा ऊर्णाशा निपुणास्तथा ॥ सूचीमुखोच्छेषणादाः कूलान्येतानि षोडश । इत्येता ह्यभिजातास्तु कूष्माण्डानां प्रकीर्तिताः ॥ पिशाचास्ते तु विज्ञेयाः सुकुल्या इति जज्ञिरे । बीभत्सं विकृताचारं पुत्रपौत्रमनन्तकम् ॥ अतस्तेषां पिशाचानां लक्षणं च निबोधत ॥ २६६ सर्वाङ्गकेशा वृत्ताख्या दंष्ट्रिणो नखिनस्तथा । तिर्यङ्गाः पुरुषादाश्च पिशाचास्ते ह्यधोमुखाः ॥ अकेशा ह्यरोमाणस्त्वग्वसाश्मर्मवाससः । कूष्माण्डिकाः पिशाचास्ते तिलभक्षाः सदामिषाः ॥ वक्राङ्गहस्तपादाश्च वक्रशीलागतास्तथा । ज्ञेया वक्रपिशाचास्ते वक्रगाः कामरूपिणः ॥ २६९ लम्बोदरास्तुण्डनाशा ह्रस्वकायशिरोभुजाः । नितुन्दकाः पिशाचास्ते तिलभक्षा प्रियश्रवाः ॥ २७० वामनाकृतयश्चैव वाचालाः प्लुतगामिनः । पिशाचानकर्मर्कास्ते वृक्षवासादनप्रियाः ॥ २७१ ऊर्ध्वबाहूर्ध्वरोमाण उद्वृताश्च तथाऽलयाः । मुञ्चन्ति पांशूनङ्गेभ्यः पिशाचाः पांशवश्च ते ॥ २७२ धमनीमन्तकाः शुष्काः श्मश्रुलाश्चीरवाससः । उपवीराः पिशाचाश्च श्मशानायतनास्तथा ॥ २७३ विष्टब्धाक्षा महाजिव्हा लेलिहाना ह्युलूखलाः । हस्त्युष्ट्रस्थूलशिरसो विरता बद्धपिण्डकाः ॥ २७४ पिशाचाः कुम्भपात्रास्ते अदृष्टान्नानि भुञ्जते । सूक्ष्मास्तु रोमशाः पिङ्गा दृष्टादृष्टाश्चरन्ति वै ॥ आयुक्तांश्च विशन्तीह निपुणास्ते पिशाचकाः । आकर्णदारितास्याश्च लम्बभ्रूस्थूलनासिकाः ॥ *शून्यागाराश्रयाः स्थूलाः पिशाचाः पूरणास्तु ते । हस्तपादाक्रान्तगणा ह्रस्वकाः क्षितिदृष्टयः ॥ बालादास्ते पिशाचा वै सूतिकागृहसेविनः ॥ २७७ पृष्ठतःपाणिपादाश्च ह्रस्वका वातरंहसः । पिशितादाः पिशाचास्ते सङ्ग्रामे रुधिराशिनः ॥ २७८ नग्ना ह्यनिकेताश्च लम्बकेशाश्च पिण्डकाः । पिशाचाः स्कन्दिनस्ते वै अन्या उच्छेषणाशिनः ॥ षोडश जातयस्तेषां पिशाचानां प्रकीर्तिताः ॥ २७९ एवंविधान्पिशाचांस्तु दीनान्दृष्ट्वाऽनुकम्पया । तेभ्यो ब्रह्मा वरं प्रादात्कारुण्यादल्पचेतसः ॥ अन्तर्धानं प्रजास्तेषां कामरूपत्वमेव च ॥ २८०


* इदमर्धं नास्ति क. पुस्तके ।

Page 273Permalink

२६४ श्रीमद्द्वैपायनमुनिप्रणीतम्- [अ०६९श्लो०२८१-३०७] ( कश्यपीयप्रजासर्गः )

उभयोः संध्ययोश्चारं स्थानान्यजीवमेव च । गृहाणि यानि भग्नानि शून्यान्यल्पजनानि च ॥ २८१
विध्वस्तानि च यानि स्युरनाचारोषितानि च । असंस्पृष्टोपलिप्तानि संस्कारैर्वर्जितानि च ॥ २८२
राजमार्गोपरथ्याश्च निष्कुटाश्चत्वराणि च । द्वाराण्यट्टालकाश्चैव निर्मान्संक्रमांस्तथा ॥ २८३
पथो नद्योऽथ तीर्थानि चैत्यवृक्षान्महापथान् । पिशाचा विनिविष्टा वै स्थानेष्वेतेषु सर्वशः ॥ २८४
अधार्मिका जनास्ते वै आजीवा विहिताः सुरैः । वर्णाश्रमाः संकरिकाः कारुशिल्पिजनास्तथा ॥
अमृतोपमसत्त्वानां चौरविश्वासघातिनाम् । एतैरन्यैश्च बहुभिरन्यायोपार्जितैर्धनैः ॥ २८६
आरभन्ते क्रिया यास्तु पिशाचास्तत्र देवताः ॥ २८७
मधुमांसादनैर्दद्या तिलचूर्णसुरासवैः । धूपैर्हारिद्रकुशरैस्तैलभद्रगुडौदनैः ॥
कृष्णानि चैव वासांसि धूपाः सुमनसस्तथा । एवं युक्ताः सुबलयस्तेषां वै पर्वसंधिषु ॥ २८८
पिशाचानामनुज्ञाय ब्रह्मा सोऽधिपतिर्ददौ ॥ २८९
सर्वभूतपिशाचानां गिरिशं शूलपाणिनम् । दंष्ट्रा त्वजनयत्पुत्रान्व्याघ्रान्सिंहांश्च भामिनी ॥
द्विपिनश्च सुतास्तस्य व्यालेयाश्चाऽऽमिषाशिनः । क्रुषायाश्चापि कार्त्स्न्येन प्रजासर्गं निबोधत ॥ २९०
तस्य दुहितरः पञ्च तासां नामानि मे शृणु ॥ २९१
मीना माता तथा वृत्ता परिवृत्ता तथैव च । अनुवृत्ता तु विज्ञेया तासां वै शृणुत प्रजाः ॥ २९२
सहस्रदन्ता मकराः पाठीनास्तिमिरोहिताः । इत्येवमादिर्हि गणो मैनो विस्तीर्ण उच्यते ॥ २९३
ग्राहाश्चतुर्विधा ज्ञेया तथाऽनुज्येष्ठका अपि । निष्कांश्च शिशुमारांश्च मीना व्यजनयत्प्रजाः ॥ २९४
वृत्ता कूर्मविकारणि नैकानि जलचारिणाम् । तथा शङ्खविकाराणि जनयामास नैकशः ॥ २९५
गण्डूकानां विकाराणि अनुवृत्ता व्यजायत । ऐणेयानां विकाराणि शम्बूकानां तथैव च ॥ २९६
तथा शुक्तिविकाराणि वराटककृतानि च । तथा शङ्खविकाराणि परिवृत्ता व्यजायत ॥ २९७
कालकूटविकाराणि जलौकाविहितानि च । इत्येष हि ऋषेर्वंशः पञ्च शाखाः प्रकीर्तिताः ॥ २९८
तिर्यग्धेतुक्रमाद्याहुर्बहुलं (?) वंशविस्तरम् । संस्वेदजार्तवकाराणि यथा येभ्यो भवन्ति ह ॥ २९८
स्वस्तिकिकशरीरेभ्यो जायन्त्युत्पादका द्विजाः । मनुष्याः स्वेदमलजा उशना नाम जन्तवः ॥ २९९
[ * तथा शिरसि चैले च यूकाः संस्वेदजाः स्मृताः । चन्द्रादित्याभितप्तायां पृथिव्यां संभवन्ति ये ॥
तृणमेवप्रसिक्तायाः स्मृताः संस्वेदजन्तवः । ] नानापिपीलिकगणाः कीटका बद्धपादकाः ॥ ३०१
शङ्खोपलविकाराणि कीलकाचारकाणि च । इत्येवमादिबहुलाः स्वेदजाः पार्थिवाः गणाः ॥ ३०२
तथा घर्मादितप्ताभ्यस्त्वद्द्भ्यो वृष्टिभ्य एव च । नैका मृगशरीरेभ्यो जायन्ते जन्तवस्त्विमे ॥ ३०३
मीनकाः पिप्पला दंशास्तथा तित्तिरपुत्रिकाः । नीलाचित्राश्च जायन्ते शलका बहुविस्तराः ॥ ३०४
जलजः स्वेदजाश्चैव जायन्ते जन्तवस्त्विमे । काशतयञ्ज (ज) काः कीटानलदा बहुपादकाः ॥ ३०५
सिंहला रोमलाश्र्चैव पिच्छलाः परिकीर्तिताः । इत्येवमादिर्हि गणो जलजः स्वेदजः स्मृतः ॥ ३०६
सर्षिभ्यो माषमुद्गानां जायन्ते क्रमशस्तथा । बिल्वजम्ब्वाम्रपूगेभ्यः फलेभ्यश्चैव जन्तवः ॥ ३०७


* धनुश्चिह्नान्तर्गतग्रन्थः क. ग. पुस्तकयोर्नास्ति ।

Page 274Permalink

[अ० ६९ श्लो० ३०८-३३२] वायुपुराणम् २६५

(कश्यपीयप्रजासर्गः)

मुद्गेभ्यः पनसेभ्यश्च तण्डुलेभ्यस्तथैव च । तथा कोटरशूष्केभ्यो निहितेभ्यो भवन्ति हि ॥ ३०८ अन्येभ्योऽपि च जायन्ते न हि तेभ्यश्चिरं सदा । जन्तवस्तुषगादिभ्यो विषादिभ्यस्तथैव च ॥ ३०९ बहून्यहानि निक्षिप्ते संभवन्ति च गोमये । जायन्ते कृमये विप्राः काष्ठेभ्यश्च घुणादयः ॥ ३१० कृमा द्रुमाणां जायन्ते विविधा नीलमक्षिकाः । तथा शुष्कविकारेभ्यः पुत्रिकाः प्रभवन्ति च ॥ कालिका शतिकेभ्यश्च सर्पा जायन्ति सर्वशः । संस्वेदजाश्च जायन्ते वृश्चिकाः शुष्कगोमयात् ॥ (* गोभ्यो हि महिषेभ्यश्च जायन्ते जन्तवः प्रभो । मत्स्यादयश्च विविधा अण्डकुक्षौ विशेषतः ॥ चैवरीकाश्व जायन्ते तथा गोजाकुलानि च । तथाऽन्यानि च सूक्ष्माणि जलौकादीनि जातयः ॥ [+ कपोतकुररादिभ्यः सूक्ष्मा यूकास्तथैव च । \times तथैवान्येऽपि संख्याता अष्टापदकुलीरकाः ] ॥ मक्षिकाणां विकाराणि जायन्ते जातयोऽपरे ।) प्रायेण तु वसन्त्यस्मिन्नुच्छिष्टोदककर्दमे ॥ ३१६ मशकानां विकाराणि भ्रमराणां तथैव च । तृणेभ्यः समजायन्त पुत्रिकाः पुत्रसप्तकाः ॥ ३१७ मणिच्छेदास्तथा व्यालाः पोतजाः परिकीर्त्तिताः । शतवेरिविकाराणि करीषेभ्यो भवन्ति हि ॥ एवमादिरसंख्यातो गणः संस्वेदजो मया । समासाभिहितो ह्येष प्राक्कर्मवशजः स्मृतः ॥ ३१९ तथाऽन्ये नैऋता सत्त्वास्ते स्मृता उपसर्गजाः । पूतास्तु योनिजाः केचित्केचिदौत्पत्तिकारः स्मृताः प्रायेण देवाः सर्वे वै विज्ञेया ह्युपपत्तिजाः । केचित्तु योनिजा देवाः केचिदेवानिमित्ततः ॥ ३२१ तूल्लालाघश्च कोलश्च शिवा कन्या तथैव च । अपत्यं सरमायास्तु गणा वै सरमादयः ॥ ३२२ श्यामश्च शबलश्चैव अर्जुनो हरितस्तथा । कृष्णो धूम्रारुणश्चैव तूल्लालाबूश्च कद्रुकाः ॥ ३२३ सुरसाऽथ विजज्ञे तु शतमेकं शिरोमृत्तम् । सर्वाणा तक्षको राजा नागानां चापि वासुकिः ॥ तमोबहुल इत्येष गणः क्रोधवशात्मकः ॥ ३२४ पुलहस्याऽऽत्मजासर्गस्ताम्रायास्तान्निबोधत । बह्वन्यास्त्वभिविख्यातास्ताम्रायाश्च विजज्ञिरे ॥ ३२५ श्येनी भासी तथा क्रौञ्ची धृतराष्ट्री शुकी तथा । अरुणस्य भार्या श्येनी तु वीर्यवन्तौ महाबलौ ॥ संपातिं च जटायुं च प्रसूता पक्षिसत्तमौ ॥ ३२६ संपातिरजनयत्पुत्रं कन्यामेकां तथैव च । जटायुषश्च ये पुत्राः काकगृध्राधकर्णिनः ॥ ३२७ भार्या गरुत्मतश्चापि भासी क्रौञ्ची तथा शुकी । धृतराष्ट्री च भद्रा च तास्वपत्यानि वक्ष्यते(च्म्यहम्) शुकी गरुत्मतः पुत्रान्सुषुवे षट् परिश्रुतान् । त्रिशिरं सुमुखं चैव बलं पृष्ठं महाबलम् ॥ ३२९ त्रिशङ्खनेत्रं सुमुखं सुरूपं सुरसं बलम् । एषां पुत्राश्च पौत्राश्च गरुडानां महात्मनाम् ॥ ३३० चतुर्दश सहस्राणि क्रूराणां पन्नगाशिनाम् । पुत्रपौत्रविसर्गाच्च तेषां वै वंशविस्तरः ॥ ३३१ व्याप्तानि यानि देशानि(स्थानानि)तानि वक्ष्ये यथाक्रमम् । शाल्मलिद्वीपमखिलं देवकूटं च पर्वतम् ॥


  • धनुश्चिह्नान्तर्गतग्रन्थोः घ. पुस्तके नास्ति । + धनुश्चिह्नान्तर्गतग्रन्थः क. पुस्तके नास्ति \times इदमर्धं नास्ति ङ. पुस्तके । ३४
Page 275Permalink

२६६ श्रीमद्वैपायनमुनिप्रणीतम्– [अ० ६९–श्लो० ३३३-३५५] ( कश्यपीयप्रजासर्गः )

मणिमन्तं च शैलेन्द्रं सहस्रशिखरं तथा । पर्णमालं सुकेशं च शतशृङ्गं तथाऽचलम् ॥ ३३३ कौरजं पद्मशिखरं हेमकूटं च पर्वतम् । प्रचण्डवायुप्रभवैर्दीपितैः पद्मरागिभिः ॥ ३३४ शैलजालानि व्याप्तानि गारुडैस्तैर्महात्मभिः । भासीपुत्राः स्मृता भासा उलूकाः काककुक्कुटाः ॥ मयूराः कलविङ्काश्च कपोता लावात्तित्तिराः । * क्रौञ्ची वार्धीणसाञ्श्येनी कुररान्सारसान्बकान् ॥ इत्येवमादयोऽन्येऽपि कव्यादा ये च पक्षिणः । धृतराष्ट्री च हंसांश्च कलहंसांश्च भामिनी ॥ ३३७ चक्रवाकांश्च विन्दूगान्सर्वाश्चैवादकाजिहान् । एतानेव विजज्ञेऽथ पुत्रपौत्रमनन्तकम् ॥ ३३८ गरुडस्याऽऽत्मजाः प्रोक्ता इरायाः शृणुत प्रजाः । इरा प्रजज्ञे कन्या वै तिस्रः कमललोचनाः ॥ वनस्पतीनां वृक्षाणां वीरुधां चैव मातरः । लता चैवाथ वल्ली च वीरुधा चेति तास्तु वै ॥ ३३९ लता वनस्पतीञ्जज्ञे सपुष्पान्पुलिनास्थितान् । युक्तान्पुष्पफलैर्वृक्षांल्लता वै संप्रसूयते ॥ ३४० अथ वल्ली तु गुल्मांश्च त्वक्सारास्तृणजातयः । वीरुधा तदपत्यानि वंशश्चात्र समाप्यते ॥ ३४१ एते कश्यपदायादा व्याख्याताः स्थाणुजङ्गमाः । तेषां पुत्राश्च पौत्राश्च यैरिदं पूरितं जगत् ॥ इति सर्गैकदेशस्य कीर्तितोऽवयवो मया । मारीचोऽयं प्रजासर्गः समासेन प्रकीर्तितः ॥ न शक्यं व्यासतो वक्तुमपि वर्षशतैर्द्विजाः ॥ ३४३ अदितिर्धर्मशीला तु बलशीला दितिः स्मृता । तपःशीला तु सुरभिर्मायाशीला दनुः स्मृता ॥ [+ मुनिश्च गन्धशीला वै प्राबाध्ययनशालिनी । गीतशीला त्वरिष्टाऽथ क्रोधशीला खशा स्मृता ] क्रूरशीला तथा कद्रूः कौञ्च्यथ श्रुतिशालिनी । इराऽनुग्रहशीला तु दनायुर्भक्षणे रता ॥ ३४२ वाहशीला तु विनता ताम्रा वै पाशशालिनी । स्वभावा लोकमातृणां शीलान्येतानि सर्वशः ॥ धर्मतः शीलतो बुद्ध्या क्षमया बलरूपतः । रजःसत्त्वतमोवृत्ता धार्मिकाधार्मिकास्तु वै ॥ ३४७ मातृतुल्याश्चाभिजाताः कश्यपस्याऽऽत्मजाः प्रजाः । देवदासुरगन्धर्वा यक्षराक्षसपन्नगाः ॥ पिशाचाः पशवश्चैव मृगाः पतगवीरुधः ॥ ३४८ यस्मादाक्षयणीष्वेते जज्ञिरे मानुषीष्विह । मन्वन्तरेषु सर्वेषु तस्माच्छ्रेष्ठास्तु मानुषाः ॥ ३४९ धर्मार्थकाममोक्षाणां मानुषाः साधकास्तु वै । ततोऽधःश्रोतसस्ते वै उत्पद्यन्ते सुरासुराः ॥ ३५० जायन्ते कार्यसिद्धयर्थं मानुषेषु पुनः पुनः । इत्येव वंशप्रभवः प्रसंख्यातस्तपस्विनाम् ॥ ३५१ सुराणामसुराणां च गन्धर्वाप्सरसां तथा । यक्षरक्षःपिशाचानां सुपर्णोरगपक्षिणाम् ॥ ३५२ व्यालानां शिखिनां चैव ओषधीनां च सर्वशः । कृमिकीटपतङ्गानां क्षुद्राणां जलजाश्च ये ॥ पशूनां ब्राह्मणानां च श्रीमतां पुण्यलक्षणः ॥ ३५३ आयुष्यश्चैव धन्यश्च श्रीमान्हितसुखावहः । श्रोतव्यश्चैव सततं ग्राह्यश्चैवानसूयता ॥ ३५४ इमं तु वंशं नियमेन यः पठेन्महात्मनां ब्राह्मणवैद्यसंसदि । अपत्यलाभं हि लभेत पुष्कलं श्रियं धनं प्रेत्य च शोभनां गतिम् ॥ ३५५ इति महापुराणे वायुप्रोक्ते उपोद्घातपादे कश्यपीयप्रजासर्गो नाम नवषष्टितमोऽध्यायः ॥ ६९ ॥ आदितः श्लोकानां समष्ट्यङ्काः-६५०६


* एतदर्धस्थाने 'क्रौञ्चा वार्धीणसाः श्येनाः कुरराः सारसा बकाः' इति ख. ग. घ. ङ. पुस्तकेषु ।

  • धनुश्चिह्नान्तर्गतग्रन्थो ग. पुस्तके नास्ति ।
Page 276Permalink

[अ०७०श्लो०१-२३] वायुपुराणम्। २६७

अथ सप्ततितमोऽध्यायः। ऋषिवंशानुकीर्तनम् ।

सूत उवाच— एवं प्रजासु सृष्टासु कश्यपेन महात्मना। प्रतिष्ठितासु सर्वासु स्थावरासु चरासु च ॥ १ अभिषिच्याधिपत्येषु (?) तेषां मुख्यः प्रजापतिः। ततः क्रमेण राज्यानि व्यादेष्टमुपचक्रमे ॥ २ द्विजातीनां वीरुधां च नक्षत्राणां ग्रहैः सह । यज्ञानां तपसां चैव सोमं राज्येऽभ्यषेचयत् ॥ ३ बृहस्पतिं तु विप्रेषां ददावङ्गिरसां पतिम् । भृगूणामधिपं चैव काव्यं राज्येऽभ्यषेचयत् ॥ ४ आदित्यानां पुनार्विष्णुं वसूनामथ पावकम् । प्रजापतीनां दक्षं च मरुतामथ वासवम् ॥ ५ दैत्यानामथ राजानं प्रह्लादं दितिनन्दनम् । नारायणं तु साध्यानां रुद्राणां वृषभध्वजम् ॥ ६ विप्रचित्तिं च राजानं दानवानामथाऽऽदिशत् । अपां तु वरुणं राज्ये राज्ञ वैश्रवणं पतिम् ॥ यक्षाणां राक्षसानां च पार्थिवानां धनस्य च ॥ ७ वैवस्वतं पितॄणां च च यमं राज्येऽभ्यषेचयत् । सर्वभूतपिशाचानां गिरिशं शूलपाणिनम् ॥ ८ शैलानां हिमवन्तं च नदीनामथ सागरम् । गन्धर्वाणामधिपतिं चक्रे चित्ररथं तदा ॥ ९ उच्चैःश्रवसमश्वानां राजानं चाभ्यषेचयत् । मृगाणामथ शार्दूलं गोवृषं च चतुष्पदाम् ॥ १० पक्षिणामथ सर्वेषां गरुडं पततां वरम् । गन्धानां मारुतं चैव भूतानामशरीरिणाम् ॥ ११ शब्दाकाशबलानां च वायुं बलवतां वरम् । सर्वेषां दंष्ट्रिणां शेषं नागानामथ वासुकिम् ॥ १२ सरीसृपाणां सर्पाणां नागानां चैव तक्षकम् । सागराणां नदीनां च मेघानां वर्षितस्य च ॥ आदित्यानामन्यतमं पर्जन्यमभिषिक्तवान् ॥ १३ सर्वाप्सरोगणानां च कामदेवं तथैव च । ऋतूनामथ मासानामार्तवानां तथैव च ॥ १४ पक्षाणां च विपक्षाणां मुहूर्तानां च पर्वणाम् । कलाकाष्ठाप्रमाणानां गतेरयनयोस्तथा ॥ गणितस्याथ योगस्य चक्रे संवत्सरं प्रभुम् ॥ १५ प्रजापतिर्वै रजसः पूर्वस्यां दिशि विश्रुतम् । पुत्रं नाम्ना सुधामानं राजानं सोऽभ्यषेचयत् ॥ १६ पश्चिमस्यां(मार्यां) दिशि तथा रजसः पुत्रमच्युतम् । केतुमन्तं महात्मानं राजानं सोऽभ्यषेचयत् ॥ १७ मनुष्याणामधिपतिं चक्रे वैवस्वतं मनुम् । तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना ॥ यथाप्रदेशमद्यापि धर्मेण परिपाल्यते ॥ १८ स्वायंभुवेऽन्तरे पूर्वं ब्रह्मणा तेऽभिषेचिताः । नृपा ह्येतेऽभिषिच्यन्ते मनवो ये भवन्ति वै ॥ ॥ १९ मन्वन्तरेष्वतीतेषु मता ह्येतेषु पार्थिवाः । एवमन्येऽभिषिच्यन्ते प्राप्ते मन्वन्तरे पुनः ॥ अतीतानागताः सर्वे स्मृता मन्वन्तरेश्वराः ॥ २० राजसूयेऽभिषिक्तश्च पृथुरेभिनंरोत्तमैः । वेददृष्टेन विधिना कृतो राजा प्रतापवान् ॥ २१ एतानुत्पाद्य पुत्रांस्तु प्रजासंतानकारणात् । पुनरेव महाभागः प्रजानां पतिरीश्वरः ॥ २२ कश्यपो गोत्रकामस्तु चचार परमं तपः । पुत्रो गोत्रकरो मह्यं भवेतामित्यचिन्तयत् ॥ २३

Page 277Permalink

२६८ श्रीमहैपायनमुनिप्रणीतम्- [अ०७०श्लो०२४-५०] ( ऋषिवंशानुकीर्तनम् )

तस्य प्रध्यायमानस्य कश्यपस्य महात्मनः । ब्रह्मणोंऽशौ सुतौ पश्चात्तादुभूतौ महौजसौ ॥ २४ वत्सारश्चासितश्चैव तावुभौ ब्रह्मवादिनौ । वत्सारात्रिध्रुवो जज्ञे रैभ्यश्च स महायशाः ॥ २५ रैभ्यस्य रैभ्या विज्ञेया निध्रुवस्य निबोधत । च्यवनस्य सुकन्यायां सुमेधाः समपद्यत ॥ २६ निध्रुवस्य तु या पत्नी माता वै कुण्डपायिनाम् । असितस्यैकपर्णायां बलिष्ठः समपद्यत ॥ २७ शाण्डिल्यानां वचः श्रुत्वा देवलः सुमहायशाः । निध्रुवाः शाण्डिला रैभ्यायाश्चः पश्चात्तु कश्यपाः ॥ वरप्रभृतयो देवा देवलस्य प्रजास्त्विमाः । चतुर्युगे त्वतिक्रान्ते मनोर्वैक्रादशे प्रजाः ॥ अथावशिष्टे तस्मिंस्तु द्वापरे संप्रवर्तते ॥ २९ मानसस्य च रिष्यन्तस्तस्य पुत्रो दमः किल । मानसस्तस्य दायादस्तृणबिन्दुरिति श्रुतः ॥ ३० त्रेतायुगमुखे राजा तृतीये संबभूव ह । तस्य कन्या त्विडिविला रूपेणाप्रतिमऽभवत् ॥ पुलस्त्याय स राजर्षिस्तां कन्यां प्रत्यपादयत् ॥ ३१ ऋषिरेिडिविलायां तु विश्रवाः समपद्यत । तस्य पत्न्यश्चतस्रस्तु पौलस्त्यकुलवर्धनाः ॥ ३२ बृहस्पतेबृहत्कीर्तिर्देवाचार्यस्य कीर्तिता । कन्यां तस्योपयेमे स नाम्ना वै देववर्णिना म् ॥ ३३ पुष्पोत्कटां च वाकां च सुते माल्यवतः स्थिते । कैकसीं मालिनः कन्यां तासां तु शृणुत प्रजाः ज्येष्ठं वैश्रवणं तस्व सुषुवे देववर्णिनी । दिव्येन विधिना युक्तमार्षेणेव श्रुतेन च । राक्षसेन च रूपेण आसुरेण बलेन च ॥ ३५ त्रिपादं सुमहाकायं स्थूलशीर्षं महातनुम् । अष्टदंष्ट्रं हरिच्छ्मश्रुं शङ्कुकर्णावलौहितम् ॥ ३६ ह्रस्वबाहुं प्रबाहुं च पिङ्गलं सुविभीषणम् । वैवर्तज्ञानसंपन्नं संबुद्धं ज्ञानसंपदा ॥ ३७ एवंविधं सुतं दृष्ट्वा विश्वरूपधरं तथा । पिता दृष्ट्वाऽब्रवीत्तत्र कुबेरोऽयमिति स्वयम् ॥ ३८ कुत्सायां कितिशब्दोऽयं शरीरं बेरमुच्यते । कुबेरः कुशरीरत्वान्नाम्ना तेन च सोऽङ्कितः ॥ ३९ यस्माद्विश्रवसोऽपत्यं सादृश्याद्विश्रवा इव । तस्माद्वैश्रवणो नाम नाम्ना लोके भविष्यति ॥ ४० ऋद्धयां कुबेरोऽजनयद्विश्रुतं जन्नकूबरम् । रावणं कुम्भकर्णं च कन्यां शूर्पणखां तथा ॥ बिभीषणचतुर्थांस्तान्कैकस्यजनयत्सुताम् ॥ ४१ शङ्कुकर्णो दशग्रीवः पिङ्गलो रक्तमूर्धजः । चतुष्पाद्द्विंशतिभुजो महाकायो महाबलः ॥ ४२ जात्याऽञ्जननिभो दंष्ट्री लोहितग्रीव एव च । राजसेना यथा युक्तो रूपेण च बलेन च ॥ ४३ सत्यबुद्धिदृढंतनू राक्षसैरेव रावणः । निसर्गाद्दारुणः क्रूरो रावणाद्रावणस्तु सः ॥ ४४ हिरण्यकशिपुस्त्वार्सीत्स राजा पूर्वजन्मनि । चतुर्युगानि (णि) राजाऽत्र त्रयोदश स राक्षसः ॥ ४५ ताः पञ्च कोट्यो वर्षाणामारुख्याताः संख्यया द्विजैः । नियुतान्येकषष्टिश्च संख्या विद्भिरुदाहृता ॥ षष्टिं शतसहस्राणि वर्षाणां तु स रावणः । देवतानामृषीणां च घोरं कृत्वा प्रजागरम् ॥ ४७ त्रेतायुगे चतुर्विंशे रावणस्तपसः क्षयात् । रामं दाशरथिं प्राप्य सगणः क्षयमीयिवान् ॥ ४८ महोदरः प्रहस्तश्च महापांशुः खरस्तथा । पुष्पोत्कटायाः पुत्रास्ते कन्या कुम्भीनसी तथा ॥ ४९ त्रिशिरा दूषणश्चैव विद्युज्जिह्वश्च राक्षसः । कन्या ह्यस्रालिका चैव वाकायाः प्रसवाः स्मृताः ॥ ५०

Page 278Permalink

[अ० ७० श्लो ५१-७७] वायुपुराणम्। २६१ (ऋषिवंशानुकीर्तनम् ) इत्येते क्रूरकर्माणः पौलस्त्या राक्षसा दश । दारुणाभिजनाः सर्वे देवैरपि दुरासदाः ॥ ५१ सर्वे लब्धवराश्चैव पुत्रपौत्रसमन्विताः । यक्षाणां चैव सर्वेषां पौलस्त्या ये च राक्षसाः ॥ ५२ आमस्त्यवैशामित्राणां क्रूराणां ब्रह्मरक्षसाम् । वेदाध्ययनशीलानां तपोव्रतनिषेविणाम् ॥ ५३ तेषामैडविलो राजा पौलस्त्यः सव्यपिङ्गलः । इतरे वै यज्ञमुखास्तेन रक्षोगणास्त्रयः ॥ ५४ यातुधाना ब्रह्मधाना वार्त्ताश्चैव दिवाचराः । निशाचरगणास्तेषां चत्वारः कविभिः स्मृताः ॥ ५५ पौलस्त्या नैर्ऋताश्चैव आगस्त्याः कौशिकास्तथा । इत्येताः सप्त तेषां वै जातयो राक्षसाः स्मृताः ॥ ५६ तेषां रूपं प्रवक्ष्यामि स्वभावेन व्यवस्थितम् । वृत्ताक्षाः पिङ्गलाश्चैव महाकाया महोदराः ॥ ५७ अष्टदंष्ट्राः शङ्कुकर्णा ऊर्ध्वरोमाण एव च । आकर्णदारितास्याश्च मुञ्जधूमोध्वर्मूर्धजाः ॥ ५८ स्थूलशीर्षाः सिताभाश्च ह्रस्वकाश्च प्रबाहुकाः । ताम्रास्या लम्बजिह्वोष्ठा लम्बभ्रूस्थूलनासिकाः ॥ नीलाङ्गा लोहितग्रीवा गम्भीराक्षा विभीषणाः । महाघोरस्वराश्चैव विकटा बद्धपिण्डकाः ॥ ६० स्थूलाश्च तुङ्गनासाश्च शिलासंहनना दृढाः । दारुणाभिजनाः क्रूराः प्रायशः क्लिष्टकर्माणः ॥ ६१ सकुण्डलाङ्गदापीडा मुकुटोष्णीषधारिणः । विचित्रवस्त्राभरणाश्चित्रस्रगनुलेपनाः ॥ ६२ अन्नादाः पिशितादाश्च पुरुषादाश्च ते स्मृताः । इत्येतद्रूपसाधर्म्यं राक्षसानां बुधैः स्मृतम् ॥ न समस्तबलं बुद्धं यतो मायाकृतं हि तत् ॥ ६३ पुलहस्य मृगाः पुत्राः सर्वे व्यालाश्च दंष्ट्रिणः । भूताः पिशाचाः सर्पाश्च भ्रमरा हस्तिनस्तथा ॥ वानराः किंनराश्चैव मयूकिंपुरुषास्तथा । *येऽन्ये चैव परिक्रान्ता मायाक्रोधवशानुगाः ॥ ६५ अनपत्यः क्रतुस्तस्मिन्स्मृतो वैवस्वतेऽन्तरे । न तस्य पुत्रः पौत्रो वा तेजः संक्षिप्य वा स्थितः ॥ अत्रेर्वंशं प्रवक्ष्यामि तृतीयस्य प्रजापतेः । तस्य पत्न्यश्च सुन्दर्यो दशैवाऽऽसन्पतिव्रताः ॥ ६७ भद्राश्वस्य घृताच्यां वै दशाप्सरसि सूनवः । भद्रा शूदा च मद्रा च शलदा मलदा तथा ॥ ६८ वेला खला च सप्ताैता या च गोचपला स्मृता । तथा मानरसा चैव रत्नकूटा च ता दश ॥ ६९ आत्रेयवंशकृत्तासां भर्त्ता नाम्ना प्रभाकरः । भद्रायां जनयामास सोमं पुत्रं यशस्विनम् ॥ ७० स्वर्भानुना हते सूर्ये पतमाने दिवो महीम् । तमोभिभूते लोकेऽस्मिन्प्रभा येन प्रवर्तिता ॥ ७१ स्वस्ति तेऽस्त्विति चोक्तः स पतन्निह दिवाकरः । ब्रह्मर्षेर्वचनात्तस्य न पपात दिवो महीम् ॥ ७२ आत्रिश्रेष्ठानि गोत्राणि यश्चकार महातपाः । यज्ञेष्वविघ्नंश्चैव सुरैश्चैव प्रवर्तितः ॥ (?) ७३ सता स्वजनयत्पुत्रानात्मतुल्याननामकान् । दश तास्वेव महता तपसा भावितप्रभाः ॥ ७४ स्वस्त्यात्रेया इति ख्याता ऋषयो वेदपारगाः । तेषां विख्यातयशसौ बलिष्ठौ सुमहौजसौ ॥ ७५ दत्तात्रेयस्तस्य ज्येष्ठो दुर्वासास्तस्य चानुजः । यवीयसी सुता तस्यामबला ब्रह्मवादिनी ॥ अत्राप्युदाहरन्तीमं श्लोकं पौराणिकाः पुरा ॥ ७६ अत्रेः पुत्रं महात्मानं शान्तात्मानमकल्मषम् । दत्तात्रेयं तनुं विष्णोः पुराणज्ञाः प्रचक्षते ॥ ७७


* एतदर्थस्थानेऽपाठः—प्रायोऽन्योयः परिक्रान्तो मयाक्रोश वशान्वय इति ख. ग. घ. ङ. पुस्तकेषु ।

Page 279Permalink

२७० श्रीमद्वैपायनमुनिप्रणीतम्— [अ० ७०-७१ श्लो० ७८-९१।१-३] (श्राद्धप्रक्रियारम्भः)

तस्य गोत्रान्वये जाताश्चत्वारः प्रथिता भुवि । श्यामाश्व मुद्गलाश्चैव बलारकगविष्ठिराः ॥
एते नृणां तु चत्वारः स्मृताः पक्षा महौजसाम् ॥ ७८
कश्यपान्नारदश्चैव पर्वतोऽरुन्धती तथा । जज्ञिरे च त्वरुन्धत्यास्तान्निबोधत सत्तमाः ॥ ७९
नारदस्तु वसिष्ठायारुन्धतीं प्रत्यपादयत् । ऊर्ध्वरेता महातेजा दक्षशापात्तु नारदः ॥ ८०
पुरा देवासुरे तस्मिन्सङ्ग्रामे तारकामये । अनावृष्ट्या हते लोके व्यग्रे शक्रे सुरैः सह ॥
वसिष्ठस्तपसा धीमान्धारयामास वै प्रजाः ॥ ८१
अन्नौषधं मूलफलमोषधीश्च प्रवर्तयन् । तास्तेन जीवयामास कारुण्यादौषधेन तु ॥ ८२
अरुन्धत्यां वसिष्ठस्तु शक्तिमुत्पाद्यद्विजाः । सागरं जनयच्छक्तेरदृश्यन्ती पराशरम् ? ॥ ८३
कालात्पराशराज्जज्ञे कृष्णद्वैपायनं प्रभुम् । द्वैपायनादरण्यां वै शुको जज्ञे गुणान्वितः ॥ ८४
उत्पद्यन्ते च पीवर्यां षडिमे शुकसूनवः । भूरिश्रवा प्रभुः शंभुः कृष्णो गौरश्च पञ्चमः ॥ ८५
कन्या कीर्तिमती चैव योगमाता दृढव्रता । जननी ब्रह्मदत्तस्य पत्नी सात्वगृहस्य च ॥ ८६
श्वेताः कृष्णाश्च गौराश्च श्यामा धूश्राः समूलिकाः । ऊष्मपा द्वारकाश्चैव नीलाश्चैव पराशराः ॥
पाराशराणामष्टौ ते पक्षाः प्रोक्ता महात्मनाम् ॥ ८७
अत ऊर्ध्वं निबोधध्वमिन्द्रप्रतिमसंभवम् । वसिष्ठस्य कपिञ्जल्यां घृताच्यां समपद्यत ॥
कुशीतिया समाख्यात इन्द्रप्रतिम उच्यते ॥ ८८
पृथोः सुतायाः संभूतः पुत्रस्तस्याभवद्वसुः । उपमन्युः सुतस्तस्य यस्येमे उपमन्यवः । ८९
मित्रावरुणयोश्चैव कुण्डिनो ये परिश्रुताः । एकार्षेयास्तथैवान्ये वसिष्ठा नाम विश्रुताः ॥
एते पक्षा वसिष्ठानां स्मृता एकादशैव तु ॥ ९०
इत्येते ब्रह्मणः पुत्रा मानसा ह्यष्ट विश्रुताः । भ्रातरः सुमहाभागा येषां वंशाः प्रतिष्ठिताः ॥
त्रींल्लोकान्धारयन्तिमान्देवर्षिगणसंकुलान् । तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ॥
यैर्व्याप्ता पृथिवी सर्वा सूर्यस्येव गभास्तिभिः ॥ ९१

इति श्रीमहापुराणे वायुप्रोक्ते उपोद्घातपादे ऋषिवंशानुकीर्तनं नाम सप्ततितमोऽध्यायः ॥ ७० ॥
आदितः श्लोकानां समष्ट्यङ्काः—६५९७


अथैकसप्ततितमोऽध्यायः ।

श्राद्धप्रक्रियारम्भः ।

* एतच्छ्रुत्वा वचस्तस्य सूतस्य विदितात्मनः । उत्तरं परिपप्रच्छुः सूतपुत्रं द्विजातयः ॥ १

शांशपायन उवाच—
कथं द्वितीयमुत्पन्ना भवानी प्राकसती तु या । आसीद्दाक्षायणी पूर्वमुमा कथमजायत ॥ २
मेनायां पितृकन्यायां जनयामास शैलराट् । के चैते पितरश्चैव येषां मेना तु मानसी ॥ ३


* एतस्मात्पूर्वं सूत उवाचेति ख. पुस्तके ।

Page 280Permalink

$ \begin{gathered} [अ० ७१ श्लो० ४-२९] वायुपुराणम् । २७१ \ (श्राद्धप्रक्रियारम्भः) \end{gathered} $

मैनाकश्चैव दौहित्रो दौहित्री च तथा सुभ्रू । एकपर्णा तथा चैव तथा या चैकपाटला ॥ ४
गङ्गा चैव सरिच्छ्रेष्ठा सर्वासां पूर्वजा तथा । पूर्वमेव मयोद्दिष्टं शृणुत्वं मम सर्वशः ॥ ५
क एते पितरश्चैव वर्तन्ते क च वा पुनः । श्रोतुमिच्छामि भद्रं ते श्राद्धस्य च परं विधिम् ॥ ६
पुत्राश्च ते स्मृताः केषां कथं च पितरस्तु ते । पितरः कथमुत्पन्नाः कस्य पुत्राः किमात्मकाः ॥ ७
स्वर्गे तु पितरोऽन्ये ये देवानामापि देवताः । एवं वै श्रोतुमिच्छामि पितॄणां सर्वमुत्तमम् ॥
यथावदत्तमस्माभिः श्राद्धं प्रीणाति वै पितॄन् ॥ ८
यदर्थं ते न दृश्यन्ते तत्र किं कारणं स्मृतम् । स्वर्गे हि के तु वर्तन्ते पितरो नरके तु के ॥ ९
अभिसंधाय पितरं पितुश्च पितरं तथा । पितुः पितामहं चैव त्रिषु पिण्डेषु नामतः ॥ १०
कानि श्राद्धानि देयानि कथं गच्छन्ति वै पितॄन् । कथं च शक्तास्ते दातुं नरकस्थाः फलं पुनः ॥ ११
के चेह पितरो नाम कान्यजामो वयं पुनः । देवा अपि पितॄन्स्वर्गे यजन्तीति हि नः श्रुतम् ॥ १२
एतदिच्छामि वै श्रोतुं विस्तरेण बहुश्रुत । स्पष्टाभिधानमर्थं वै तद्भवान्वक्तुमर्हति ॥ १३
ऋषीणां तु वचः श्रुत्वा सूतस्तत्त्वार्थदर्शिवान् । आचचक्षे यथाप्रश्नं ऋषीणां मानसं ततः ॥ १४

सूत उवाच—

अत्र वो वर्णयिष्यामि यथाप्रज्ञं यथाश्रुतम् । मन्वन्तरेषु जायन्ते पितरो देवसूनवः ॥ १५
अतीतानागते ज्येष्ठाः कनिष्ठा क्रमशतस्तु ते । दैवैः सार्धं पुराऽतीताः पितरो येऽन्तरेषु वै ॥
वर्तन्ते सांप्रतं ये तु तान्वै वक्ष्यामि निश्चयात् ॥ १६
श्राद्धं चैषां मनुष्याणां श्राद्धमेव प्रवर्तते । देवानसृजत ब्रह्मा नायक्षन्निति वै पुनः ॥
तमुत्सृज्य तदात्मानमसृजंस्ते फलार्थिनः ॥ १७
ते शप्ता ब्रह्मणा मूढा नष्टसंज्ञा भविष्यथ । न स्म किंचिद्विजानन्ति ततो लोको ह्यमुह्यत ॥ १८
ते भूयः प्रणताः सर्वे याचन्ति स्म पितामहम् । अनुग्रहाय लोकानां पुनस्तानब्रवीत्प्रभुः ॥ १९
प्रायश्चित्तं चरध्वं वै व्यभिचारो हि वः कृतः । पुत्रान्स्वान्परिपृच्छध्वं ततो ज्ञानमवाप्स्यथ ॥ २०
ततस्ते स्वान्सुतांश्चैव प्रायश्चित्तजिघृक्षवः । अपृच्छं संयतात्मानो विधिवच्च मिथो मिथः ॥ २१
तेभ्यस्ते नियतात्मनः प्रशशंसुरनेकधा । प्रायश्चित्तानि धर्मज्ञा वाङ्मनःकर्मजानि तु ॥ २२
ते पुत्रानब्रुवन्प्रीता लब्धसंज्ञा दिवौकसः । यूयं वै पितरोऽस्माकं ये वयं प्रतिबोधिताः ॥
धर्मज्ञानं च कामश्च को वरो वः प्रदीयताम् ॥ २३
पुनस्तानब्रवीद्ब्रह्मा यूयं वै सत्यवादिनः । तस्माद्यद्युक्तं युष्माभिस्तत्तथा न तदन्यथा । २४
उक्तं च पितरोऽस्माकमिति वै तनया स्वकाः । पितरस्ते भविष्यन्ति तेभ्योऽयं दीयतां वरः ॥ २५
तेनैव वचसा पुत्रा ब्रह्मणः परमेष्ठिनः । पुत्राः पितृत्वमाजग्मुः पुत्रत्वं पितरः पुनः ॥ २६
तस्मात्ते पितरः पुत्राः पितृत्वं तेषु तत्स्मृतम् । एवं स्मृत्वा पितॄन्पुत्रान्पुत्राश्च पितरस्तथा ॥
व्याजहार पुनर्ब्रह्मा पितॄनात्मविवृद्धये ॥ २७
यां हनिष्ट्वा पितॄञ्छ्राद्धे क्रियां कांचित्करिष्यति । राक्षसा दानवाश्चैव फलं प्राप्स्यन्ति तस्य तत् ॥
श्राद्धैराप्यायिताश्चैव पितरः सोममव्ययम् । आप्यायमाना युष्माभिर्वर्धयिष्यन्ति नित्यशः ॥ २९