वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 105, कुल 237 में से
संदर्भ में पढ़ेंपृष्ठ १८४
१८४ वेदस्वरूप-विमर्शः एतदेव हि विज्ञानं न तथैकेन येन तत् । स्थित्युत्पत्त्यप्ययान् पश्येद्भावानां त्रिगुणात्मनाम् ॥' इति भागवत-वचनानामपि श्रीधरस्वामिभिः भेदन्निरसनपूर्वकमेकत्व- दर्शनमेव विज्ञानमित्यर्थ उक्तः । तथा हि—यत् यदा एकेनानु- गतान् एकात्मकान् भावान् पूर्वमैक्षत, ते तथा पूर्ववन्न पश्येत् । तदेकं परमकारणं ब्रह्मव । तदा एतदेव विज्ञानमुच्यते । स्थित्युत्पत्त्यया- नित्यत्वेन तदुत्पत्त्यादिमत्त्वेन तदनन्यत्वं समर्थ्यते, तेन नैकवाक्यताऽपि छिद्यते, न वाऽध्याहारादिकम्, सिद्धस्यैव स्फुटीकरणात् । न चैवं 'ज्ञानं तेऽहं सविज्ञानमिति विज्ञानस्य अप्रधानतादर्शनं विरुद्धयेत इति वाच्यम्; 'यज्ञेन विविदिषन्ति' इत्यादौ शाब्दन्यायेन प्रत्ययार्थस्य प्राधान्येऽपि तेनापि ईप्सिततमत्वेन इष्यमाणवेदनस्य प्राधान्यवत् ज्ञानस्याप्राधान्येऽपि तत्साध्यत्वेन तत्प्राधान्याविरोधात् । वेदान्तिनये महावाक्यादिभिः शब्दैरेव अपरोक्षता भवति । मनना- दिभिस्तु प्रतिबन्धनिवृत्तिरेव । तदुक्तं संक्षेपशारीरके- 'पुरुषापराधमलिना विषया निरवद्यचक्षुरुदयापि यथा । न फलाय भर्तृ विषया भवति, श्रुतिसंभवापि तु तथात्मनिधीः ॥ पुरुषापराधविनिवृत्तिफलः सकलो विचार इति वेदविदः । पुरुषापराधविगमे तु पुनः..................................॥' इति । ज्ञानं विज्ञानमिति परोक्षापरोक्षभेदेन ज्ञानद्वैविध्योक्तिरपि न विरुद्धयते । प्रसङ्गानुसारेण विज्ञानशब्दस्यार्थो यज्ञादिविविधज्ञानमपि न विरुद्धयते । अपरोक्षज्ञानाभिप्रायेण लौकिकविद्यास्वपि विज्ञानपद- प्रयोगे न विरोधः अपरोक्षप्रतिभासत्वस्य सर्वानुगतत्वात् । परोक्षरूपासु विद्यासु तु ज्ञानवैविध्याभिप्रायेणैव विज्ञानपदप्रयोगोऽस्तु । हर्षादि- शब्दवद् अनेकार्थतास्वीकारस्यापि अदोषत्वात् । ननु अनेकार्थतास्वीकारस्य मीमांसकैः कदर्थितत्वाद् विज्ञानशब्दस्य क्रमिको विकास एव सिद्धयतीति चेन्न । 'औत्पत्तिकस्त्वर्थस्य शब्देन सम्बन्ध' इत्यादिसूत्रे शब्दार्थतत्सम्बन्धानाम् औत्पत्तिकत्वाभ्युपगन्तुभिः मीमांसकैः विकासस्य नितरां निरस्तत्वात् ।
पृष्ठ १८५
[R1] वेदस्वरूप-विमर्शः १८५ [R2] अध्यारोपस्य विज्ञानार्थत्वे तेनैव मोक्षः सिद्ध्येत, पूर्वोदाहृतश्रुतिषु [R3] विज्ञानस्य मोक्षहेतुत्वश्रवणात् । यस्मात् अध्यारोपापवादसिद्ध- [R4] मोक्षहेतुभूत-निर्विशेषतत्वप्रतिभासेऽपि विज्ञानशब्दो अकामेनाप्यभ्यु- [R5] पेतव्यः सत्यनेकार्थत्वे विज्ञानशब्दस्य तत्तदाचार्याणां विविधोपयोगोऽपि [R6] समजसा भवन्ति । [R7] निदर्शित-श्रुतिषु निर्विशेष-ब्रह्मसाक्षात्कारे निर्विशेषे ब्रह्मणि च [R8] विज्ञानशब्दप्रयोगः प्रदर्शित एवेति तदन्यप्रमाणानि तदनुसारेणैव [R9] नेयानि । अत एव बौद्धैः ज्ञानसामान्य एव विज्ञानशब्दः प्रयुज्यते । तावतैव [R10] ते विज्ञानवादिन उच्यन्ते । जैनैस्तु अपरोक्षात्मक-सर्वज्ञज्ञानमपि ज्ञान- [R11] शब्देनैव व्यवह्रियते । [R12] 'ज्ञायते विद्द्यतेऽस्मादिति ज्ञानम्, पिता' इति मेदिनी । [R13] 'ज्ञातेयं ज्ञातृत्वम्'—इत्यमरः । [R14] 'विज्ञान-ज्ञान । जानकारी । बुद्धि । प्रतिभा । विवेक । निपु- [R15] णता । पटुता । लौकिक ज्ञान । काम-धन्धा । व्यवसाय । सङ्गीत ।'— [R16] इति संस्कृतशब्दार्थ कौस्तुभः । [R17] 'विवेकविज्ञाने । शास्त्राचार्योपदेशजे, साक्षान्मोक्षफले, आत्म- [R18] निश्चये । तत्त्वज्ञाने । शास्त्रे । मोक्षफलिकायां धियि । जीवेश्वरजगद्भेद- [R19] भ्रमाधिष्ठानभूते, नित्यस्वप्रकाशे, सच्चिदानन्दरूपाद्वितीये, परमार्थसत्ये । [R20] आत्मानात्मसर्वपदार्थावबोधे । विज्ञानं ज्ञानकर्मणोरिति मेदिनी । [R21] विज्ञानं कार्मणे ज्ञाने, इति हेमचन्द्रः । संशयविपर्ययरहिते ज्ञाने । [R22] चिच्छक्तौ । विज्ञप्तिरूपे ब्रह्मणि । अपरोक्षे ज्ञानफले । ब्रह्मात्मैक्या- [R23] नुभवे । विज्ञप्तौ । यज्ञादिधर्मकौशले । विवेकबुद्धौ । उपासने । शास्त्रार्थ- [R24] विषयज्ञाने । शिल्पबुद्धौ । शिल्पकर्मणि ।'—इति शब्दार्थचिन्तामणिः । [R25] "ज्ञानं विशेषेण सामान्येन चावबोधः । 'मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं [R26] शिल्पशास्त्रयोः इत्यमरः (१.५.६) । अस्यार्थः—मोक्षे शिल्पे शास्त्रे [R27] च या धीः सा ज्ञानं विज्ञानञ्चोच्यते । एषा विशेषप्रवृत्तिः । अन्यत्र [R28] घटपटादौ या धीः साऽपि ज्ञानं विज्ञानञ्चोच्यते । एषा सामान्या [R29] प्रवृत्तिः । मोक्षे धीर्ज्ञानं विज्ञानञ्च, यथा-ज्ञानान्मुक्तिः । 'सा याचिता