भारतकोश
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished237 पृष्ठ

पृष्ठ 104, कुल 237 में से

संदर्भ में पढ़ें
पृष्ठ 104

१८४ वेदस्वरूप-विमर्शः वस्तुतस्तु—'स्वाध्यायोऽध्येतव्यः' इति विधिना सार्थस्यैव स्वाध्याय- पदवाच्य-वेदराशेः अध्ययनविधानात् तदर्थमेव पूर्वोत्तरमीमांसात्मकस्य वाक्यशास्त्रस्य प्रवृत्तेश्च आचार्यपारम्पर्येणैव वेदस्वरूपग्रहणवद् वेदार्थ- स्यापि ग्रहणौचित्यम्। यद्यपीदानीं पारम्पर्यविलोपो इव दृश्यते; तथापि वसिष्ठ-मनु-व्यास-जैमिनि-कुमारिल-शङ्कर-मण्डन-पद्मपाद-तोटक-हस्ता- मलक-वाचस्पति-सायणादिभिः पारम्पर्येणैव वेदांस्तदर्थांश्च अधिगंत्यैव तदर्थसम्बन्धे किञ्चिदुदितं लिखितं वा। अतो मन्त्राणां ब्राह्मणानां श्रौत- सूत्राणां पूर्वोत्तरमीमांसासूत्राणां यागोपासनादिपद्धतीनाञ्च अनुष्ठानपार- म्पर्याणाञ्च एकरूप्येण संगतिर्भवति। व्याकरण कोशादिबलेनैव अर्थकरणे तु शतधा सहस्रधा विरुद्धा अपि पण्डितप्रकाण्डैरनेके विस्मापका अर्थाः कर्तुं शक्यन्त एव। यदुक्तम्—'तदानीं भौतिकविज्ञानस्य अनाविर्भूतत्वाद् वैज्ञानिकेऽर्थे तेषां भाष्यकाराणां दृष्टिर्न गता, इदानीन्तनानां विज्ञानसंस्कृतत्वात् वैज्ञानिकार्थाविष्कारः संभवती'ति। तन्न; तथात्वे वेदस्य आधुनिक- विज्ञानैरेव गतार्थत्वात् अनुपादेयत्वापत्तेः। किञ्च—यदि संशय-विपर्यया- नास्कन्दितं यथार्थज्ञानमेव विज्ञानं तदा तु सायणादिभाष्यमपि विज्ञान बोधकमेव भाष्यमिति वक्तुं शक्यत एव। यदप्युक्तम्—"विभिन्नं वस्तुजातमखिलङ्गीकृत्य मूलान्वेषणक्रमेण एकत्वपर्यन्तं गतिर्ज्ञानम्, एकं तत्त्वं निरूढं मत्वा क्रमेण तस्य अनन्त- रूपताप्रतिपत्तिर्विज्ञानम्, विशिष्य ज्ञानं हि विज्ञानम्, विविधं ज्ञानं विभेदेन ज्ञानं वा विज्ञानमिति प्रत्यक्षे प्रत्यक्षायिते वा स्फुटे प्रतिभासे विज्ञानशब्दः प्रवर्तते। 'मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः' इति कोषाद्दि'ति। तदंशत एव सत्यम्; मोक्षहेतुज्ञानेऽपि विज्ञानशब्द- प्रयोगदर्शनात्। अत एव 'विज्ञानं शिल्पशास्त्रयोरित्यपि नैकान्तिकम्, किन्तु प्रायिकमेव। 'तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः।' इति बृहदारण्यके मोक्षहेतौ विज्ञानशब्दप्रयोगदर्शनात्। अन्यत्राप्युक्तम्—

वेदस्वरूप-विमर्शः १८५ 'अविज्ञातं विजानतां विज्ञातमविजानताम्।' ( केनोपनिषद् ) 'एवं मुनेर्विजानत आत्मा भवति गौतम।' ( काठके ) 'विज्ञातारमरे केन विजानीयात्।' 'तद्विज्ञानेन परिपश्यन्ति धीराः।' 'वेदान्त-विज्ञान-सुनिश्चितार्थाः ।' ( इति मुण्डके ) 'आनन्दो ब्रह्मेति व्यजानात्। ( तैत्तिरीयके ) 'तद्धास्य विजज्ञाविति विजज्ञाविति।' ( छान्दोग्ये ) 'भूमानं भगवो विजिज्ञासे।' सर्वांश्च लोकानाप्नोति सर्वांश्च कामान् यस्तमनुविद्य विजानाति।' 'विज्ञातारमरे केन विजानीयात्।' ( बृहदारण्यके ) यथा 'सत्यं ज्ञानमिति ज्ञानपदं ब्रह्मपरम्, तथैव 'विज्ञानमानन्दं ब्रह्म'ति विज्ञानपदमपि ब्रह्मपरम्। 'नहि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते।' 'तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः।' ( बृहदारण्यके ) 'तयैतन्मोह्यते विश्वं सैव विश्वं प्रसूयते। सा याचिता च विज्ञानं तुष्टा ऋद्धिं प्रयच्छति ॥' (सप्तशती) 'विबुद्धश्च भक्त्यैव कथोपनीतया प्रपेदिरेऽद्धोच्युत ते गतिं पराम्' इति च। विबोधो विज्ञानमित्यनर्थान्तरम्। वस्तुतस्तु—ब्रह्मसाक्षात्कारस्य अपरोक्षरूपत्वात् ब्रह्मज्ञानं प्रत्यक्ष- ज्ञानमेव। तेन तत्र तत्र विज्ञानशब्दप्रयोग एव। अत एव 'ज्ञानं तेऽहं सवि- ज्ञानम्' इत्यत्र ज्ञानपदेन शास्त्रार्थज्ञानं विज्ञानशब्देनापरोक्षज्ञान- मेव विवक्षितम्। तेनैव 'तमेव विदित्वा', ऋते ज्ञानान्न मुक्तिः' इत्यादौ तु ज्ञानशब्देनैव अपरोक्षज्ञानं विवक्षितम्, तस्यैव मोक्षहेतुत्वात्। अत एव श्रीशङ्कराचार्यप्रभृतिभिः विज्ञानसहितमित्यस्य अनुभव- युक्तमिति विवरणं कृतम्। 'नवैकादश पञ्च त्रीन् भावान् भूतेषु येन वै। ईक्षेताथैकमप्येषु तज्ज्ञानं मम निश्चितम् ॥'

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय) · पृष्ठ 104, कुल 237 में से · BharatKosha