भारतकोश
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished237 पृष्ठ

पृष्ठ 103, कुल 237 में से

संदर्भ में पढ़ें
पृष्ठ 103

१८२ वेदस्वरूप-विमर्शः षाणामभूतानामपीणामेव वाचः, ऋषीणामेव प्रथमाविर्भूतत्वात्" इति । परं सर्वमिदं कल्पनामात्रम् ; निर्विशेषब्रह्माव्यतिरिक्तस्य सर्वस्यैव कार्यत्वेन भवदभिमतापौरुषेयत्वासम्भवात् 'एकमेवाद्वितीय'मित्यादिश्रुतिविरोधाच्च । ब्रह्मान्तर्गतत्वेऽपि स्वगतभेदापस्त्या न विरोधपरिहारसम्भवः । जीवाना- मपि परमार्थतो ब्रह्मरूपतैवेति न तेन सद्वितीयतापत्तिः । न तथा प्रकृति- तद्विकाराणां ब्रह्मणा मुख्याभेदस्तत्र, बाधसामानाधिकरण्ये 'योऽयं स्थाणुः पुमानेषः इति बाधेनैव अभेदव्यवहारात् । न च उपनिषत्पुराणादिषु न वा तद्विचाररूपे ब्रह्मसूत्रे च तन्निर्णयः, तेषां ब्रह्मभिन्नत्वे कार्यत्वम्, अभिन्नत्वे चिद्रूपता, प्राणादीनामचिद्रूपता- वर्णनविरोधश्च । इन्द्रियरूपाया वाचो वेदलक्षणायाश्च तदधिष्ठात्र्या [

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय) · पृष्ठ 103, कुल 237 में से · BharatKosha