वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 102, कुल 237 में से
संदर्भ में पढ़ेंनिर्विकल्पज्ञानस्य चेद्देदत्वं तर्हि पुराण-काव्यादिरूपत्वं कथं न भवेत्, सर्वस्यैव निर्युक्तिकत्वात् । तत्तन्मन्त्रार्थविशिष्टस्य ज्ञानस्य वेदत्वरुचेत् कुतस्तन्नित्यत्वम्, विशिष्टस्य सर्वस्यैव वेदान्तिनयेऽनित्यत्वाभ्युपगमात् । लौकिकालौकिकार्यविषयकविशिष्टज्ञानेषु वेदशब्दप्रयोगस्तु अनुपलम्भ- पराकृत एव । यदप्युक्तम्—"तपोयोगादिनां परमेशप्रसादमवाप्य समाधौ तत्तत्- स्वर्गापूर्वदेवतादिज्ञानं यज्ञ-स्वर्गादि कार्यकारणभावविज्ञानं च प्रत्यक्ष- रूपमवाप्य महर्षिभिः मन्त्राः ब्राह्मणा ने च प्रकटीकृता.ने । तन्त्रेषु मन्त्रेषु त एव ऋषिनाम्नापि स्मर्यन्ते । ब्राह्मणान्यपि तत्तदृषिनाम्ना प्रसिद्ध्यन्ति । ते च मन्त्र-ब्राह्मणात्मका वेदाः शिष्य प्रशिष्यपरम्परायां प्रकीर्गरूपेण प्रचरन्ति स्म कालेन । व्यासोपज्ञं तेषां संहित