वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 101, कुल 237 में से
संदर्भ में पढ़ें१०८ वेदस्वरूप-विमर्शः तु ईश्वरप्रणीताः। पुरुषाणां तु न पश्यन्त्या वाच उत्पादने व्यापार इत्युक्तमेव उपरिष्टात्। अथ आदिश्वक्तॄणां ज्ञानप्रयोज्यशब्दसमूहाभिप्रायेण श्रोतॄणां ज्ञान- प्रयोजकशब्दसमूहाभिप्रायेण वा प्रयुक्ते वेदशब्दे तु ऋषिप्रणीताः वेदाः, ऋषिभिरेव ईश्वरप्रसादेन ज्ञानमवाप्य मन्त्र-ब्राह्मणात्मकशब्दसमूहस्य प्रयुक्तत्वात्। तत्रापि शब्दनित्यतावादे वाक्यरचनाभिप्रायेण प्रणीतत्वम्, अनित्यतावादे तु शब्दाभिप्रायेणापि, वाक्य-स्फोटवादिनां वाक्यनित्यता- पक्षे तादृश-वाक्याभिव्यञ्जकप्रयत्नव्यञ्जिकर्तृत्वमात्रेण प्रणेतृत्वमिति। तदपि पूर्वोक्तरीत्याऽसङ्गतमेव; मन्त्रब्राह्मणात्मकशब्दराशौ तद्विशेष- नियताक्षरपद्य-गद्य-गीति-तन्मिश्रात्मकेषु ऋगादिष्वेव वेद-तद्विशेष- शब्दानां सर्वत्र प्रयोगदर्शनेन उक्तसमुदायवाचकत्वाभावात्, अन्यत्र तु प्रयोगस्य लाक्षणिकत्वात्। यद्यपि 'वेदनं वेदः, विद्यतेऽनेनेति वेदः, वेद्यतेऽनेनेति वेदः, विद्यन्ते वेद्यन्तेवा ये ते वेदा' इत्यादिद्व्युत्पत्तिभिः प्रत्यक्षादिप्रमाणेषु आलोकादि- सहकारिकारणेषु घटादिव्यर्थेषु च वेदशब्दप्रयोगः प्रसज्यते, परं न तथा शिष्टप्रयोगो दृश्यते। वेदशब्दस्य अनेके अर्था भवन्तु नाम, प्रकृते तु रूढिर्योगमपहरतीति न्यायेन योगरूढार्थस्यैव शिष्टैः परिगृहीतत्वात्, तत्रैव पौरुषेयत्वाऽपौरुषेयत्व-जीवेश्वर-कृतत्वाद्विना विप्रतिपत्तिरिति ज्ञानाद्यंशेन अपौरुषेयत्वसमर्थनाभासो व्यर्थ एव, तत्र विप्रतिपत्तेरेवा- भावात्। समुदाये प्रयुक्तस्य शब्दस्य तदवयवेषु प्रवृत्तिः रूढ्यर्थाभिप्राये- णैव, 'पञ्चाल आगतः, ग्रामो दग्धः, ग्राम आगत' इति रूढशब्दानाम् उदाहरणरूपेण ग्रहणात्। नात्र समुदाये वेद-शब्दस्य रूढिः, योगेन तु सम्पाद्यतेऽनेकार्थता। 'त्रयो वेदाः, त्रयी विद्या, त्रयं ब्रह्म' इत्यादि-वेद-ब्रह्म-विद्या-शब्दा अपि शब्दराशिपरा एव। न च शब्दे विद्याशब्दप्रयोगाभावः शङ्कनीयः; "पञ्चाक्षरी-विद्या, पञ्चदशी, षोडशी विद्येत्यादौ मन्त्रेषु विद्याशब्द- प्रयोगदर्शनात्, 'विद्यां जपेत्' इति शिष्टप्रयोगदर्शनाच्च। नहि 'वेदं वेदस्वरूप-विमर्शः १०९ कृत्वा वेदिं करोति' इत्यादौ वेदशब्दस्य व्युत्पत्तिलभ्यास्ते तेऽर्था ग्रहीतुं शक्याः केनापि, पारम्पर्यविरोधात्। यदप्युक्तम्- "मन्त्रशब्दः शब्दोपदिष्टविज्ञाने रूढः शब्देऽपि प्रवर्तते" इति। तदपि न युक्तम्; निष्प्रमाणकत्वात्। 'मन्त्रान् सम्प्राहुरित्यत्र तु शब्दाभिप्रायेणैव तत्प्रयोगस्य युक्तत्वात्, तथैव शिष्टसम्मतत्वाच्च। न च 'यदेतन्मण्डलं तपति तन्महदुक्थम्, 'मण्डलमेवर्च्ः', 'वाग्वा असा- वादित्यः' इत्यादिषु तेषु तेषु वैज्ञानिकेष्वर्थेषु वागादिशब्दप्रयोगेण अस्यैव समुदायवाचकतेति वाच्यम्; 'प्राणो वा अर्णवः, मनो वै समुद्रः' इत्यादिष्वित् उपासनार्थमौपचारिकभेदप्रयोगस्यैव तत्र तत्रोक्तत्वात्। यथा 'प्राणो वा' इत्यादिना प्राणार्णवयोर्न भेदः, न वा अर्णवस्य प्राण- शब्दवाच्यत्वं ज्ञायते, तथैव नोक्थादित्ययोः अभेदो न वा आदित्यस्य उक्थादिशब्दवाच्यत्वम् 'वाग्वा' इत्यादिना विज्ञायते। किन्तु केनचिद् योगेन