वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 100, कुल 237 में से
संदर्भ में पढ़ें१०६ वेदस्वरूप-विमर्शः इह वेदविलक्षणशब्दाभिव्यञ्जिका वाग् इन्द्रियरूपैव संस्तुता । सापि प्राणरूपस्य इन्द्रस्य पत्नी । एवमन्यान्यपि तादृशानि श्रुति- वाक्यानि । यथा- 'वाचं धेनुमुपासीत । तस्याश्चत्वारः स्तनाः- स्वाहाकारो वषट्कारो हन्तकारः स्वधाकारः' इति । 'स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयो वाङ्मयः प्राणमय' इत्यत्रापि न वाय्वाकाशाद्युत्पत्तेः पूर्ववर्तिन्यः कश्चन कला विवक्षिताः । अयमात्माऽपरोक्षः । प्रत्यगात्माऽत्र विवक्षितः, 'यत् साक्षादपरोक्षात्' इति तस्यैवापरोक्षत्वप्रसिद्धेः । तस्यैव च ब्रह्मरूपताऽपि युक्ता सर्वो- पाधिनिरपेक्ष्याभिप्रायेण । तत्तदुपाधिवैशिष्ट्याभिप्रायेण तु विज्ञानमयो मनोमयः वाङ्मयः प्राणमय इत्यादिव्यपदेशः, वागादीनां भौतिकत्व- श्रवणात् । यदुक्तम्- 'ज्ञानञ्च क्रिया च अर्थश्चेति त्रीणि तत्त्वानि उपलभ्यन्ते तदनुकूलं त्रयमेव कारणत्वेनाम्नायतें श्रुतिषु मनः प्राण वाच' इत्यादि । तदपि न क्षोदक्षमम्; मनआदीनां ज्ञानादिकारणत्वे सत्यपि तेषा- मभौतिकत्वानुपपत्तेः । 'अन्नमयं हि सोम्य मनः आपोमयः प्राणस्तेजोमयी वाग्' इत्यादि-छान्दोग्यश्रुतिविरोधात् शब्दमूलत्वात् सृष्टेरर्थस्य वाङ्मूलत्वं वक्तुं शक्यते । कैश्चित्तु शब्दतन्मात्रमूलकत्वात् आकाशादिप्रपञ्चस्य शब्दमूलत्व- मुच्यते । अन्यैस्तु-'वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्' 'अतः कविर्नामसु यावदर्थः स्यादप्रमत्तो व्यवसायबुद्धिः' इत्यादिरीत्या विकाराणां कारणातिरेकेणासत्त्वात् नामधेयमात्रत्वमुक्तम् । अन्यैस्तु- स्फोटात्मकज्ञानस्यैव शब्दरूपत्वात् तदात्मकस्य ब्रह्मणो जगत्कारणत्व- मेव शब्दस्य वाचो वा जगत्कारणत्वम् । अपरैस्तु-'ओमिति ब्रह्म'ति रीत्या वाच्यवाचकयोः अभेदात् ओमात्मवागभिन्नब्रह्मकारणत्वमेव जगतः, अर्थस्य वा वाक्कारणत्वम्, नादबिन्द्वादिरूपेण ब्रह्मतच्छक्तिरू- पचिदचिन्मिश्राद्यवस्थारूपेण ब्रह्मण एव विवर्त इति । तदेतत्सर्वं मञ्जूषादिषु स्पष्टमेव । निःश्वसितरूपत्वन्तु शब्दराशिरूपवेदे तद्गत- मन्त्रब्राह्मणोपनिषदादीनामेवेति संक्षेपः ।
: २ : यच्च वेदानाम्पौरुषेयत्व-परमेश्वरप्रणीतत्व-मनुष्यप्रणीतत्वपक्षाणां समन्वयायोक्तम्- "वेदशब्दः तदवान्तरविशेषवाचका ऋग्यजुःसामाथर्व- शब्दाश्च द्वेधा श्रुतिष्वेव व्यवहृताः-वैज्ञानिकार्थपराः, ज्ञानपराश्च । अव्ययपुरुषकलासु अन्यतमा वाक् ऋग्यजुःसामाथर्वरूपा; तद्धितान्तश्चैषां शब्दानां वैज्ञानिकोऽर्थः । ज्ञानपरो वेदशब्दोऽपि ज्ञाने, तत्सम्बद्धे, शब्द- समूहे ज्ञानविषयीभूतेषु लौकिकेषु अलौकिकेषु चार्थेषु व्यासज्यवृत्तिः । सर्वविध लौकिकाऽलौकिकार्थ विषयकं शब्दाभिव्यक्तिप्रयोजकम्, अभि- व्यक्तशब्दप्रयोज्यं वा ज्ञानं वेदः । तादृशज्ञानविषयीभूतास्ते तेऽर्था वेदः । तत्तज्ज्ञानानुवेधकः तत्तदर्थज्ञानप्रयोज्याभिव्यक्तिकः अभिव्यक्तः संस्तत्तदर्थज्ञानप्रयोजको वा शब्दसमूहो वेदः । समुदाये प्रवृत्ताः शब्दा अवयवेष्वपि प्रवर्तन्ते' इति न्यायेन केवले ज्ञाने केवले शब्दसमूहे, केवले अर्थेष्वपि वेदशब्दप्रवृत्तिः । 'वेदनं वेदः, विद्यते (ज्ञायते) अनेन, वेद्यते ज्ञाप्यते अनेनेति वा वेदः, वेद्यन्ते वा ये ते वेदाः' इति विभिन्नाभिः व्युत्पत्तिभिः विभिन्नेष्वर्थेषु विभिन्ना वेदशब्दा वा अभ्युपगम्यन्ते । तत्र केवलज्ञानाभिप्रायेण प्रयुक्ते वेदशब्दे वेदस्य अपौरुषेयत्वम्, ज्ञानस्य स्वरूपेण नित्यत्वात्, केनाप्युत्पादयितुमशक्यत्वाच्च । त एव ईश्वररूपा वेदा इति शक्यं वक्तुम्, ईश्वरस्य ज्ञानरूपतायाः सर्वत्र व्यवहृतत्वात् । ज्ञानविषयीभूतार्थाभिप्रायेण केवलार्थाभिप्रायेण वा प्रयुक्ते वेदशब्दे ईश्वरनिर्मिता वेदाः, अर्थानां परमेश्वरनिर्मितत्वात् । तादृशस्य ज्ञानस्यापि महर्षिभिरीश्वरप्रसादेनैव लब्धत्वात् । तथापि तादृशज्ञानाभिप्रायेण ईश्वरनिःश्वसितं वेदाः, ज्ञानस्य नित्य- त्वेन अर्थोपहितत्वमात्रस्य ईश्वरसम्पादितत्वेन प्रणीतत्वकथनस्यापि सामञ्जस्यात् । निःश्वसितत्वं तु ततो निष्क्रान्तत्वमेव । तत्तदर्थपरत्वे तु ईश्वरप्रणीता इति युक्तम् । ज्ञानानुविद्धशब्दसमूहाभिप्रायेण प्रयुक्ते वेदशब्देऽपि शब्दनित्यत्ववादिनामपौरुषेया वेदाः । अनित्यत्ववादिनां वे० वि० २