भारतकोश
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished237 पृष्ठ

पृष्ठ 100, कुल 237 में से

संदर्भ में पढ़ें
पृष्ठ 100

१०६ वेदस्वरूप-विमर्शः इह वेदविलक्षणशब्दाभिव्यञ्जिका वाग् इन्द्रियरूपैव संस्तुता । सापि प्राणरूपस्य इन्द्रस्य पत्नी । एवमन्यान्यपि तादृशानि श्रुति- वाक्यानि । यथा- 'वाचं धेनुमुपासीत । तस्याश्चत्वारः स्तनाः- स्वाहाकारो वषट्कारो हन्तकारः स्वधाकारः' इति । 'स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयो वाङ्मयः प्राणमय' इत्यत्रापि न वाय्वाकाशाद्युत्पत्तेः पूर्ववर्तिन्यः कश्चन कला विवक्षिताः । अयमात्माऽपरोक्षः । प्रत्यगात्माऽत्र विवक्षितः, 'यत् साक्षादपरोक्षात्' इति तस्यैवापरोक्षत्वप्रसिद्धेः । तस्यैव च ब्रह्मरूपताऽपि युक्ता सर्वो- पाधिनिरपेक्ष्याभिप्रायेण । तत्तदुपाधिवैशिष्ट्याभिप्रायेण तु विज्ञानमयो मनोमयः वाङ्मयः प्राणमय इत्यादिव्यपदेशः, वागादीनां भौतिकत्व- श्रवणात् । यदुक्तम्- 'ज्ञानञ्च क्रिया च अर्थश्चेति त्रीणि तत्त्वानि उपलभ्यन्ते तदनुकूलं त्रयमेव कारणत्वेनाम्नायतें श्रुतिषु मनः प्राण वाच' इत्यादि । तदपि न क्षोदक्षमम्; मनआदीनां ज्ञानादिकारणत्वे सत्यपि तेषा- मभौतिकत्वानुपपत्तेः । 'अन्नमयं हि सोम्य मनः आपोमयः प्राणस्तेजोमयी वाग्' इत्यादि-छान्दोग्यश्रुतिविरोधात् शब्दमूलत्वात् सृष्टेरर्थस्य वाङ्मूलत्वं वक्तुं शक्यते । कैश्चित्तु शब्दतन्मात्रमूलकत्वात् आकाशादिप्रपञ्चस्य शब्दमूलत्व- मुच्यते । अन्यैस्तु-'वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्' 'अतः कविर्नामसु यावदर्थः स्यादप्रमत्तो व्यवसायबुद्धिः' इत्यादिरीत्या विकाराणां कारणातिरेकेणासत्त्वात् नामधेयमात्रत्वमुक्तम् । अन्यैस्तु- स्फोटात्मकज्ञानस्यैव शब्दरूपत्वात् तदात्मकस्य ब्रह्मणो जगत्कारणत्व- मेव शब्दस्य वाचो वा जगत्कारणत्वम् । अपरैस्तु-'ओमिति ब्रह्म'ति रीत्या वाच्यवाचकयोः अभेदात् ओमात्मवागभिन्नब्रह्मकारणत्वमेव जगतः, अर्थस्य वा वाक्कारणत्वम्, नादबिन्द्वादिरूपेण ब्रह्मतच्छक्तिरू- पचिदचिन्मिश्राद्यवस्थारूपेण ब्रह्मण एव विवर्त इति । तदेतत्सर्वं मञ्जूषादिषु स्पष्टमेव । निःश्वसितरूपत्वन्तु शब्दराशिरूपवेदे तद्गत- मन्त्रब्राह्मणोपनिषदादीनामेवेति संक्षेपः ।


: २ : यच्च वेदानाम्पौरुषेयत्व-परमेश्वरप्रणीतत्व-मनुष्यप्रणीतत्वपक्षाणां समन्वयायोक्तम्- "वेदशब्दः तदवान्तरविशेषवाचका ऋग्यजुःसामाथर्व- शब्दाश्च द्वेधा श्रुतिष्वेव व्यवहृताः-वैज्ञानिकार्थपराः, ज्ञानपराश्च । अव्ययपुरुषकलासु अन्यतमा वाक् ऋग्यजुःसामाथर्वरूपा; तद्धितान्तश्चैषां शब्दानां वैज्ञानिकोऽर्थः । ज्ञानपरो वेदशब्दोऽपि ज्ञाने, तत्सम्बद्धे, शब्द- समूहे ज्ञानविषयीभूतेषु लौकिकेषु अलौकिकेषु चार्थेषु व्यासज्यवृत्तिः । सर्वविध लौकिकाऽलौकिकार्थ विषयकं शब्दाभिव्यक्तिप्रयोजकम्, अभि- व्यक्तशब्दप्रयोज्यं वा ज्ञानं वेदः । तादृशज्ञानविषयीभूतास्ते तेऽर्था वेदः । तत्तज्ज्ञानानुवेधकः तत्तदर्थज्ञानप्रयोज्याभिव्यक्तिकः अभिव्यक्तः संस्तत्तदर्थज्ञानप्रयोजको वा शब्दसमूहो वेदः । समुदाये प्रवृत्ताः शब्दा अवयवेष्वपि प्रवर्तन्ते' इति न्यायेन केवले ज्ञाने केवले शब्दसमूहे, केवले अर्थेष्वपि वेदशब्दप्रवृत्तिः । 'वेदनं वेदः, विद्यते (ज्ञायते) अनेन, वेद्यते ज्ञाप्यते अनेनेति वा वेदः, वेद्यन्ते वा ये ते वेदाः' इति विभिन्नाभिः व्युत्पत्तिभिः विभिन्नेष्वर्थेषु विभिन्ना वेदशब्दा वा अभ्युपगम्यन्ते । तत्र केवलज्ञानाभिप्रायेण प्रयुक्ते वेदशब्दे वेदस्य अपौरुषेयत्वम्, ज्ञानस्य स्वरूपेण नित्यत्वात्, केनाप्युत्पादयितुमशक्यत्वाच्च । त एव ईश्वररूपा वेदा इति शक्यं वक्तुम्, ईश्वरस्य ज्ञानरूपतायाः सर्वत्र व्यवहृतत्वात् । ज्ञानविषयीभूतार्थाभिप्रायेण केवलार्थाभिप्रायेण वा प्रयुक्ते वेदशब्दे ईश्वरनिर्मिता वेदाः, अर्थानां परमेश्वरनिर्मितत्वात् । तादृशस्य ज्ञानस्यापि महर्षिभिरीश्वरप्रसादेनैव लब्धत्वात् । तथापि तादृशज्ञानाभिप्रायेण ईश्वरनिःश्वसितं वेदाः, ज्ञानस्य नित्य- त्वेन अर्थोपहितत्वमात्रस्य ईश्वरसम्पादितत्वेन प्रणीतत्वकथनस्यापि सामञ्जस्यात् । निःश्वसितत्वं तु ततो निष्क्रान्तत्वमेव । तत्तदर्थपरत्वे तु ईश्वरप्रणीता इति युक्तम् । ज्ञानानुविद्धशब्दसमूहाभिप्रायेण प्रयुक्ते वेदशब्देऽपि शब्दनित्यत्ववादिनामपौरुषेया वेदाः । अनित्यत्ववादिनां वे० वि० २

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय) · पृष्ठ 100, कुल 237 में से · BharatKosha