भारतकोश
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished237 पृष्ठ

पृष्ठ 99, कुल 237 में से

संदर्भ में पढ़ें
पृष्ठ 99

१७४ वेदस्वरूप-विमर्शः 'आत्मा ह्यग्निः तदेतमेते उभे रसो भूत्वाऽपीतः । ऋक् च साम च तदुभे ऋक्सामे यजुरपीतः ( शत० १०.१.१.६) तत्राप्ययं दर्शितः । 'ऋचोऽक्षरे परमे व्योमन्' इति मन्त्रोऽपि परमव्योमपदेन बोधितस्य परब्रह्मण ऋगक्षरे प्रतिष्ठितत्वमाह । तस्य ज्ञानमेव मन्तरूपाणामृचां मुख्यं प्रयोजनम् । तदित्थं ब्रह्मस्वरूपभूता मन्त्राणां वाच एव मुख्या वेदा इति विवृतम् । एते रसवेदाः, पूर्वोक्तमण्डलक्रमेण चक्षुःपर्यन्त- मागत्य तत्तद्वस्तुजनकाः । वस्तुवितननात् वितानपदेन व्यवहार्याः । यैर्वस्तुनो दूरे दूरे लघुत्वं व्याख्यातम्, ते तु छन्दोवेदा इति त्रिविधा वैज्ञानिका वेदाः' इति । अत्रोच्यते—यस्याः श्रुतेर्बलादेतत्सर्वं कल्प्यते, तस्याः पूर्वाचार्यैः [