वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 93, कुल 237 में से
संदर्भ में पढ़ेंHere is the precise Sanskrit text transcribed line by line into Devanagari from the provided image:
१६२ वेदस्वरूप-विमर्शः यन्न स्वतन्त्रः । पुरुषास्वातन्त्र्यमात्रं चापौरुषेयत्वं रोचयन्ते जैमिनीया अपि । तच्च अस्माकमपि समानम्, अन्यत्राभि- निवेशात्' इति । एतेन मन्त्रेषु ब्राह्मणेषु च तास्ता आख्यायिका इतिहासाश्च वेदा- पौरुषेयत्वाविरोधिनो ग्राह्या एव । तदभिप्रायेणैव सायणादीनां यथाश्रुतार्थ- व्याख्यानम्, एकत्र निर्दिष्टस्य सिद्धान्तस्य सर्वत्र योजयितुं शक्यत्वात् । एतेन निरुक्ते (अ० २) - 'आर्ष्टिषेणो होत्रमृषिर्निषीदन् देवापि देव- सुमतिं चिकित्वान्' इत्यादिषु देवापि-शन्तनु-प्रभृतीनां चरितं तत्तन्मन्त्र- निदानत्वेन प्रस्तौति । बृहद्देवताकृत् शौनकोऽपि बहूनामृषीणां चरितानि मन्त्रनिदानत्वेन बृहद्देवतायां स्पष्टमाचष्टे इत्यादिकमपि समाहितमेव । यत्तु - "वेदेषु सर्ववेतिहासानभ्युपगमे महान् विप्लवः स्यात्, वेदेषु ऊर्वशी-पुरूरवो-हरिश्चन्द्रप्रभृतीनां बहव इतिहासाः । ते च पुराणे- ष्त्रपि उपबृंहिताः । ततश्च वेदेषु ते यथाऽन्यपराः पुराणेष्वपि ते तथैव सम्भाव्यन्ते । तथा च तद्द्द्वितपौराणिकराजवंशस्य ऐतिहासिकं तथ्यं दूरोत्सारितं स्यात् । ततश्च 'नास्त्येव भारतीयानां कोऽपि इतिहासः । कल्पनामात्रसाराः पौराणिका इतिहासाः । नासीत् कोऽपि रामो युधिष्ठिरो वा' इत्यादिपाश्चात्यानामनर्गला जल्पना एव विजयन्ते । तथा गुहायां दृढदत्तागंलञ्च भारतोयसभ्यतायास्तत्त्वं स्यात् । कुतश्च श्रीशबर- स्वामिना उपबृंहितं मतमेव प्रमाणीकुर्यामहि ? न तु शौनक-यास्क-शङ्कर- माधवादिभिः स्वीकृतवेदेषु स्फुटं भासमानं स्वारसिकसिद्धान्तम्" इति । तदपि निस्सारमेव; भामतोप्रदर्शितरीत्या पूर्वोत्तरमीमांसकाना- मुक्तार्थे विरोधाभावस्य उक्तत्वात् । शौनक-यास्कादीनामपि मतं तदनु- गुणमेव, दुर्गाचार्यैस्तत्र तत्र तथैव व्याख्यातत्वात् । 'यत्परः शब्दः स शब्दार्थः इति न केवलं पूर्वमीमांसकमतम्, उत्तरमीमांसकैरपि तथैवा- भ्युपगमात् । वेदार्थविचारे वाक्य-शास्त्ररूपयोः पूर्वोत्तरमीमांसयोरेव परमादर आवश्यकः । मीमांसा निर्णीतार्थस्यैव पुराणेतिहासादिषु प्रति- पादित्वात् ।
वेदस्वरूप-विमर्शः १६३ यदुक्तम्- "वेदप्रामाण्यसाधनाय बद्धपरिकरा महतो वेदभागस्य मिथ्याप्रतिपादकत्वलक्षणमप्रामाण्यं शब्दान्तरेण प्रसञ्जयेयुरिति महदुप- हासास्पदम्"ति । तदपि निस्सारम्; वाच्यार्थस्य मिथ्यात्वेऽपि यत्परः शब्दस्तस्य अबाध्यत्वेन अप्रामाण्यानुपपत्तेः । किञ्च-येषां शङ्कर-सायण-माधवादीनां सबहुमानं स्वपक्षसाधनाय उपस्थापनं क्रियते, तेषां रीत्या ब्रह्मातिरिक्तस्य सर्वस्यैव मिथ्यात्वेन महतो वेदभागस्य तत्त्वावेदकत्वलक्षण-प्रामाण्यासम्भवेन व्यवहाराबाध्य- बोधकत्वेनैव प्रामाण्यमिष्टमेव । वस्तुतस्तु- 'विरोधे गुणवादः स्यादनुवादोऽवधारिते । भूतार्थवादस्तद्धानादर्थवादस्त्रिधा मतः ॥' इत्यादिर्रीत्या देवताधिकरणदिषु वेदानां नित्यत्वेऽपौरुषेयत्वे सत्यपि तद्विरुद्धानां मन्त्रार्थवादाख्यायिकादीनां स्वार्थेऽवान्तरतात्पर्या- भ्युपगमे न काचिदनुपपत्तिरिति प्रदर्शितमेव । वेदानां नित्यत्वापौरुषे- यत्वादियाधे तु वेदपुराजगतानामितिहासानां स्वार्थपर्यवसायित्वमभ्यु- पगमेऽपि कल्पनामात्रसारत्वादिजल्पनाः सुतरां दुरुत्तरा भविष्यन्ति, बौद्ध-जैनादिजातकादिवद् वेदानापि पौरुषेयत्वापत्त्या तदप्रामाण्य- ध्रौव्यात् । वेदाना मपौरुषेयत्वे नित्यत्वे स्वतःप्रामाण्ये च सिद्धे वेदेषु सर्वथाऽपि घटनापूर्वकशब्दोल्लेखस्वरूपश्चेतिहासः सर्वथा न सम्भव- त्येव, तथात्वे तेषां नित्यत्वादिव्याकोपात् । शब्दपूर्विकास्तु घटना भवन्त्यो न निवार्यन्ते इत्यप्युक्तमेव । सर्वथाऽपि घटनापूर्वक शब्दोल्लेखरूपश्चेतिहासः सर्वथा न संभवत्येव; तथात्वे तेषां नित्यत्वादिव्याकोपात् । शब्दपूर्विकास्तु घटना भवन्त्यो न निवार्यन्ते इत्यप्युक्तमेव, शब्दपूर्वकसृष्टिसिद्धान्ताङ्गीकारात् । तत्र वैदिकशब्दानुसारिण्यो या घटनाः संवृत्तास्ता एवेति वैदिकेतिवृत्त- तद्धितैतिहासिकपुरुषादयो वक्तुं शक्यन्ते । परन्तु तावता आधुनिकेति- हासवत् तद्वलेन तत्तद्धटनाबोधकमन्त्रादीनां कालादिनिर्धारणं शक्य- शङ्कम् । तेन वेदार्थविचारसमये वाक्यशास्त्ररूप-पूर्वोत्तरमीमांसासिद्धान्ता-