भारतकोश
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished237 पृष्ठ

पृष्ठ 94, कुल 237 में से

संदर्भ में पढ़ें
पृष्ठ 94

१६४ वेदस्वरूप-विमर्शः श्रयणमन्तरा यत्किञ्चिदाश्रयणं समुत्तरणाय कुशकाशावलम्बनमेव । अत एव शङ्करभगवत्पादा अपि श्रीशबरस्वामिनः शास्त्रतात्पर्यविद इति वदन्ति । भट्टपादा अपि तथैवानुसरन्ति । वस्तुतस्तु-पाश्चात्त्यानैतिहासिकांश्च वैज्ञानिकांश्च निन्दन्तोऽपि तदनु- प्राणिता एव वेदेषु विज्ञानानि इतिहास-भूगोल-विकासादींश्चान्वेषमाणाः शब्दसाम्यमात्रेण तत्तदर्थाभिनिविष्टा एते महानुभावा प्राचीनाचार्य- परम्परा-प्राप्तवेदार्थविचारसरणिं परित्यज्य वेदार्थाद् दूराद् दूरमुपगता वेद-नित्यत्वादिकमपि व्यक्तवन्तः । शब्दसाम्येन यदि आधुनिक- विज्ञानसिद्धानि कतिचित् तत्त्वानि वैदिकेषु शब्देषु बाध्यतया बलात्- निवेशितानि भवेयुस्तदापि किं वस्तुतो वैज्ञानिकप्रक्रियया तेषां प्रत्यक्षी- करणं शक्यसम्पादम् ? न च