वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 95, कुल 237 में से
संदर्भ में पढ़ें१९६ वेदस्वरूप-विमर्शः तदपि न; पौर्वापर्यानुरोधेन मन्त्रार्थस्य सायणेन अन्यथा व्याख्या- तत्वात् । तथा हि— 'यो जागार तमृचः कामयन्ते यो जागार तमु सामानि यन्ति । यो जागार तमयं सोम आह तवाह्मस्मि सख्ये न्योकाः ॥' (ऋ० सं० ५.४५.१४) भाष्यम्—यो देवः गृहे विनिद्रः, तम् ऋचा सर्वशाखात्मिकाः कामयन्ते सामानि स्तोत्ररूपाणि यन्ति प्राप्नुवन्ति । अयमभिषुतः सोम आह वक्ति—मां स्वीकुर्विति । तादृशस्य तव सख्ये समानख्याने हितकरणो न्योकाः नियतस्थानः अहमस्मि भवामि । तथा च अग्नेर्जागार तमृचः कामयन्ते आहिताग्नीनां गृहे आहवनी- यादिरूपेण अग्नेरेव विनिद्रतालक्षणं जागरणमुपपद्यते । सख्यहित- करणो न्योकाः इत्यस्यापि निश्चितमोकः स्थानं यस्येति रीत्या नियत- स्थानत्वमेव सोमस्योच्यते । यजूरूपस्य अग्नेः कथं किं जागरणम्, कथञ्च ऋक्सामयोस्तत्काम- यितृत्वम्, कथञ्च तदपेक्षया सोमस्य न्यूनत्वम् ? इत्येतत् सर्वमस्पष्टम्, असङ्गतञ्च । प्राणस्य सर्वकारणत्वात् तत्र ऋगादीनां प्रतिष्ठोक्ता । मन्त्रे तु देवतात्वेन अग्निऋगादयः कामयन्ते । अत्र ऋच इति यजुरादि- शाखामारस्य उपलक्षणम् । अत एव यजुषोऽनिर्देशः । भाष्ये च ऋचः सर्वशाखात्मिका इति व्याख्यातम् । गीतिवैशिष्ट्यात्तु साम्नः पृथग्ग्रहणम् । 'य एतस्मिन् मण्डले पुरुषः सोऽग्निस्तानि यजूंषि स यजुषां लोक' इति ब्राह्मणे तु मण्डलान्तर्गते पुरुषेऽग्निबुद्धिः उपासनार्थमुपदिष्टा । तत्रैव यजुर्बुद्धिरपि कर्तव्येत्यायुक्तमेव । मनुस्तु सर्वान्तर्यामिणं परमेश्वरमेव मनुप्रजापतीन्द्राणां विशब्दवाच्यं तत्तदवस्थाविशेषाभि- प्रायेण वदति । 'प्रशासितारं सर्वेषामणीयांसमणोरपि । रुक्माभं स्वप्नधीगम्यं विद्यात्तं पुरुषं परम् ॥' इति । प्रश्नोपनिषद्यपि प्राणस्य अग्न्यादिरूपतोक्ता, तस्यैव प्रकृतत्वात् । मण्डलब्राह्मणेऽपि मण्डलान्तर्गतपुरुषमेव प्रकृत्य तं यथा यथोपासते वेदस्वरूप-विमर्शः १९७ इति सर्वान्तर्यामिण एव सर्वात्मत्वमुक्तम् । तस्यैव च हिरण्मयस्य पर- मेश्वरत्वम् 'अन्तस्तद्धर्मोपदेशात्' इति बादरायणेनापि निर्णीतम् । 'एष सर्वाणि भूतानि पञ्चभिर्व्याप्य मूर्तिभिः । जन्म-वृद्धि-क्षयैर्नित्यं संसारयति चक्रवत् । स सर्वसमतामेत्य ब्रह्माभ्येति परं पदम् ॥' इत्यन्ते तमेव उपसंहरति मनुः । प्राणस्य तु न परब्रह्मत्वमिति स्पष्टमेव । अपरब्रह्मरूपस्य हिरण्यगर्भात्मकस्य प्राणस्य तु अवान्तरकारणत्वेन अग्न्यादिरूपता युज्यते, 'एषोऽग्निस्तपत्येष सूर्य एष पर्जन्यो मघवानेष वायुः', 'इन्द्रस्त्वं प्राण तेजसा रुद्रोऽसि परिरक्षिता । त्वमन्तरिक्षे चरसि सूर्यस्त्वं ज्योतिषां पतिः इत्यादिबच- नेभ्यस्तत्र तत्र । यदपि च—"लोके स्वज्योतिषः, परज्योतिषः, रूपज्योतिषः, अज्योतिषश्चेति चतुर्विधाः पदार्था उच्यन्ते" इति । तदपि निरर्थकम्; स्वज्योतिषः परज्योतिष इति द्वैविध्यस्यैवोद्यत्तेः । शब्दादिवद् रूप- स्यापि ज्योतिष्ट्वानुपपत्तेः । यथा शब्दस्पर्शौ श्रोत्रत्वग्भ्यां प्रकाश्येते तथैव रूपमपि चक्षुषा प्रकाश्यते । न च रूपस्य ज्योतिष्ट्वं श्रुतम् । शब्दस्य तु विषयप्रकाशकत्वेन ज्योतिष्ट्वं सुप्रसिद्धम् । 'वाचैवायँ ज्योतिषाऽऽस्ते पल्ययते कर्म कुरुते' इति श्रुतेः । वस्तुतस्तु—नेत्र-मन-आत्मा-ज्योतीष्यनपेक्ष्य सूर्यस्यापि प्रकाश- भावात् सूर्यस्यापि परज्योतिष्ट्वमेव, अद्येद्यत्वे सत्यपरोक्षस्य ब्रह्मण एव स्वज्योतिष्ट्वोपपत्तेः 'यत् साक्षादपरोक्षाद् ब्रह्म' इति श्रुतेः । आपेक्षिकं तु स्वयंज्योतिष्ट्वम् अग्न्यादित्यचन्द्रविद्युदादीनां सम्भवेव । रूपापेक्षया शब्दस्यैव ज्योतिष्ट्वम् । रूपस्य आलोकसापेक्षचक्षुर्वेद्यत्वम् । शब्दस्य तु केवलश्रोत्रवेद्यत्वमेव । रूपस्य तु वेद्यत्वमेव । शब्दस्य तु स्ववि- षयवेदकत्वमपीति कुतो न तज्ज्योतिष्ट्वव्यवहारः ? 'एकं सद्विप्रा' इति मन्त्रोऽपि आदित्योपाधिकस्य परमेश्वरस्यैव अग्न्यादिरूपतां वक्ति । तच्च तद्भाष्येणैव स्पष्टम् । यथा—