वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 94, कुल 237 में से
संदर्भ में पढ़ें१६४ वेदस्वरूप-विमर्शः श्रयणमन्तरा यत्किञ्चिदाश्रयणं समुत्तरणाय कुशकाशावलम्बनमेव । अत एव शङ्करभगवत्पादा अपि श्रीशबरस्वामिनः शास्त्रतात्पर्यविद इति वदन्ति । भट्टपादा अपि तथैवानुसरन्ति । वस्तुतस्तु-पाश्चात्त्यानैतिहासिकांश्च वैज्ञानिकांश्च निन्दन्तोऽपि तदनु- प्राणिता एव वेदेषु विज्ञानानि इतिहास-भूगोल-विकासादींश्चान्वेषमाणाः शब्दसाम्यमात्रेण तत्तदर्थाभिनिविष्टा एते महानुभावा प्राचीनाचार्य- परम्परा-प्राप्तवेदार्थविचारसरणिं परित्यज्य वेदार्थाद् दूराद् दूरमुपगता वेद-नित्यत्वादिकमपि व्यक्तवन्तः । शब्दसाम्येन यदि आधुनिक- विज्ञानसिद्धानि कतिचित् तत्त्वानि वैदिकेषु शब्देषु बाध्यतया बलात्- निवेशितानि भवेयुस्तदापि किं वस्तुतो वैज्ञानिकप्रक्रियया तेषां प्रत्यक्षी- करणं शक्यसम्पादम् ? न च