भारतकोश
वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished237 पृष्ठ

पृष्ठ 95, कुल 237 में से

संदर्भ में पढ़ें
पृष्ठ 95

१९६ वेदस्वरूप-विमर्शः तदपि न; पौर्वापर्यानुरोधेन मन्त्रार्थस्य सायणेन अन्यथा व्याख्या- तत्वात् । तथा हि— 'यो जागार तमृचः कामयन्ते यो जागार तमु सामानि यन्ति । यो जागार तमयं सोम आह तवाह्मस्मि सख्ये न्योकाः ॥' (ऋ० सं० ५.४५.१४) भाष्यम्—यो देवः गृहे विनिद्रः, तम् ऋचा सर्वशाखात्मिकाः कामयन्ते सामानि स्तोत्ररूपाणि यन्ति प्राप्नुवन्ति । अयमभिषुतः सोम आह वक्ति—मां स्वीकुर्विति । तादृशस्य तव सख्ये समानख्याने हितकरणो न्योकाः नियतस्थानः अहमस्मि भवामि । तथा च अग्नेर्जागार तमृचः कामयन्ते आहिताग्नीनां गृहे आहवनी- यादिरूपेण अग्नेरेव विनिद्रतालक्षणं जागरणमुपपद्यते । सख्यहित- करणो न्योकाः इत्यस्यापि निश्चितमोकः स्थानं यस्येति रीत्या नियत- स्थानत्वमेव सोमस्योच्यते । यजूरूपस्य अग्नेः कथं किं जागरणम्, कथञ्च ऋक्सामयोस्तत्काम- यितृत्वम्, कथञ्च तदपेक्षया सोमस्य न्यूनत्वम् ? इत्येतत् सर्वमस्पष्टम्, असङ्गतञ्च । प्राणस्य सर्वकारणत्वात् तत्र ऋगादीनां प्रतिष्ठोक्ता । मन्त्रे तु देवतात्वेन अग्निऋगादयः कामयन्ते । अत्र ऋच इति यजुरादि- शाखामारस्य उपलक्षणम् । अत एव यजुषोऽनिर्देशः । भाष्ये च ऋचः सर्वशाखात्मिका इति व्याख्यातम् । गीतिवैशिष्ट्यात्तु साम्नः पृथग्ग्रहणम् । 'य एतस्मिन् मण्डले पुरुषः सोऽग्निस्तानि यजूंषि स यजुषां लोक' इति ब्राह्मणे तु मण्डलान्तर्गते पुरुषेऽग्निबुद्धिः उपासनार्थमुपदिष्टा । तत्रैव यजुर्बुद्धिरपि कर्तव्येत्यायुक्तमेव । मनुस्तु सर्वान्तर्यामिणं परमेश्वरमेव मनुप्रजापतीन्द्राणां विशब्दवाच्यं तत्तदवस्थाविशेषाभि- प्रायेण वदति । 'प्रशासितारं सर्वेषामणीयांसमणोरपि । रुक्माभं स्वप्नधीगम्यं विद्यात्तं पुरुषं परम् ॥' इति । प्रश्नोपनिषद्यपि प्राणस्य अग्न्यादिरूपतोक्ता, तस्यैव प्रकृतत्वात् । मण्डलब्राह्मणेऽपि मण्डलान्तर्गतपुरुषमेव प्रकृत्य तं यथा यथोपासते वेदस्वरूप-विमर्शः १९७ इति सर्वान्तर्यामिण एव सर्वात्मत्वमुक्तम् । तस्यैव च हिरण्मयस्य पर- मेश्वरत्वम् 'अन्तस्तद्धर्मोपदेशात्' इति बादरायणेनापि निर्णीतम् । 'एष सर्वाणि भूतानि पञ्चभिर्व्याप्य मूर्तिभिः । जन्म-वृद्धि-क्षयैर्नित्यं संसारयति चक्रवत् । स सर्वसमतामेत्य ब्रह्माभ्येति परं पदम् ॥' इत्यन्ते तमेव उपसंहरति मनुः । प्राणस्य तु न परब्रह्मत्वमिति स्पष्टमेव । अपरब्रह्मरूपस्य हिरण्यगर्भात्मकस्य प्राणस्य तु अवान्तरकारणत्वेन अग्न्यादिरूपता युज्यते, 'एषोऽग्निस्तपत्येष सूर्य एष पर्जन्यो मघवानेष वायुः', 'इन्द्रस्त्वं प्राण तेजसा रुद्रोऽसि परिरक्षिता । त्वमन्तरिक्षे चरसि सूर्यस्त्वं ज्योतिषां पतिः इत्यादिबच- नेभ्यस्तत्र तत्र । यदपि च—"लोके स्वज्योतिषः, परज्योतिषः, रूपज्योतिषः, अज्योतिषश्चेति चतुर्विधाः पदार्था उच्यन्ते" इति । तदपि निरर्थकम्; स्वज्योतिषः परज्योतिष इति द्वैविध्यस्यैवोद्यत्तेः । शब्दादिवद् रूप- स्यापि ज्योतिष्ट्वानुपपत्तेः । यथा शब्दस्पर्शौ श्रोत्रत्वग्भ्यां प्रकाश्येते तथैव रूपमपि चक्षुषा प्रकाश्यते । न च रूपस्य ज्योतिष्ट्वं श्रुतम् । शब्दस्य तु विषयप्रकाशकत्वेन ज्योतिष्ट्वं सुप्रसिद्धम् । 'वाचैवायँ ज्योतिषाऽऽस्ते पल्ययते कर्म कुरुते' इति श्रुतेः । वस्तुतस्तु—नेत्र-मन-आत्मा-ज्योतीष्यनपेक्ष्य सूर्यस्यापि प्रकाश- भावात् सूर्यस्यापि परज्योतिष्ट्वमेव, अद्येद्यत्वे सत्यपरोक्षस्य ब्रह्मण एव स्वज्योतिष्ट्वोपपत्तेः 'यत् साक्षादपरोक्षाद् ब्रह्म' इति श्रुतेः । आपेक्षिकं तु स्वयंज्योतिष्ट्वम् अग्न्यादित्यचन्द्रविद्युदादीनां सम्भवेव । रूपापेक्षया शब्दस्यैव ज्योतिष्ट्वम् । रूपस्य आलोकसापेक्षचक्षुर्वेद्यत्वम् । शब्दस्य तु केवलश्रोत्रवेद्यत्वमेव । रूपस्य तु वेद्यत्वमेव । शब्दस्य तु स्ववि- षयवेदकत्वमपीति कुतो न तज्ज्योतिष्ट्वव्यवहारः ? 'एकं सद्विप्रा' इति मन्त्रोऽपि आदित्योपाधिकस्य परमेश्वरस्यैव अग्न्यादिरूपतां वक्ति । तच्च तद्भाष्येणैव स्पष्टम् । यथा—