भारतकोश
वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

Venisamhara Nataka of Bhatta Narayana with Commentary

भट्ट नारायण द्वारा

DevanagariHindipublished355 पृष्ठ

पृष्ठ 100, कुल 355 में से

संदर्भ में पढ़ें
पृष्ठ 100

द्वितीयोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् ७९ रेणुर्बाधां विधत्ते तनुरपि महतीं नेत्रयोरायतत्वा- दुत्कम्पोऽल्पोऽपि पीनस्तनभरितमुरः क्षिप्तहारं दुनोति । ऊर्वोर्मन्देऽपि याते पृथुजघनभराद्वेपथुर्वधतेऽस्या वात्या खेदं मृगाक्ष्याः सुचिरमवयवैर्दत्तहस्ता करोति ॥ २२ ॥ ( सर्वे उपविशन्ति । ) राजा—तत्किमित्यनास्तीर्णं कठिनशिलातलमध्यास्ते देवी । अन्वयः—नेत्रयोः, आयतत्त्वात्, तनुः, अपि, रेणुः, महतीम्, बाधाम्, विधत्ते, अल्पः, अपि, उत्कम्पः, पीनस्तनभरितम्, क्षिप्तहारम्, उरः, दुनोति, ऊर्वोः मन्दे, अपि, याते, सति, पृथुजघनभरात्, वेपथुः, वर्धते, ( अतः ) मृगाक्ष्याः, अस्याः, सुचिरम्, अवयवैः, दत्तहस्ता, वात्या, खेदम्, करोति ॥ २२ ॥ अधिकापकारमेवाह—रेणुर्बाधामिति । नेत्रयोः=नयनयोः आयतत्त्वात्=दैर्ध्यात्, तनुः = अल्पः, अपि, रेणुः=धूलिः, महतीम्=अधिकाम् बाधाम्=दुःखम् विधत्ते = करोति, अल्पः = ईषत्, अपि, उत्कम्पः = कम्पनम्, पीनस्तनभरितम् = स्थुलकुच- भाराक्रान्तम्, क्षिप्तहारम्, क्षिप्तं हारम् यत्र तत्, उरः = वक्षः, दुनोति पीडयति, ऊर्वोः = सक्थ्नोः, मन्दे = अल्पे, अपि याते=गमने सति, भावे क्तप्रत्ययः । पृथुजघन- भरात् = विपुलस्त्रीश्रोणिपुरोभागस्य भारात्, 'जघनं स्यात् स्त्रियाः श्रोणिपुरोभागे कटावपि, इति मेदिनी । वेपथुः=कम्पनम्, वर्धते, अत इति अध्याहारः ; मृगाक्ष्याः= हरिणनेत्रायाः, अस्याः = भानुमत्याः, सुचिरम्=बहुकालम्, अवयवैः = अङ्गैः, दत्तहस्ता = कृतसाहाय्या, वात्या = वायुसमूहः, खेदम् = दुःखं, करोति=सम्पादयति । अवयवानां साहाय्येन वायुः अधिकं परितापयतीत्यर्थः । अत्र चतुर्थपदार्थे पादत्रय- वाक्यार्थं हेतव इति वाक्यार्थगतकाव्यलिङ्गमलङ्कारः स्रग्धराछन्दः ॥ अनास्तीर्णम् = वस्त्रेण अनाच्छन्नम् । अध्यास्ते = उपविशति, किमिति प्रश्ने । थोड़ी सी धूल नेत्रों की विशालता के कारण महान् दुःख दे रही है। थोड़ा भी कम्प पीवर पयोधरों ( स्तन ) के भार से दबे हुए हृदयप्रदेश को जिसपर से हार पृथक् कर दिया गया है, कष्ट दे रहा है। थोड़ा भी गमन करने पर स्थूलजघनों के भार से इनकी जाँघों में प्रकम्प बढ़ रहा है। झन्झावात इन्हीं हरिणाक्षी के अङ्गों से सहायता प्राप्त करके इन्हें ही अधिक समय तक खिन्न कर रहा है ॥ २२ ॥ ( सब बैठ जाते हैं ) राजा—तो क्यों, श्रीमती बिना आसन के इस कठोर पत्थर की चट्टान पर बैठी हुई हैं ! क्योंकि—