वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
द्वितीयोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् ७९ रेणुर्बाधां विधत्ते तनुरपि महतीं नेत्रयोरायतत्वा- दुत्कम्पोऽल्पोऽपि पीनस्तनभरितमुरः क्षिप्तहारं दुनोति । ऊर्वोर्मन्देऽपि याते पृथुजघनभराद्वेपथुर्वधतेऽस्या वात्या खेदं मृगाक्ष्याः सुचिरमवयवैर्दत्तहस्ता करोति ॥ २२ ॥ ( सर्वे उपविशन्ति । ) राजा—तत्किमित्यनास्तीर्णं कठिनशिलातलमध्यास्ते देवी । अन्वयः—नेत्रयोः, आयतत्त्वात्, तनुः, अपि, रेणुः, महतीम्, बाधाम्, विधत्ते, अल्पः, अपि, उत्कम्पः, पीनस्तनभरितम्, क्षिप्तहारम्, उरः, दुनोति, ऊर्वोः मन्दे, अपि, याते, सति, पृथुजघनभरात्, वेपथुः, वर्धते, ( अतः ) मृगाक्ष्याः, अस्याः, सुचिरम्, अवयवैः, दत्तहस्ता, वात्या, खेदम्, करोति ॥ २२ ॥ अधिकापकारमेवाह—रेणुर्बाधामिति । नेत्रयोः=नयनयोः आयतत्त्वात्=दैर्ध्यात्, तनुः = अल्पः, अपि, रेणुः=धूलिः, महतीम्=अधिकाम् बाधाम्=दुःखम् विधत्ते = करोति, अल्पः = ईषत्, अपि, उत्कम्पः = कम्पनम्, पीनस्तनभरितम् = स्थुलकुच- भाराक्रान्तम्, क्षिप्तहारम्, क्षिप्तं हारम् यत्र तत्, उरः = वक्षः, दुनोति पीडयति, ऊर्वोः = सक्थ्नोः, मन्दे = अल्पे, अपि याते=गमने सति, भावे क्तप्रत्ययः । पृथुजघन- भरात् = विपुलस्त्रीश्रोणिपुरोभागस्य भारात्, 'जघनं स्यात् स्त्रियाः श्रोणिपुरोभागे कटावपि, इति मेदिनी । वेपथुः=कम्पनम्, वर्धते, अत इति अध्याहारः ; मृगाक्ष्याः= हरिणनेत्रायाः, अस्याः = भानुमत्याः, सुचिरम्=बहुकालम्, अवयवैः = अङ्गैः, दत्तहस्ता = कृतसाहाय्या, वात्या = वायुसमूहः, खेदम् = दुःखं, करोति=सम्पादयति । अवयवानां साहाय्येन वायुः अधिकं परितापयतीत्यर्थः । अत्र चतुर्थपदार्थे पादत्रय- वाक्यार्थं हेतव इति वाक्यार्थगतकाव्यलिङ्गमलङ्कारः स्रग्धराछन्दः ॥ अनास्तीर्णम् = वस्त्रेण अनाच्छन्नम् । अध्यास्ते = उपविशति, किमिति प्रश्ने । थोड़ी सी धूल नेत्रों की विशालता के कारण महान् दुःख दे रही है। थोड़ा भी कम्प पीवर पयोधरों ( स्तन ) के भार से दबे हुए हृदयप्रदेश को जिसपर से हार पृथक् कर दिया गया है, कष्ट दे रहा है। थोड़ा भी गमन करने पर स्थूलजघनों के भार से इनकी जाँघों में प्रकम्प बढ़ रहा है। झन्झावात इन्हीं हरिणाक्षी के अङ्गों से सहायता प्राप्त करके इन्हें ही अधिक समय तक खिन्न कर रहा है ॥ २२ ॥ ( सब बैठ जाते हैं ) राजा—तो क्यों, श्रीमती बिना आसन के इस कठोर पत्थर की चट्टान पर बैठी हुई हैं ! क्योंकि—
लोलांशुकस्य पवनाकुलितांशुकांतं त्वद्दृष्टिहारि मम लोचनबान्धवस्य । अध्यासितुं तव चिरं जघनस्थलस्य पर्याप्तमेव करभोरु ममोरुयुग्मम् ॥ २३ ॥ ( प्रविश्य पटाक्षेपेण सम्भ्रान्तः । ) कञ्चुकी—देव, भग्नं भग्नम् । ( सर्वे साकूतं पश्यन्ति । ) राजा—केन ? अन्वयः—( हे ) करभोरु, तव लीलांशुकस्य, मम, लोचनबान्धवस्य, जघन- स्थलस्य, अध्यासितुम्, ( मम.), पवनाकुलितांशुकांतम्, त्वद्दृष्टिहारि, ऊरुयुग्मम्, चिरम्, पर्याप्तम्, एव ॥ २३ ॥ ममोरुयुगलमेव तवासनमित्याह—लोलांशुकस्येति । करभोरु = करभ इव ऊरू यस्याः सा, तत्सम्बोधने ‘करभो मणिबन्धादिकनिष्ठान्तोष्टृतत्सुते’ इति, मेदिनी । तव, लोलांशुकस्य = चञ्चलवस्त्रस्य, मम = दुर्योधनस्य, लोचनबान्धवस्य = नेत्रबन्धोः, ममेयस्य लोचनेऽन्वयः, अत्रैकदेशान्वयोऽपि साधुरेव अभेदान्वयस्थल एवासाधुत्वस्य प्रतिपादनात् । जघनस्थलस्य अध्यासितुम् = आश्रयितुम् मम, पवनाकुलितांशुकांतं = पवनेन वायुना आकुलितम् अंशुकांतम् वस्त्रान्तम् यस्मिन् तव, त्वद्दृष्टिहारि = तव नेत्रहरणशीलम्, ऊरुयुग्मम् चिरम् = चिराय, पर्याप्तं = समर्थम्, एवेत्यवधारणे । अत्र योग्ययोः संघटनावशात् समालङ्कारः । वसन्ततिलकाछन्दः ॥ सम्भ्रान्तः = उद्विग्नः । भग्नं भग्नमिति—यद्यपीदं रथकेतनान्ययित्वेन विवक्षितं तथापि पूर्वप्रकृतस्य जघनस्यान्वयसम्भवात् भाविनो भीमकृतदुर्योधनभङ्गस्य छलेन सूचनम् । हे करभोरु, हवा के झकोरे से आपके जघनस्थलों पर से वस्त्र उड़ रहा है । यह मेरे नेत्रों के लिए परम आनन्दप्रद है इनके चिरकाल तक विश्राम पाने के लिए मेरे जघनस्थल, जो तुम्हारे नेत्रों के लिए आकर्षक तथा वायु के झोकों से वस्त्ररहित हो रहे हैं, पर्याप्त हैं ॥ २३ ॥ ( व्याकुल कञ्चुकी का परदा हटाकर प्रवेश ) कञ्चुकी—महाराज, टूट गया ! टूट गया !! ( सब आश्चर्यचकित होकर देख रहे हैं ) राजा—किसके द्वारा ?
द्वितीयोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् ८१
कञ्चुकी—भीमेन ।
राजा — कस्य ।
कञ्चुकी — भवतः ।
राजा—आः, किं प्रलपसि ।
भानुमती—अज्ज, किं अणिट्ठं मन्तेसि । ( आर्य, किमनिष्टं मन्त्रयसे । )
राजा—धिक्प्रलापिन्, वृद्धापसद, कोऽयमद्य ते व्यामोहः ।
कञ्चुकी—देव, न खलु कश्चिद्व्यामोहः । सत्यमेव ब्रवीमि ।
भग्नं भीमेन भवतो मरुता रथकेतनम् ।
पतितं किङ्किणीक्वाणवद्धाक्रन्दमिव क्षितौ ॥ २४ ॥
आः इति खेदे, किं प्रलपसि = किमर्थकं ब्रवीषि ।
आर्य = कञ्चुकिन् । अनिष्टम् = अशुभकारकम्, मन्त्रयसे = चिन्तयसि ।
अन्वयः—भीमेन, मरुता, भवतः, रथकेतनम्, भग्नम्, क्षितौ, किङ्किणीक्वाण-
वद्धाक्रन्दम्, इव, पतितम् ॥ २४ ॥
किं भग्नमित्याह—भग्नं भीमेनेति । भीमेन = भयावहेन पक्षे भीमसेनेन, मरु-
ता = वायुना पक्षे मरुद्रूपेण, मरुद्रूपत्वञ्च भीमसेनस्य 'आत्मा वै जायते पुत्र' इति
न्यायात् । भवतः = तव, रथकेतनम् = स्यन्दनध्वजम्, भग्नं = छिन्नम्, क्षितौ = भूमौ,
किङ्किणीक्वाणवद्धाक्रन्दमिव = किङ्किणी क्षुद्रघण्टिका तस्याः क्वाणेन कारणभूतेन
आबद्धः कृतः आक्रन्दः येन तद्वत् पतितम् = अध आयनम् । अनेन भीमसेनकर्तृक-
दुर्योधनोरुभङ्गो भावीति सूचितम् । पथ्यावक्त्रं छन्दः ॥ २४ ॥
कञ्चुकी—महाराज, भीम के द्वारा ।
राजा—किसका ?
कञ्चुकी—आप का ।
राजा—अरे ! क्या बक बक कर रहे हो ?
भानुमती—आर्य, क्या अनर्थ मुख से निकाल रहे है ?
राजा—व्यर्थ बकवादी, नीच बुड्ढा, यह आज क्या हो गया है ?
कञ्चुकी—महाराज, मुझे कुछ नहीं हुआ है । मैं सत्य ही भाषण कर रहा हूँ ।
भयङ्कर वायु के द्वारा आपके रथ की ध्वजा टूट कर घुँघुरुओं की झनकार रूप में रोदन
करती हुई वसुन्धरा ( भूमि ) पर शयन कर रही है ॥ २४ ॥
६ वे०
८२ वेणीसंहारं नाटकं 〰〰〰〰〰〰〰〰〰〰〰〰〰〰〰〰〰〰〰〰〰〰〰
राजा—बलवत्समीरणवेगात्कम्पिते भुवने भग्नः स्यन्दनकेतुः । तत्कि- मित्यद्धतं प्रलपसि भग्नं भग्नमिति । कञ्चुकी—देव, न किञ्चित् । किन्तु शमनार्थमस्यानिमित्तस्य विज्ञाप- यितव्यो देव इति स्वामिभक्तिर्मा मुखरयति । भानुमती—अज्जउत्त, अन्तुरीअदु एदं पसण्णब्रह्मणवेअघोसेण । ( आर्यपुत्र, अन्तर्यतामेतत्प्रसन्नब्राह्मणवेदघोषेण । ) राजा - ( सावज्ञम् ।) ननु गच्छ । पुरोहितसुमित्राय निवेदय । कञ्चुकी—यदाज्ञापयति देवः । ( इति निष्क्रान्तः । ) ( प्रविश्य ) प्रतीहारी--( सोद्वेगमुपसृत्य । ) जअदि जअदि महाराओ । महाराज,
बलवत्समीरणवेगात् = ऊर्जितवायुप्रवाहात्, कम्पिते, भुवने = जगति, यदि भग्नः = छिन्नः, स्यन्दनकेतुः = रथध्वजम्, तत्, किमिति=कस्माद्धेतोः, उद्धतम्= उत्कटम्, इदं प्रलापक्रियाविशेषणम् , भग्न भग्नमिति प्रलपसीत्यन्वयः । अस्य = केतनभङ्गरूपस्य, अनिमित्तस्य = अनिष्टसूचकस्य, शमनार्थ=शान्त्यर्थम्, देवः = भवान् , विज्ञापयितव्यः=बोधयितव्य इति हेतोः माम् , स्वामिभक्तिः, मुखर- यति = वाचालं करोतीत्यन्वयः । अन्तर्यताम्=व्यवहितं क्रियताम् विनाश्यतामित्यर्थः । सुमित्रेति—सुमित्रनामा याजकः । उपसृत्य = समीपं गत्वा । सेवकस्य महाराजजयकरणं सम्प्रदायः । सिन्धुराज-
राजा—यदि भीषण वायु के वेग से समस्त विश्व प्रकम्पित हो उठा तो रथ की पताका किस गणना में है ! फिर अनाप्-शनाप् 'टूट गया, टूट गया' क्यों कह रहे हो । कञ्चुकी—नहीं महाराज, कुछ नहीं किन्तु 'इस अपशकुन की शान्ति के लिए महाराज को सूचित करना ही चाहिए' इस प्रकार की स्वामिभक्ति मुझे बाध्य कर रही है । भानुमती—महाराज ! इस अमङ्गल की शान्ति सन्तुष्ट ब्राह्मणों की वेदध्वनि तथा हवनादि क्रिया द्वारा कीजिए । राजा—अजी, जा पुरोधा सुमित्र को सूचना दे आ । कञ्चुकी—अच्छा महाराज की जो आज्ञा । ( चला जाता है ) प्रतीहारी—[ अन्तःपुर की द्वारपालिका ] ( प्रवेश कर घबराई हुई समीप में जाकर )
द्वितीयोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् ८३ महादेवी क्खु एसा सिन्धुराजमादा दुस्सला अ पडिहारभूमाए चिट्ठदि । ( जयति जयति महाराजः । महाराज, महादेवी खल्वेषा सिन्धुराजमाता दुःशला च प्रतीहारभूमौ तिष्ठति । ) राजा — ( किञ्चिद्विचिन्त्यात्मगतम् । ) किं जयद्रथमाता दुःशला चेति । कच्चिदभिमन्युवधामर्षितैः पाण्डुपुत्रैर्न किञ्चिदत्याहितमाचेष्टितं भवेत् । ( प्रकाशम् ) गच्छ । प्रवेशय शीघ्रम् । प्रतीहारी — जं देवो आणवेदि । [यद्देव आज्ञापयति ।] (इति निष्क्रान्ता ।) ( ततः प्रविशति सम्भ्रान्ता जयद्रथमाता दुःशला च । ) ( उभे सास्रं दुर्योधनस्य पादयोः पततः । ) माता-परित्ताअदु परित्ताअदु कुमालो । (परित्रायतां परित्रायतां कुमारः ।) ( दुःशला रोदिति । ) राजा — ( ससम्भ्रममुत्थाप्य । ) अम्ब, समाश्वसिहि समाश्वसिहि । माता = सिन्धुराजस्य जयद्रथस्य माता जननी । दुःशला = दुर्योधनस्य स्वसा जय- द्रथस्य पत्नी । प्रतीहारभूमौ = द्वारे । अभिमन्युवधमर्षितैः = अभिमन्युघातेन क्रुद्धैः, पाण्डुपुत्रैः = पाण्डवैः, किञ्चिद्, अत्याहितम् = अनर्थः । आचेष्टितं = कृतम्, भवेत्, न कच्चिदित्यन्वयः । कच्चिच्छब्दः कामप्रवेदने । सम्भ्रान्ता = उद्विग्ना । सास्रम् = अश्रुष्णा सहितम्, वाष्पपरिपूरितनेत्रमित्यर्थः । अर्जुनकृतप्रतिज्ञाभयाद्भीते उभे आहतुः = परित्रायतामिति । ससम्भ्रमम् = सोद्वेगम् । समाश्वसिहि = समाश्वसनं कुरु । किमत्यहितम् = का विजय, विजय, महाराज की । यह सिन्धुराज जयद्रथ की माता और आपकी भगिनी दुःशला द्वारप्रदेश ( फाटक ) पर खड़ी हैं ? राजा—( कुछ विचार कर मन ही मन ) क्या ! जयद्रथ की माता और दुःशला ? अभिमन्यु के वध से क्रुद्ध होकर पाण्डवों ने कोई अनिष्ट करना तो नहीं सोचा है ( प्रकट ) जाओ, शीघ्र ही बुला लाओ । प्रतीहारी—अच्छा, महाराज की आज्ञा शिरोधार्य ( चली जाती है ) । ( इसके अनन्तर जयद्रथ की माता और पत्नी दुःशला व्याकुलाहट के साथ प्रवेश करती हैं ) । ( दोनों टबटबाये हुए नेत्रों से दुर्योधन के चरणों पर गिर पड़ती हैं ) । माता—रक्षा कीजिए, रक्षा कीजिए । कौरवनरेश ? दुःशला—( रोती है ) राजा—( व्याकुलाहट के साथ उठा कर ) माता, धैर्य धारण करें, धैर्य धारण करें, कोई
८४ ; वेणीसंहारं नाटकं किम्त्याहितम् । अपि कुशलं समराङ्गणेष्वप्रतिरथस्य जयद्रथस्य । माता — जाद, कुदा कुसलम् । ( जात, कुतः कुशलम् । ) राजा—कथमिव । माता—( साशङ्कम् । ) अज्ज क्खु पुत्तवहामरिसिदेण गण्डीविणा अगत्थम्मिदे दिवहणाहे तस्स वहो पडिण्णादो । ( अद्य खलु पुत्रवधामर्षितेन गाण्डीविनाऽनस्तमिते दिवसनाथे तस्य वधः प्रतिज्ञातः । ) राजा—( सस्मितम् । ) इदं तदस्रकारणमम्बाया दुःशलायाश्च । पुत्रशो- कादुत्तप्तस्य किरीटिनः प्रलपितैरेवमवस्था । अहो मुग्धत्वमबलानां नाम । अम्ब, कृतं विषादेन । वत्से दुःशले, अलमश्रुपातेन । कुतश्चायं तस्य धन- ञ्जयस्य प्रभावो दुर्योधनबाहुपरिघरक्षितस्य महारथजयद्रथस्य विपत्ति- भीतिः । समराङ्गणेषु = सङ्ग्रामभूमिषु, अप्रतिरथस्य = अविद्यमानप्रतिपक्षस्यन्दनस्य, जयद्रथस्य = सिन्धुराजस्य, कुशलम्, अपि=किम्, अपिशब्दः प्रश्ने । जातेति—पुत्रस्य पुत्रसदृशस्य च सम्बोधनार्थं जात इति प्रयुज्यते । पुत्रवधामर्षितेन = सुतवधक्रुद्धेन, गाण्डीविना = अर्जुनेन, अनस्तमिते = अस्तम- प्राप्ते, दिवसनाथे = सूर्ये, तस्य=जयद्रथस्य, वधः, प्रतिज्ञातः । सस्मितम् = ईषद्धासेन सहितम्, अम्बायाः = जयद्रथमातुः, दुःशलायाः = स्वस्वसुः, च. अस्रकारणम् = अश्रुहेतुः, 'रोदनं चास्रमश्रु च' इत्यमरः । इदं तत् । पुत्र, शोकात्, उत्तप्तस्य=दुःखितस्य, किरीटिनः=अर्जुनस्य, प्रलपितैः=प्रलापैः, भावे क्तप्रत्ययः । एवम्, अवस्था । अबलानाम् = स्त्रीणाम्, मुग्धत्वम् = मोहः, 'अहो इति विस्मये । अश्रुपातेन = रोदनेन, अलम् = व्यर्थम्, 'वासरूपन्यायेन' क्त्वाऽभावपक्षे असंयोगे सत्यपि ल्युट् प्रत्ययः । दुर्योधनबाहुपरिघरक्षितस्य = दुर्योधनस्य बाहु- विघ्न तो नहीं, रणस्थली के बीच अद्वितीय वीर जयद्रथ का कुशल तो है न ! माता—वत्स, कुशल कहाँ ? राजा—किस प्रकार ? माता—आज पुत्रवध से क्रुद्ध होकर गाण्डीवधारी अर्जुनने सूर्यास्त से पहले उसके वध की प्रतिज्ञा की है । राजा—( मुस्कान के साथ मन ही मन ) यही माता और दुःशला के अश्रुपात का कारण है । पुत्र-शोक से विह्वल अर्जुन के प्रलापों से यह अवस्था है । स्त्रियां कैसी भोली- भाली होती हैं ! ( प्रकट ) माता, शोक करने की कोई आवश्यकता नहीं । चिरंजीविनि दुःशले ! पर्याप्त अश्रुपात हो चुका । इस अर्जुन में कहाँ सामर्थ्य है कि वह दुर्योधन की
द्वितीयोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् ८५ मुत्पादयितुम् । माता—जाद जाद, दे हि पुत्तवन्धुवहारमरि सुद्दीविदकोवाणला अण- पेक्खिदसरीरा वीरा परिक्कामन्ति । ( जात, जात, ते हि पुत्रबन्धुवधामर्षोद्दी- पितकोपानला अनपेक्षितशरीरा वीराः परिक्रामन्ति । ) राजा—( सोपहासम् ) एवमेतत् । सर्वजनप्रसिद्धैवार्मषिता पाण्डवा- नाम् । पश्य— हस्ताकृष्टविलोकेशवसना दुःशासनेनाज्ञया पाञ्चाली मम राजचक्रपुरतो गौर्गौरिति व्याहृता । परिघ इव तेन रक्षितस्य पालितस्य, महारथस्य— एको दशसहस्राणि यो योधयति धन्विनाम् । शस्त्रशास्त्रप्रवीणश्च विज्ञेयः स महारथः ॥ इति लक्षणलक्षितस्य, एतेन जयद्रथस्य अप्राभवः सूचितः । पाण्डवानाम्, सर्वजनप्रसिद्धा = अखिललोकवेद्या, एव अमर्षिता = क्रोधः । अन्वयः—मम, आज्ञया, दुःशासनेन, हस्ताकृष्टविलोकेशवसना, पाञ्चाली राजचक्रसमितौ, गौर्गौः, इति, व्याहृता, तस्मिन्, एव, सः, गाण्डिवधरः पृथा- नन्दनः, किमु, नु, न, आसीत्, तत्, क्षत्रियवंशजस्य, कृतिनः, यूनः, क्रोधास्पदम्, किम्, न ॥ २५ ॥ क्रोधे सत्यपि पाण्डवानां कार्यकारणाभावमाह—हस्ताकृष्टविलोलेति । मम = दुर्योधनस्य, आज्ञया, दुःशासनेन = मदीयानुजेन, हस्ताकृष्टविलोकेशवसना = हस्तेन करणभूतेन आकृष्टे विलोलः चञ्चलः केशः वसनं वस्त्रं च यस्याः सा पाञ्चाली = पाञ्चालराजनया, राजचक्रसमितौ = राजसमूहसभायाम्, एतेन राज्ञां सविधे न तु एकान्ते इति सूचितम् । गौर्गौः इति, व्याहृता = व्याहारिता, वाचितेत्यर्थः । राज- सभागतानां राजपत्नीनाम्, गौर्गौः, इति कथनम् अत्यन्तापमानसूचकं भवति, इति परिघाकार ( लोहा मढी हुई लाठी के समान ) भुजा से रक्षित महारथी जयद्रथ को विपत्ति में टाल सके । माता—वत्स, क्योंकि कुटुम्बियों के वध से क्रुद्ध होकर पाण्डववीर अपने प्राणों की अपेक्षा न करके इधर-उधर घूम रहे हैं । राजा—( उपहास करते हुए ) ठीक है पाण्डवों की असहिष्णुता को सभी लोग जानते हैं ? देखिए— मेरो आज्ञा से दुःशासन के हाथों से केश और वस्त्रों के खींचे जाने पर द्रौपदी माण्डलिक राजाओं से पूर्ण सभा में अपने को गाय गाय कहकर चिल्लाई । अर्थात् 'मैं गाय हूँ मेरी रक्षा
८६ वेणीसंहारं नाटकं उँ तस्मिन्नेव स किं नु गाण्डिवधरो नासीत्पृथानन्दनो यूनः क्षत्रियवंशजस्य कृतिनः क्रोधास्पदं किं न तत् ॥ २५ ॥ माता—असमत्तपडिण्णाभारस्स अप्पवहो से पडिण्णादो। (असमाप्त- प्रतिज्ञाभारेणात्मवधस्तेन प्रतिज्ञातः । ) राजा—यद्येवमलमानन्दस्थानेऽपि ते विषादेन । ननु वक्तव्यमुत्सन्न- सानुजो युधिष्ठिर इति । अन्यच्च मातः, का शक्तिरस्ति धनञ्जयस्यान्यस्य वा कुरुशतपरिवारवर्धितमहिम्नः कृपकर्णद्रोणाश्वत्थामादिमहारथपराक्रम- सम्प्रदायः । अह गोसदृशी अतः त्वया अवगताऽहमित्यभिप्रायः, तस्मिन्नेव = व्याह- रणसमय एव, स = प्रसिद्धः, गाण्डिवधरः = धनुर्धारी, पृथानन्दनः = अर्जुनः, किंनु, न, आसीत् किन्तु आसीदेवेत्यर्थः । तत् = व्याहरणम्, क्षत्रियवंशस्य = राजन्यकुलो- त्पन्नस्य, कृतिनः = प्रवीणस्य, यूनः = युवत्वमापन्नस्य, एतेन तत्र अतीवक्रोधः कर्तव्य इति सूचितम् । क्रोधास्पदम् = कोपस्थानम्, किं न क्रोधास्पदमेवेत्यर्थः । तस्मिन् काले कोपाभावे साम्प्रतं कोपाभाव एव युक्त इत्यभिप्रायः । शार्दूलविक्रीडित छन्दः ॥ २५ ॥ असमाप्तप्रतिज्ञाभारेण = असमाप्तः प्रतिज्ञाभारः येन तेन अनस्तमिते सूर्ये जय- द्रथस्य वधाभावे इत्यर्थः । आत्मवधः = निजमरणम्, प्रतिज्ञातः । यदि, एवं = जयद्रथवधे स्ववधप्रतिज्ञायां सत्याम्, आनन्दस्थानेऽपि विषादेन = दुःखेन, अलम् = व्यर्थम्, ते = तव । अत्र हर्ष एव कर्तव्य इत्यर्थः । सानुजो, युधि- ष्ठिरः, उत्सन्नः = मृतः, इति, ननु = निश्चयेन, वक्तव्यमित्यन्वयः । अर्जुनवधे युधिष्ठि- कीजिए' इस प्रकार से करुण पुकार लगाई । उस क्षण क्या गाण्डीवधारी पृथापुत्र ( अर्जुन ) वहाँ उपस्थित नहीं थे ? सर्वशक्तिसम्पन्न प्रौढ़ावस्था को प्राप्त क्षत्रियकुमार के लिए वह दशा रोषास्पद नहीं थी क्या ? ॥ २५ ॥ माता—प्रतिज्ञा पूर्ण करने में असमर्थ होने पर उन्होंने ( अर्जुन ) अपने ही वध की प्रतिज्ञा की है । राजा—यदि यह बात है तो प्रसन्नता के अवसर में भी आपका सन्ताप करना व्यर्थ है । किन्तु अब तो यह स्पष्ट कहना चाहिए कि—'युधिष्ठिर भाइयों के साथ विनष्ट हो गये' । अम्ब, इसके अतिरिक्त अर्जुन अथवा किसी दूसरे की क्या सामर्थ्य है कि वे सौ भाई कौरवों के साथ-साथ रहने के कारण अधिक पराक्रमशाली तथा कृपाचार्य, द्रोणाचार्य और अश्वत्थामा इत्यादि महारथियों के पराक्रम से द्विगुणित बलशाली आपके पुत्र जयद्रथ का केवल नाम ले सकें अर्थात् मेरे सौ भाइयों के रहते हुए तथा कृप, द्रोण और अश्वत्थामा ऐसे वीरों से
द्वितीयोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् ८७ द्विगुणीकृतनिरावरणविक्रमस्य नामाऽपि ग्रहीतुं ते तनयस्य । अयि सुत- पराक्रमानभिज्ञे ! धर्मात्मजं प्रति यमौ च कथैव नास्ति मध्ये वृकोदरकिरीटभृतोर्बलेन । एकोऽपि विस्फुरितमण्डलचापचक्रं कः सिन्धुराजमभिषेणयितुं समर्थः ॥ २६ ॥ भानुमती-अज्ज उत्त, जह्वि एव्वं तहवि गुरुकिदपडिण्णाभारोद्वाणं वखु सङ्घाए (आर्यपुत्र, यद्यप्येवं तथापि गुरुकृतप्रतिज्ञाभारः स्थानं खलु शङ्कायाः) रोऽपि जीवितुं न शक्नोति तथा च भीमादयाऽपीति भावः । निरावरणः = निर्गतमा- वरणं यम्मात्सः, अप्रतिहत इत्यर्थः । अन्वयः—धर्मात्मजम्, यमौ, च, प्रति, कथा, एव, न अस्ति, वृकोदरकिरीट- भृतोः, मध्ये एकः, अपि, कः, बलेन, विस्फुरितमण्डलचापचक्रम्, सिन्धुराजम् , अभिषेणयितुम्, समर्थः ॥ २६ ॥ सुतपराक्रममेवाह—धर्मात्मजमिति । धर्मात्मज=युधिष्ठिरम् , यमौ=यमलजातौ, नकुलसहदेवावित्यर्थः, च प्रति, कथा=कथनम् एव, नास्ति, एते जयद्रथस्य न किमपि कर्तुं शक्नुवन्तीति भावः । वृकोदरकिरीटभृतोः=भीमार्जुनयोः, मध्ये, एकोऽपि कः, बलेन=ऊर्जितेन, विस्फुरितमण्डलचापचक्रम् = विस्फुरितं कृतं मण्डल मण्डलाकारं चापचक्रं धनुश्चक्रं येन तम्, सिन्धुराजम् = जयद्रथम्, अभिषेणयितु = सेनयाऽभियातुम् अभिमुखं योधयितुमित्यर्थः । समर्थः, न कोऽपीत्यर्थः । एतेन जयद्रथस्य पाण्डवेभ्यो बलवत्त्वं सूचितमिति भावः । वसन्ततिलका छन्दः ॥ २६ ॥ यद्यपि एवम् = पाण्डवेभ्यः जयद्रथो बलवान् , तथापि गुरुकृतप्रतिज्ञाभारः = और अधिक पराक्रमी जयद्रथ का नाम तक कोई नहीं उच्चारण कर सकता उससे संग्राम करना तो दूर रहा । अयि तू अपने पुत्र के बल-पौरुष से अपरिचित !— युधिष्ठिर तथा माद्रीपुत्र [ नकुल और सहदेव ] के विषय में कोई बात ही नहीं अर्थात् वे लोग युद्ध कला जानते ही नहीं । भीम और किरीटी [ अर्जुन ] के बीच में कौन ऐसा है जो अत्यन्त शीघ्र गति से सञ्चालन करने हुए धनुष को चक्राकार बनाने वाले सिन्धुराज जयद्रथ के साथ संग्राम में ठहर सकता है और पाण्डवों में कोई भी ऐसा वीर नहीं है जो जयद्रथ के सम्मुख युद्ध करे ॥ २६ ॥ भानुमती - आर्यपुत्र, यह सत्य है तथापि अर्जुन ने भीषण प्रतिज्ञा की है—यही शंका का कारण है । ।'
८८ वेणीसंहार नाटकं
माता—जाद साहु, कालोइदं भणिअं भाणुमदीए । ( जात, साधु, कालो-
चितं भणितं भानुमत्या । )
राजा—आः ममापि नाम दुर्योधनस्य शङ्कास्थानं पाण्डवाः । पश्य—
कोदण्डज्याकिणाङ्कैरगणितरिपुभिः कङ्कटोन्मुक्तदेह्रैः
श्लिष्टान्योन्यातपत्रैः सितकमलवनभ्रान्तिमुत्पादयद्भिः ।
रेणुग्रस्तार्कभासां प्रचलदसिलतादन्तुराणां बलाना-
माक्रान्ता भ्रातृभिर्मे दिशि दिशि समरे कोटयः सम्पतन्ति ॥
महता कृतेः प्रतिज्ञाभारः, शङ्कायाः = सन्देहस्य, स्थानम् = आस्पदम् । खलु इति
वाक्यालङ्कारे ।
कालोचितम् = समयानुरूपम् ।
अन्वयः —कोदण्डज्याकिणाङ्कः, अगणितरिपुभिः कङ्कटोन्मुक्तदेह्रैः, श्लिष्टान्यो-
न्यातपत्रैः, सितकमलवनभ्रान्तिम्, उत्पादयद्भिः, मे, भ्रातृभिः, रेणुग्रस्तार्कभासाम्,
प्रचलदसिलतादन्तुराणाम्, बलानाम्, कोटयः, आक्रान्ताः, दिशि दिशि, समरे
सम्पतन्ति ॥ २७ ॥
कोदण्डज्याकिणाङ्कैः = कोदण्डस्य धनुषः ज्यायाः किण. व्रणजः अङ्कः चिह्नं
येषां तैः, अगणितरिपुभिः = अवहेलितशत्रुभिः, कङ्कटोन्मुक्तदेहैः = कङ्कटेन कवचेन
उन्मुक्तः त्यक्तः देहो येषां ते, कवचधारिभिरित्यर्थः । एतेन अधिकबलवत्त्वं सूचि-
तम् । श्लिष्टान्योन्यातपत्रैः = मिलितपरस्परच्छत्रैः 'छत्रं त्वातपपत्रमित्यमरः । सित-
कमलवनभ्रान्तिम् = श्वेतपद्मवनस्य भ्रमम् , उत्पादयद्भिः = जनयद्भिः कमलवनस्य
भ्रमो जात इत्युत्प्रेक्ष्यते कविनेति भावः । मे=मम, भ्रातृभिः=अनुजैः, रेणुग्रस्तार्क-
भासाम् - रेणुभिः ग्रस्ता अर्कभाः ये. तेषाम्, प्रचलदासलतादन्तुराणाम् = प्रचलन्ती
गच्छन्ती या असिलता लता इव खड्गः तया दन्तुराणाम् निम्नोन्नतानाम् , वला-
नाम् = सेनानाम् , कोटयः = सख्याविशेषाः, आक्रान्ताः = व्याप्ताः, दिशि दिशि =
माता—पुत्र, भानुमती ने अच्छा और समयोचित उपदेश दिया ।
राजा—अरे, क्या मुझ दुर्योधन के लिये पाण्डवों से आशङ्का ? देखिये—
धनुष की प्रत्यञ्चा के संघर्षण के चिह्न से युक्त, शत्रुओं को तुच्छ समझकर अपने-अपने
शरीर पर से कवच को दूर हटाकर फेंक देने वाले तथा अपने-अपने श्वेतच्छत्रों के परस्पर
सम्पर्क के कारण श्वेत कमल के वन की आशङ्का उत्पन्न कराते हुए मेरे भाइयों से युक्त सेनायें,
जिसकी धूलि से सूर्य की किरणें आच्छन्न हो जाती हैं तथा खड्गरूपी लताओं के नीचे ऊपर
जाने से औन्नत्य में विषमता प्राप्त कर लेती हैं, रणस्थल में करोड़ों की संख्या में सर्वत्र टूट
पड़ रही हैं ॥ २७ ॥
द्वितीयोऽङ्कः ] ' प्रबोधिनी-प्रकाश-द्वयोपेतम् ८९ अपिच भानुमति, विज्ञातपाण्डवप्रभावे, किन्त्वमप्येवमाशङ्कसे, पश्य- दुःशासनस्य हृदयक्षतजाम्बुपाने दुर्योधनस्य च यथा गदयोरुभङ्गः । तेजस्विनां समरमूर्धनि पाण्डवानां ज्ञेया जयद्रथवधेऽपि तथा प्रतिज्ञा ॥२८॥ कः कोऽत्र भोः जैत्रं मे रथमुपकल्पय तावन् । यावदहमपि तस्य प्रगल्भस्य पाण्डवस्य जयद्रथपरिरक्षणेनैव मिथ्याप्रतिज्ञावैलक्ष्यसम्पादितम- शस्त्रपूतं मरणमुपदिशामि । ( प्रविश्य ) प्रतिदिशम्, समरे = सङ्ग्रामे सम्भ्रमन्ति = सम्यग् भूमौ गच्छन्ति । मम भ्रातृणां प्रभावात् पाण्डवस्य विजयो न सम्भवतीति भावः । स्रग्धरा छन्दः ॥ २७ ॥ विज्ञातपाण्डवप्रभावे - विज्ञातः पाण्डवानां प्रभावः यथा तत्सम्बोधने । अन्वयः - दुःशासनस्य, हृदयक्षतजाम्बुपाने, दुर्योधनस्य, गदया, ऊरुभङ्गे च, समरमूर्द्धनि, तेजस्विनाम्, पाण्डवानाम्, यथा प्रतिज्ञा ( निष्फला ) तथा, जयद्रथवधे, अपि, ज्ञेया ॥ २८ ॥ पाण्डवानां प्रतिज्ञापूर्त्यभावं दर्शयति - दुःशासनस्येति । दुःशासनस्य = मदनु- जस्य, हृदयक्षतजाम्बुपाने = हृदयस्य क्षतजं रुधिरं तदेव अम्बु जलं तस्य पाने, दुर्योधनस्य, गदया = प्रहारकौशलविशेषेण, ऊरुभङ्गः = जघनभङ्गः, च, समरमूर्धनि = प्रधानसङ्ग्रामे, तेजस्विनाम् = पराक्रमिणाम् तेजस्विनामिति काक्वोच्यते, अतेज- स्विनामिति भावः । पाण्डवानां, यथा, प्रतिज्ञा निष्फलेति शेषः । तथा जयद्रथवधे = सिन्धुराजविनाशे, अपि, प्रतिज्ञा विफला, ज्ञेया = बोध्या एषामप्रतिज्ञेत्यमेव विफला भवति, अपि इयमपि प्रतिज्ञा विफलैव स्यादिति भावः । वसन्ततिलका छन्दः ॥२८॥ जैत्रम् = जयनशीलम् । उपकल्पय = उत्पादय । प्रगल्भस्य = धृष्टस्य । मिथ्या- प्रतिज्ञावैलक्ष्यसम्पादितम् = मृषाभूतप्रतिज्ञया यद् वैलक्ष्यम् लज्जा तेन सम्पादितम् = कृतम्, अशस्त्रपूत = शस्त्रेण न पूतम् अप्रशस्त्यमित्यर्था इतिवत्समासः, क्षत्रियाणां शस्त्रेण अयि भानुमति, आपको तो पाण्डवों की शक्ति विदित है क्या आपको भी इस प्रकार की आशङ्का होती है ? देखिए- युद्ध में दुःशासन का हृदय विदीर्ण करके रुधिरपान करने के विषय में तथा मुझ दुर्योधन की जाँघों को गदा से तोड़ डालने के विषय में की गई परम प्रतापशाली पाण्डवों की प्रतिज्ञा जैसी थी वैसी ही जयद्रथवध-विषयीणी प्रतिज्ञा भी समझनी चाहिए अर्थात् पाण्डवों की दुःशा- सन के रक्तपान की तथा गदा द्वारा मुझ दुर्योधन के ऊरुभग्न करने की प्रतिज्ञा अब तक पूर्ण नहीं हो पाई। वहीं दशा जयद्रथ-वध की प्रतिज्ञा की भी होगी ॥ २८ ॥ अरे यहाँ कोई है, मेरे विजयशील रथ को तय्यार करो। मैं भी जयद्रथ की रक्षा करके उस मिथ्याप्रतिज्ञाभिमानी अर्जुन के उस मरण में, जो प्रतिज्ञा के असफल होने के कारण शस्त्र- परित्यागपूर्वक होगा, सहायक बनूँ ( प्रवेश कर ) ।
९० वेणीसंहारं नाटकं कञ्चुकी--देव, उद्घातक्वणितऽलोल्हेमघण्टः प्रालम्बद्विगुणितचामरप्रहासः । सज्जोऽयं नियमितवल्गिताकुलाश्वः शत्रूणां क्षपितमनोरथो रथस्ते ॥२९॥ राजा—देवि, प्रविश त्वमभ्यन्तरमेव । ( 'यावदहमपि तस्य प्रगल्भस्य पाण्डवस्य'—इत्यादि पठन् परिक्रामति । ) [ इति निष्क्रान्ताः सर्वे । ] इति द्वितीयोऽङ्कः । मरणं पावन्नमिति ख्यात तथा चार्जुनस्य प्रतिज्ञापूर्त्यभावे आत्मघातेन शस्त्रेणामरणात अशस्त्रपूतो मृत्युर्भविष्यतीति भावः । अन्वयः—उद्घातक्वणितविलोल्हेमघण्टः, प्रालम्बद्विगुणितचामरप्रहासः, निय- मितवल्गिताकुलाश्वः, शत्रूणाम्, क्षपितमनोरथः, ते अयम्, रथः, सज्जः (अस्ति) ॥ उद्घातक्वणितविलोल्हेमघण्टः=उद्घातेनाहननेन या क्वणिता शब्दं कुर्वती विलोल्हेमघण्टा यस्मिन् सः, इद सर्वं रथस्य विशेषणम् । प्रालम्बद्विगुणितचामर- प्रहासः = प्रालम्बः प्रकर्षेण आलम्बमानः द्विगुणितः द्विधा बद्धः यः चामरः तस्य प्रहासः शौक्ल्यम् यस्मिन्, सः, नियमितवल्गिताकुलाश्वः=नियमिताः प्रग्रहेण बद्धाः वल्गिताः गतिविशेषविशिष्टा अत एव आकुलिता अश्वा यत्र सः, शत्रूणाम्=रिपूणाम्, क्षपितमनोरथः = क्षपितः विनाशितः आच्छादित इत्यर्थः । मनोरथः येन सः, अयम, रथः, ते = तव, सज्जः=सन्नद्धः, अस्तीति शेषः । प्रहर्षिणी छन्दः । त्र्याशाभिर्मन- जरगा प्रहर्षिणेयमिति लक्षणात् ॥ २९ ॥ इति प्रबोधिनीव्याख्यां द्वितीयोऽङ्कः । कञ्चुकी—महाराज ! यह आपका विजयी रथ जिसमें बँधे हुए सुवर्ण के घुँघरू आघात लगने से झङ्कृत हो रहे हैं जो दोनों ओर से झले जाते हुए चामरों से विभूषित तथा जिसमें जुते हुए चञ्चल घोड़े हिनहिना रहे हैं, तय्यार कर दिया गया है । रथ के देखने से ही शत्रुओं का मनोरथ अन्धकार में विलीन हो जाता है ॥ २९ ॥ राजा—श्रीमती, आप भीतर हो जाँय । ( 'यावदहमपि तस्य प्रगल्भस्य पाण्डवस्य' इति वाक्य को पढता हुआ जाता है ) [ सब लोग चल पड़ते हैं ] । द्वितीय अङ्क समाप्त ।
तृतीयोऽङ्कः ( ततः प्रविशति विकृतवेषा राक्षसी । ) राक्षसी-- ( विकृतं विहस्य । सपरितोषम् । ) हदमाणुशमंशशोणिएहि कुम्भणहश्शं वसाहि शञ्चिदम् । अणिश अ पिवामि शोणिअं वलिशशदं शमले हुवीअदु ॥ १ ॥ ( नृत्यन्ती सपरितोषम् । ) जइ सिन्धुलावहट्टिअहे विअ दिअहे दिअहे शमलकम्म पडिवज्जई अज्जुणो तदो पज्जत्तभलिदकोट्ठागाले मंशशोणि- एहि मे गेहे हुविअदि । ( परिक्रम्य दिशोऽवलोक्य । ) अह कहिं वखु गदे मे लुहिलप्पिए हुवि अदि । होदु । शद्दाविश्शं दाव । अले लुहिलप्पिआ लुहिलप्पिआ, इदो एहि । ( हतमानुषमांसशोणितैः कुम्भसहस्रं वसाभिः सञ्चितम् । स्वान्ते धूतमले रजोविरहिते यो योगिनः क्रीडति ! ध्यानाद्यस्य जनः प्रयाति जलधेर्लोकस्य पारं परम् । त्रैलोक्यं सविकासमासितमिदं यस्मिन्नमस्यामि तं देवेशं बुधराघवस्य तनयोऽहं मैथिलः कोविदः ॥ १ ॥ विकृतवेषा = विकृतः दर्शनानर्हः वेषः यस्याः सा । अन्वय- हतमानुषमांसशोणितैः, वसाभिः ( च ), कुम्भसहस्रम्, सञ्चितम्, रुधिरम्, अनिशम् पिवामि च, समरः, वर्षशतम् भवतु ॥ १ ॥ अर्जुनेन जयद्रथस्य वधस्य दिवसे महासङ्ग्रामकरणाद बहूनां विनाशात् प्रभूत- मांसशोणितैः व्याप्ता मेदिनी जाता । अतः तत्रत्या राक्षसी तैः मांसशोणितैः प्रस- न्नाह- हतमानुषेति । हतमानुषमांसशोणितैः = युद्धे मृतमनुष्यस्य पललरुधिरैः, वसाभिः = मेदोभिः, च, क्वचिच्चेन विनाऽपि समुच्चयप्रतीतिः । कुम्भसहस्रम् = सहस्रसङ्ख्याकघटाः ( इसके अनन्तर विकृतवेश में राक्षसी का प्रवेश ) राक्षसी- ( भद्दे ढंग से हँसक (सन्तोष के साथ ) मैं रणस्थलो बीच मरे हुए वीरों के मांस, रक्त तथा चर्बियों से हजारों घड़े भर कर रख दी हूँ और प्रतिदिन रुधिरपान करती हूँ । इसी तरह सैकड़ों वर्षों तक युद्ध होता रहे ॥ १ ॥ ( नाचती हुई सन्तोषपूर्वक ) यदि जयद्रथवध के दिन की भाँति प्रतिदिन अर्जुन संग्राम करते रहें तो मांस और रक्तों से मेरे घर के कोठे अटरियाँ सब पूर्ण हो जायँ-
Here is the complete, line-by-line transcription of the page:
९२ वेणीसंहारं नाटकं अनिशं च पिबामि शोणितं वर्षशतं समरो भवतु ॥ १ ॥) यदि सिन्धुराजवधदिवस इव दिवसे दिवसे समरकर्म प्रतिपद्यतेऽर्जुनस्ततः पर्याप्त- भरितकोष्ठागारं मांसशोणितैर्मे गृहं भविष्यति । अथ क्व खलु यतो मे रुधिरप्रियो भविष्यति । भवतु । शब्दायिष्ये तावत् । अरे रुधिरप्रिय रुधिरप्रिय, इत एहि । ) ( ततः प्रविशति तथाविधो राक्षसः ) राक्षसः—( श्रमं नाटयन् । ) पच्चग्गहदाणं मंसए जइ उण्हे लुहिले अ लब्भइ । ता एशे मह पल्लिशमे क्खणमेत्तं एव्व लघु णश्शइ ॥ २ ॥ ( प्रत्यग्रहतानां मांसं यद्युष्णं रुधिरं च लभ्येत । सञ्चितम् = उपचितम् अस्माभिरिति शेषः । शोणितम् = रुधिरम्, अनिशम् = सततम्, पिबामि, च अहमिति शेषः । समरः = युद्धम् वर्षशतम् = शतं वर्षाणि, भवतु । वर्षशतमित्यत्र 'कालाध्वनोरत्यन्तसंयोगे' इति द्वितीया, एतेन जयद्रथवधदिवसे महा- सङ्ग्रामः सञ्जात इति सूचितम् ॥ १ ॥ सिन्धुराजवधदिवसे = यस्मिन् दिने जयद्रथस्य वधो जातः तस्मिन् दिने, इव, दिवसे दिवसे = प्रतिदिनम्, अर्जुनः, समरकर्म, प्रतिपद्यते = करोति कुर्यादित्यर्थः । यदि, ततः मांसशोणितैः = आमिषरुधिरैः, पर्याप्तभरितकोष्ठागारम् = पर्याप्तं यथा स्यादेवं भरितं पूर्णम् कोष्ठागारम् धान्यादिस्थापनस्थानं यस्मिन् तत्, गृहम् मम, भविष्यति । अत्रैकदेशान्वयोऽपि साधुरेव नित्यसापेक्षत्वात् । पर्याप्तभरितेत्यत्र स्तोकन- श्सस्तनाभ्यामितिवत्समासः । रुधिरप्रियः = रुधिरं प्रियं यस्य सः, अथवा रुधिरप्रिय- नामा राक्षसः । शब्दायिष्ये = आकारयामि । अन्वय—यदि प्रत्यग्रहतानाम्, मांसम्, उष्णम्, रुधिरम्, च लभ्येत, तत्, मम, एषः, परिश्रमः, क्षणमात्रमेव, लघु, नश्येत् ॥ २ ॥ श्रान्तो राक्षसः श्रमक्रियां प्रदर्शयन्नाह—प्रत्यग्रहतानामिति । प्रत्यग्रहतानाम् = सद्योव्यापादितानाम्, अभिनवमृतानामित्यर्थः । मांसम्, (घूमकर चारों ओर देखकर ) पता नहीं रक्त के प्रेमी मेरे पतिदेव कहाँ गए होंगे ? अच्छा तो समराङ्गण में अपने प्राणवल्लभ का अन्वेषण करती हूँ । अच्छा, अब मैं चिल्लाकर बुलाती हूँ । ऐ रक्तप्रेमी, इधर आइए, इधर आइए । ( इसके अनन्तर उस राक्षस का प्रवेश ) राक्षस—( थकावट का अभिनय करते हुए ) तुरन्त के मरे हुए वीरों का यदि गरम-गरम रक्त प्राप्त हो जाय तो मेरी सब थकावट शीघ्र ही नष्ट हो जाय ॥ २ ॥
तृतीयाेऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् ९३ तदेष मम परिश्रमः क्षणमात्रमेव लघु नश्येत् ॥ २ ॥ ) ( राक्षसी पुनर्व्याहरति ।) राक्षसः—( आकण्यं ) अले के मं शब्दावेदि । ( विलोक्य । ) कहं पिआ मे वशागन्धा । ( उपसृत्य । ) वशागन्धे, कीश मं शब्दावेशि । ( अरे का मां शब्दायते । कथं प्रिया मे वसागन्धा । वसागन्धे, कस्मान्मां शब्दायसे ।) लुहिलाशवपाणमत्तिए रणहिण्डन्तखलन्तगत्तिए । शब्दाअशि कीश मं पिए पुलिससहश्शं हदं शुणीअदि ॥ ३ ॥ ( रुधिरासवपानमत्ते रणहिण्डनस्खलद्गात्रि । शब्दायसे कस्मान्मां प्रिये पुरुषसहस्रं हतं श्रूयते ॥ ३ ॥ ) राक्षसी—अले लुहिलप्पिआ, एद वखु मए तुह कालणादो पच्चग्गह- दश्श कश्शवि लाएशिणोप्पहूदवशाशिणेहचिक्कणं कोण्डं णवलुहिलं अग्ग- उष्णम् = अशीतम्, ( उष्णो ग्रीष्मे पुमान् दक्षाशीतयोरन्यलिङ्गकः, इति मेदिनी ) । रुधिरम् = शोणितम्, च, लभ्येत = प्राप्येत, तत्, मम, एषः = सङ्ग्रामभ्रमणजन्यः, परिश्रमः, क्षणमात्रमेव = झटित्येव, लघु यथा स्यात्तथा, नश्येत् = विनष्टः स्यात् । अभिनवमांसशोणितभक्षणेन श्रमरहितोऽहं भविष्यामीति भावः ॥ २ ॥ शब्दायते = शब्दं करोति आह्वयतीत्यर्थः । 'शब्दवैरे'ति सूत्रेण क्यङ्प्रत्ययः । वसागन्धा = एतन्नामिका राक्षसी रुधिरप्रियस्य स्त्री । अन्वयः—रुधिरासवपानमत्ते, रणहिण्डनस्खलद्गात्रि, ( हे ) प्रिये, माम्, कस्मात्, शब्दायसे पुरुषसहस्रम्, हतम्, श्रूयते ॥ ३ ॥ रुधिरासवपानमत्ते = रुधिरमेवासवः मद्यम् तस्य पानेन मत्ता तत्संबोधने प्रिये, इत्यस्य विशेषणम्, एवमग्रेऽपि । रणहिण्डनस्खलद्गात्रि = सङ्ग्रामभ्रमणप्रत्यवद्देहे, हे प्रिये, माम् = रुधिरप्रियम्, कस्मात्, शब्दायसे = आह्वयसि, पुरुषसहस्रम् = सहस्र- सङ्ख्याकपुरुषाः, हतं श्रूयते तथा च तव नास्ति भोजनापेक्षेति भावः ॥ ३ ॥ राक्षसी—फिर गला फाड़कर चिल्लाती है ) राक्षस—( सुनकर ) अरे कौन मुझे बुला रहा है अरे क्यों मेरी प्राणेश्वरी वसागन्धा ( समीप जाकर ), अयि वसागन्धे ! मुझे क्यों बुला रही हो ? अरी रक्तरूपी मदिरा छक कर मस्त तथा समरभूमि के बीच भ्रमण करने से श्रान्त वल्लभे ! मुझे क्यों पुकार रही हो ? सुनता हूँ हजारों वीर खेत हो गए ( मर गए ) ॥ ३ ॥ राक्षसी—अरे रक्तप्रेमी ! रक्तप्रेमी !! मैं तुम्हारे लिए शीघ्र मरे हुए किसी एक
९४ वेणीसंहार नाटकं मंशं अ आणीदम् । ता पिवाहि णं । ( अरे रुधिरप्रिय, इदं खलु मया तव कारणात्प्रत्यग्रहृतस्य कस्यापि राजर्षेः प्रभूतवसास्नेहचिक्कणं कोष्णं नवरुधिरमग्रमासं चानीतम् । तत्पिवैतत् । ) राक्षसः—(सपरितोषम् ।) वशागन्धे, शुट्ठु शोहणं तुए किदम् । वलि- अह्यि पिवाशिए । ता उवणेहि । ( वसागन्धे, सुष्ठु शोभनं त्वया कृतम् । बलव दस्मि पिपासितः । तदुपनेय । ) राक्षसी—अले लुहिलप्पिआ, एदिशे वि णाम हदणलगअतुलङ्गमशोणि- अवशाशमुद्ददुशशञ्चले शमले पडिब्भमन्ते तुमं पिवाशिएशित्ति अच्चलि- अम् । ( अरे रुधिरप्रिय, ईदृशेऽपि नाम हतनरगजतुरङ्गमशोणितवसासमुद्रदुःसञ्चरे समरे परिभ्रमंस्त्वं पिपासितोऽसीत्याश्चर्यम् । ) राक्षसः—( सक्रोधम् ) अइ शुत्तियदे, णं पुत्तशोअशन्तत्तहिअअं शामिणीं प्रत्यग्रहृतस्य = अभिनवव्यापादितस्य, कस्यापि, राजर्षेः = ऋषिसदृशनृपस्य, प्रभूतवसास्नेहचिक्कणम् = प्रचुरमेदःस्नेहमसृणम् , 'चिक्कणं मसृणं , स्निग्धम्', इत्य- मरः । कोष्णम् = ईषदुष्णम्, नवरुधिरम्, अग्रमांसम् = उत्तममांसम्, च आनीतं तव कारणादित्यन्वयः । सुष्ठु = मनोहरम्, शोभनम् = साधु, त्वया कृतमित्यन्वयः । बलवत् = अतिश- यितम्, पिपासितः = पानेच्छायुक्तः, अस्मि इत्यन्वयः । बलवदिति क्रियाविशेषणम् । हतनरगजतुरङ्गमवसासमुद्रदुःसञ्चरे = मृतमनुष्यहस्त्यश्वानां शोणितवसे एव समुद्रः अत एव दुःसञ्चरः दुःखेन सञ्चरितुं योग्यः तस्मिन् , समरे = सङ्ग्रामे, परि- भ्रमन्, त्वं पिपासितः = पानेच्छायुक्तः, असीति, आश्चर्यम् = अद्भुतम् । एतादृशे सङ्ग्रामे सति न तव पिपासा युक्तेति भावः । राजर्षि के अङ्गों से निःसृत अत्यधिक वसा, के स्नेह से चिकना और गरम ताजा रक्त और स्वादिष्ट मांस लाई हूँ अतः इसे पी लो । राक्षस—( सन्तुष्ट होकर ) साधु, साधु वसागन्धे, तूने अच्छा किया, जो गरम गरम रक्त लाई । मैं अधिक तृषातं हो गया हूँ अतः इसे ला इधर दे । राक्षसी—अये रुधिरप्रिय, मृत शूरवीरों, हाथी, घोड़ों के रक्त, मांस तथा चर्बी के समुद्र में घूमना-फिरना कठिन हो रहा है । ऐसी समरभूमि के बीच विचरने हुए तृषातं हो— महान् आश्चर्य की बात है । राक्षस—( क्रोधपूर्वक ) अरी वसागन्धे, मैं पुत्र घटोत्कच के वध के कारण शोकाग्नि से
तृतीयोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् ९५
हिडिम्ब!देवी पेक्खिदुं गदम्हि । ( अयि सुस्थिते, ननु पुत्रशोकसन्तप्तहृदयां स्वामिनी हिडिम्बादेवीं प्रेक्षितुं गतोऽस्मि । । राक्षसी-लुहिलपिआ अज्जवि शामिणीए हिडिम्वादेवीए घडुक्कस- शोए ण उपसमइ । ( रुधिरप्रिय, अद्यापि स्वामिन्या हिडिम्बादेव्या घटोत्कचशोको नोपशाम्यति । ) राक्षसः-वशागन्धे, कुदो शे उवशमे केवलं अहिमण्युशोअशमाणदु- क्खाए शुभद्दादेवीए जण्णशेणीए अ कधं कधंवि शमाश्शाशीअदि । (वसागन्धे, कुतोऽस्या उपशमः केवलमभिमन्युशोकसमानदुःखया सुभद्रादेव्या याज्ञसेन्या च कथं कथमपि समाश्वास्यते । ) राक्षसी-लुहिलपिआ, गेण्ह इदं हत्थिशिलवकवालशञ्चिअं अग्गमं- शावदंशम् पिवाहि शोणिआशवम् । ( रुधिरप्रिय, गृहाणैतद्धस्तिशिरःकपाल- सञ्चितमग्रमांसोपदेशं पिव शोणितासवम् । ) हिडिम्बादेवीम्=राक्षसीं भीमपत्नीम्, प्रेक्षितुं = द्रष्टुम् गतोऽस्मि । हिडिम्बा- देव्याः घटोत्कचो नाम पुत्रः समरे हत इति पुत्रशोकसन्तप्तहृदया हिण्डिम्बा वर्तते । तस्याः सान्त्वनायै राक्षसो गत आसीदिति भावः । अद्यापि = इदानीमपि, इदानीमद्येति कलापसूत्रेण निष्पन्नमिदम् । घटोत्कच- शोकः = घटोत्कचविनाशजन्यः शोकः, न उपशाम्यति = शान्तो भवति । अभिमन्युशोकसमानदुःखया=अभिमन्युवधजन्यशोकेन समानं दुःखं यस्याः तया, याज्ञसेन्या = द्रौपद्या, समाश्वास्यते = मा दुःखं कुरु इत्याश्वासनं क्रियते । अग्रमांसोपदेशम् = अग्रमांसेनोपदंशम् अग्रमांसमुपदश्येत्यर्थः, 'उपदंशस्तृतीया- यायामि'ति णमुल् प्रत्ययः । 'तृतीयाप्रभृतीन्यन्यतरस्यामि'ति समासौ । सन्तप्त भर्तृणी हिडिम्बा देवी को देखने गया था । राक्षसी-रक्तप्रिय, अब तक भी स्वामिनी हिडिम्बा देवी का घटोत्कच सम्बन्धी शोक दूर नहीं हो रहा है ? राक्षस-कहाँ से इनका शोक दूर हो; इतना अवश्य है कि अभिमन्युवध के कारण समान शोकभागिनी सुभद्रा देवी और पाञ्चाली के द्वारा किसी प्रकार से सान्त्वना दी जा रही है । राक्षसी-रक्तामिक [प्रियतम], लो, इस हाथी के मस्तकरूपी खप्पर में सञ्चित स्वादिष्ट मांस को खाओ और रुधिररूपी मदिरा का पान करो ।
९६ वेणीसंहारं नाटकं राक्षसः—( तथा कृत्वा ) वशागन्धे, अह किअप्पहूदं दुए शञ्चिअं लुहिलं अग्गमंशं अ । ( वसागन्धे, अथ कियत्प्रभूतं त्वया सञ्चितं रुधिरमग्रमांसं च । ) राक्षसी—अले लुहिलप्पिआ, पुव्वशञ्चिअं तुमं वि जाणाशि जेव्व । णवशञ्चिअं शिणु दाव । भअदत्तशोणिअहिं कुम्भे शिन्धुलाअवशाहिं कुम्भे दुवे दुवदमच्छाहिवभूलिशवशोमदत्तबल्हिप्पमुहाणं णलिन्दाण अण्णाणं वि पाकिदपुलिशाणं लुहितमंशेहिं पुलिदाई घडशदाई अशङ्खाई शन्ति मे गेहे । ( अरे रुधिरप्रिय, पूर्वसञ्चितं त्वमपि जानास्येव । नवसञ्चितं शृणु तावत् । भगदत्तशोणितैः कुम्भः सिन्धुराजवसाभिः कुम्भौ द्वौ द्रुपदमत्स्याधिपभूरिश्रवःसोमदत्त- बाह्लीकप्रमुखानां नरेन्द्राणामन्येषामपि प्राकृतपुरुषाणां रुधिरमांसैः पूरितानि घटशता- न्यसंख्यानि सन्ति मे गेहे । ) राक्षसः—(सपरितोषमालिङ्ग्य ।) शाहु शुग्घलिणीए, शाहु । इमिणा दे शुग्घलिनीत्तणेण अज्ज उण शामिणीए हिडिम्वादेवीए शम्बिदाणेण प्पणट्ठं ने जम्मदालिद्दम् । ( साधु सुगृहिणी, साधु । अनेन ते सुगृहिणीत्वेनाद्य स्वामिन्या अग्रमांसम् = उत्तममासम् 'प्रवेकानुत्तमोत्तमाः । मुख्यवर्यवरेण्याश्च प्रवर्हानवरा- र्ध्यवत् । पराग्र्यग्रिप्राग्रहरे'त्यमरः । रुधिरञ्च प्रभूतम् = प्रचुरम् सञ्चितमित्यन्वयः । भगदत्तशोणितैः = भगदत्तनामा नृपः समरे हतः तस्य रुधिरैः कुम्भः=एकघटः, सिन्धुराजवसाभिः = जयद्रथमेदोभिः । ये ये प्रमुखा नरेन्द्रा हतास्तेषां नामान्युल्लिख- तिद्रुपदेत्यादि । एतेषां मांसशोणितैः पूरिता असङ्ख्या घटाः सन्ति मम गृह इत्यर्थः । ते = तव, अनेन=त्वयि स्थितेन, सुगृहिणीत्वेन = उत्तमगृहकार्यकारिणीत्वेन, स्वामिन्याः, हिडिम्बादेव्याः = भीमसेनपत्न्याः, संविधानेन = त्वया भीमस्यातु- राक्षस—( खा-पीकर ) अरी वसागन्धे, कितने प्रचुर परिमाण में रक्त और हृदयमांस तू सञ्चित कर रखी हो ? राक्षसी—अयि रक्तप्रिय, पहिले, का सञ्चय तो तुम जानते ही हो ('नई-नई सञ्चित सामग्रियों को सुनिये—वीर भगदत्त के रुधिर से एक घड़ा, जयद्रथ की चर्बियों से दो घड़े और द्रुपद, मत्स्यनरेश, भूरिश्रवा, सोमदत्त तथा बाह्लीक प्रभृति प्रधान-प्रधान के तथा और भी साधारण शूरों के रुधिर-मांसादि से भरे हुए हजारों घड़े मुखबन्द करके मेरे घर पर रक्खे पड़े हुए हैं । राक्षस—( तुष्टि के साथ आलिङ्गन करके ) शाबास, मेरी योग्य पत्नी शाबास, इस तुम्हारे योग्य पत्नी रहने के कारण तथा भर्तृणी हिडिम्बा देवी के उपाय से आज मेरे
हिडिम्बादेव्याः संविधानेन प्रनष्टं मे जन्मदारिद्र्यम् ।) राक्षसी—लुहिलप्पिआ, केलिशे शामिणीए शंविहाणए किदे । (रुधिर- प्रिय, कीदृश स्वामिन्या संविधातं कृतम् ।) राक्षसः—वशागन्धे, आणत्ते क्खु हग्गे शामिणीए हिडिम्बादेवीए जह लुहिलप्पिआ, अज्जप्पहुदि तुए अज्जउत्तभीमशेणश्श पिट्ठदोऽगुपिट्ठं शमले आहिण्डिदव्वं त्ति । ता तश्श अणुमग्गगामिणो हअमाणुशशोणिअणइदप्प- णट्ठबुभुक्खापिवाशश्श इव एव मे शग्गलोआ हुविअदि । तुमं वि वीशद्धा भविअ लुहिलवशांहि कुम्भशहश्शं शञ्चेहि । (वसागन्धे, आज्ञप्तः खल्वहं स्वामिन्या हिडिम्बादेव्या यथा रुधिरप्रिय, अद्यप्रभृति त्वया आर्यपुत्रभीमसेनस्य पृष्ठतोऽनुपृष्ठं समर आहिण्डितव्यमिति । तत्तस्यानुमार्गगामिनो हतमानुषशोणितनदी- दर्शनप्रनष्टबुभुक्षापिपासस्येहैव मे स्वर्गलोको भविष्यति । त्वमपि विस्रब्धा भूत्वा रुधिरवसाभिः कुम्भसहस्रं सञ्चिनु । राक्षसी-लुहिलप्पिआ, किं णिमित्तं कुमालभीमशेणश्श पिट्ठदो आहि- ण्डीअदि । (रुधिरप्रिय, किन्निमित्तं कुमारभीमसेनस्य पृष्ठत आहिण्ड्यते ।) पृष्ठं भ्रमितव्यमित्याकारनियोगेन, मे=मम जन्मदारिद्र्य' प्रनष्टम्येत्यन्वय. । तेन विनाऽपि समुच्चयप्रतीतेः संविधानेनेत्यत्र चकारस्याप्रयोगः । किमाज्ञप्त इत्याह-रुधिरप्रियेति । कीदृशं = किमाकारकम्, स्वामिन्या=हिडि- म्बादेव्या, सविधानं = नियोगः । पृष्ठतः = पृष्ठस्य, अनुपृष्ठं = पश्चात् । आहिण्डितव्यम् = भ्रमितव्यम् । हतेति- हतमानुषशोणितस्य या नदी तस्या दर्शनेन प्रनष्टं बुभुक्षापिपासे यस्य तस्य, स्वर्ग- लोकः = स्वर्गसदृशो लोकः । विस्रब्धा = विश्वस्ता निश्चिन्तेति यावत् । जन्म के साथ की दरिद्रता दूर हो गयी ? राक्षसी-ऐ शोणितरसरसिक, भर्तृणी हिडिम्बा किस तरह का उपाय बतलाई । राक्षस-अरी वसागन्धे, आज स्वामिनी हिडिम्बा देवी ने बड़े प्रेम के साथ मुझे बुलाकर आज्ञा दी है—'ए रुधिरप्रिय, आज से तू आर्यपुत्र भीमसेन के पीछे-पीछे रणक्षेत्र में भ्रमण करना !' अब उनका अनुसरण करते हुए समर में मृत मनुष्यों के रक्त की नदी के देखने मात्र से मेरी बुभुक्षा तथा तृषा शान्त हो जाने से मेरे लिए यहीं स्वर्ग हो गया है । तू भी निर्भीक बनकर रक्त तथा चबियों से हजारों घड़े पूरा कर ले । राक्षस-रुधिरप्रिय किसलिए कुमार भीमसेन के पीछे-पीछे घूमते हो । ७ दे०
९८ | वेणीसंहारं नाटकं
राक्षसः—वशागन्धे, तेण हि शामिणा विओदलेण दुश्शाशणश्श लुहिलं पाढुं पडिण्णादम्। तं च अम्हेहि लक्खशेहि अणुप्पविशिअ पादव्वम्। (वसागन्धे, तेन हि स्वामिना वृकोदरेण दुःशासनस्य रुधिरं पातुं प्रतिज्ञातम्। तच्चा- स्माभी राक्षसैनुप्रविश्य पातव्यम् । ) राक्षसी—( सहर्षम् । ) शाहु शामिणीए, शाहु । शुसंविहाणे मे भत्ता किदे । ( साधु स्वामिनि, साधु । सुसविधानो मे भर्ता कृतः । ) ( नेपथ्ये महान्कलकलः । ) राक्षसी—( आकर्ण्य, ससम्भ्रमम् । ) अले लुहिलप्पिआ, किं णु वखु एशे महन्ते कलअले शुणीअदि । ( अरे रुधिरप्रिय किं नु खल्वेष महान्कलकलः श्रूयते । ) राक्षसः—( दृष्ट्वा । ) वशागन्धे, एशे वखु धिट्ठज्जुम्मेण दोणे केशेषु आकट्टिअ अशिवत्तेण वावादीअदि । ( वसागन्धे, एष खलु धृष्टद्युम्नेन द्रोणः केशेष्वाकृष्यासिपत्रेण व्यापाद्यते । )
वृकोदरेण = भीमेन, दुःशासनस्य = दुर्योधनानुजस्य 'रुधिर, पातुम्, प्रतिज्ञा- तम्, द्रौपदीकेशाकर्षणसमये यत्प्रतिज्ञातन्तत्साम्प्रतं पूरणीयमिति भावः । राक्षसै- रिति । रुधिरपानं मदीयं राक्षसाकर्म, अतः भीमसेनस्य शरीरेनुप्रविश्य पातव्य- मिति भावः । सुसंविधानः = सुशोभनं संविधानं यस्य सः । धृष्टद्युम्नेन त्यक्तशस्त्रस्य पराक्रमिरो द्रोणाचार्यस्य वधान्महान् कोलाहलो जात इत्याह—महान् कलकलः श्रूयत इति । धृष्टद्युम्नेन = द्रुपदपुत्रेण, केशेषु = कचेषु, आकृष्य = गृहीत्वा, एप = विख्यातः,
राक्षस—अयि वसागन्धे, उस स्वामी भीमसेन ने दुःशासन के हृदय का रक्तपान करने की प्रतिज्ञा की है। उसे हम राक्षस लोग उनके भीतर प्रवेश कर भली-भाँति पीयेंगे। राक्षसी—( प्रसन्नतापूर्वक ) धन्य ! स्वामिनि !! धन्य !!! आपने मेरे प्राणनाथ को अच्छा उपदेश दिया। ( नेपथ्य में तुमुलध्वनि होती है, दोनों सुनते हैं ) राक्षसी—(सुनकर उद्विग्नता के साथ) अरे रक्तप्रेमी, यह कैसी तुमुलध्वनि श्रुतिगोचर हो रही है ? राक्षस—यह आचार्य द्रोण केश खींचकर धृष्टद्युम्न के द्वारा खड्ग से मारे जा रहे हैं ।