वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 111, कुल 355 में से
संदर्भ में पढ़ें९० वेणीसंहारं नाटकं कञ्चुकी--देव, उद्घातक्वणितऽलोल्हेमघण्टः प्रालम्बद्विगुणितचामरप्रहासः । सज्जोऽयं नियमितवल्गिताकुलाश्वः शत्रूणां क्षपितमनोरथो रथस्ते ॥२९॥ राजा—देवि, प्रविश त्वमभ्यन्तरमेव । ( 'यावदहमपि तस्य प्रगल्भस्य पाण्डवस्य'—इत्यादि पठन् परिक्रामति । ) [ इति निष्क्रान्ताः सर्वे । ] इति द्वितीयोऽङ्कः । मरणं पावन्नमिति ख्यात तथा चार्जुनस्य प्रतिज्ञापूर्त्यभावे आत्मघातेन शस्त्रेणामरणात अशस्त्रपूतो मृत्युर्भविष्यतीति भावः । अन्वयः—उद्घातक्वणितविलोल्हेमघण्टः, प्रालम्बद्विगुणितचामरप्रहासः, निय- मितवल्गिताकुलाश्वः, शत्रूणाम्, क्षपितमनोरथः, ते अयम्, रथः, सज्जः (अस्ति) ॥ उद्घातक्वणितविलोल्हेमघण्टः=उद्घातेनाहननेन या क्वणिता शब्दं कुर्वती विलोल्हेमघण्टा यस्मिन् सः, इद सर्वं रथस्य विशेषणम् । प्रालम्बद्विगुणितचामर- प्रहासः = प्रालम्बः प्रकर्षेण आलम्बमानः द्विगुणितः द्विधा बद्धः यः चामरः तस्य प्रहासः शौक्ल्यम् यस्मिन्, सः, नियमितवल्गिताकुलाश्वः=नियमिताः प्रग्रहेण बद्धाः वल्गिताः गतिविशेषविशिष्टा अत एव आकुलिता अश्वा यत्र सः, शत्रूणाम्=रिपूणाम्, क्षपितमनोरथः = क्षपितः विनाशितः आच्छादित इत्यर्थः । मनोरथः येन सः, अयम, रथः, ते = तव, सज्जः=सन्नद्धः, अस्तीति शेषः । प्रहर्षिणी छन्दः । त्र्याशाभिर्मन- जरगा प्रहर्षिणेयमिति लक्षणात् ॥ २९ ॥ इति प्रबोधिनीव्याख्यां द्वितीयोऽङ्कः । कञ्चुकी—महाराज ! यह आपका विजयी रथ जिसमें बँधे हुए सुवर्ण के घुँघरू आघात लगने से झङ्कृत हो रहे हैं जो दोनों ओर से झले जाते हुए चामरों से विभूषित तथा जिसमें जुते हुए चञ्चल घोड़े हिनहिना रहे हैं, तय्यार कर दिया गया है । रथ के देखने से ही शत्रुओं का मनोरथ अन्धकार में विलीन हो जाता है ॥ २९ ॥ राजा—श्रीमती, आप भीतर हो जाँय । ( 'यावदहमपि तस्य प्रगल्भस्य पाण्डवस्य' इति वाक्य को पढता हुआ जाता है ) [ सब लोग चल पड़ते हैं ] । द्वितीय अङ्क समाप्त ।