वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 7, कुल 355 में से
संदर्भ में पढ़ें[ ६ ] तदेवम्—अदोषं गुणवत्काव्यमलङ्कारैरलङ्कृतम् । रसान्वितं कविः कुर्वन् कीर्तिं प्रीतिञ्च विन्दति ॥ इति पद्यमनुस्मरता कविमूर्द्धन्यभट्टनारायणेन सर्वलक्षणोपेतं वेणीसंहारं नाम नाटकं निरमायि । तत्र किं वर्णयामोऽस्य नाटकस्य वैशिष्ट्यम्, अस्य कवेर्वैदुष्यञ्च काव्यप्रकाशकृता दर्पणकृता च स्व-स्व-ग्रन्थेऽत्रत्याः कविता निवेशयतैव प्रकाशितत्वात् । दर्पणकृता तु—षष्ठपरिच्छेदे बहून्युदाहरणानि प्रदर्शयताऽस्यैव नाटकस्य नाटकमौलिता कामं प्रकटीकृता । यद्यपि शृङ्गार- रसनाटकस्य प्रणेतारो बहवः सन्ति, परं वीररसनाटकस्य प्रणेतारो विरला एव दृश्यन्ते । यद्यप्यन्यानि हनुमन्नाटकादीनि वीररसाङ्गिनाटकानि समुल्लसन्ति, तथाप्येतस्मिन्नश्वत्थामाङ्के वीररौद्ररसयोः सन्निवेशः काव्यरसिकस्य कस्य न चेतस्सन्दोलयति । दूराह्वानं वधो युद्धं राज्यदेशादिविप्लवः । स्नानानुलेपने चाभिर्वर्जितो [नातिविस्तरः ॥ इति पद्यार्थं स्मारं स्मारं कविवरभट्टनारायणेन चतुर्थेऽङ्के प्रदर्शिता वृष- सेनवधवर्णनशैली तु नैव कुत्राप्यन्यत्र दृग्गोचरीभवति । 'कार्यो निर्वहणेऽद्भुत'इति वचनानुकूलेन षष्ठेऽङ्के राक्षसमागमनेनाद्- भुतरसवर्णनं कीदृक् चमत्कारी जानन्त्येव विद्वांसः । कवेरस्य विस्तृतविषयस्यापि मितार्थतता प्रतिपादनशक्तौ तु महाभारतीय- भीष्मादिपर्वचतुष्टयस्य कथायाः सन्निवेश एव परमं प्रमाणम् । सर्वाङ्गसुन्दरेऽस्मिन्नाटके व्याख्याविरचने प्राप्तपाण्डित्यप्रकर्षः को नाम न प्रवर्तेत स्वस्यामोदाय, अध्येतॄणामुपकाराय च ? यद्यपि साम्प्रतमत्र टीकात्रय- मुपलभ्यते । एका वाम्बेमुद्रणालये प्रकाशिता, द्वितीया कलिकातामुद्रणालये, तृतीया वाराणस्याम् । परं ताः कथं न छात्रान् सन्तोषयन्तीति विदितमेव भव- द्भिर्विद्वद्भिः । कापि टिप्पणीपदेनैव व्यवह्रियते । कस्यामपि यस्य कस्यचित् पदस्य व्याख्यानमेवास्ति । कापि सुलभस्थले विस्तृतापि मर्मस्थले मौनमेवा- वलम्बिता । अथवाऽस्पष्टशब्देनैव संवलितेति तासु कापि ग्रन्थस्य निगूढभावं प्रकटयन्ती परीक्षापारावारपारं छात्रान्नेतुं न समर्थेति निःशङ्कं शक्यते वक्तुम् । अलङ्कारालङ्कृतत्वाभावोऽप्यासु टीकासु महती त्रुटिरित्यतः प्रकृत-