BharatKosha
Back to the archive

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

by महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा)

DevanagariHindipublished490 pages

प्रारंभिक पृष्ठ एवं राजनीतिप्रकाश भूमिका

Page 1Permalink

Barcode : 5010010035178 Title - viiramitrodayan' Vol VI Author - mitra mishra Language - Sanskrit Pages - 495 Publication Year - 1916 Barcode EAN.UCC-13 5 010010 035178

Page 2Permalink

The provided image is completely blank and contains no text or illustrations to transcribe. Please upload the intended page or an image with visible content.

Page 3Permalink

no 6 / ३४ ≡ ५ 498 श्रीकृष्ण व्यंकटेश पुणतांबेकर. [मुद्रा: ... Library Hyderabad / ४९८]

Page 4Permalink

The provided image is completely blank (contains no text, diagrams, or markings). Therefore, there is no text to transcribe.

If you intended to upload a specific page or manuscript, please re-upload the correct image.

Page 5Permalink

THE CHOWKHAMBÂ SANSKRIT SERIES; A COLLECTION OF RARE & EXTRAORDINARY SANSKRIT WORKS. NOS. 221, 222, 223, 224, & 231. वीरमित्रोदयः । राजनीतिप्रकाशः । महामहोपाध्यायश्रीमित्रमिश्रविरचितः । साहित्योपाध्यायविष्णुप्रसादशर्मणा संशोधितः । VÎRAMITRODAYA, RAJNITI PRAKÂŚA BY MAHÂMAHOPÂDHÂYA PANDITA MITRA MIŜRA. EDITED BY Pandita Vishnu Prasâd. VOL. VI. FASCICULUS 1 TO 5. PUBLISHED & SOLD BY THE SECRETARY, CHOWKHAMBA SANSKRIT SERIES OFFICE, BENARES. AGENTS:- OTTO HARRASSOWITZ, LEIPZIG: PANDITA JYESHTHARAM MUKUNDAJI, BOMBAY: PROBSTHAIN & CO; BOOKSELLERS, LONDON. Printed by Jai Krishna Das Gupta, at the Vidya Vilas Press. BENARES. 1916. Registered According to Act XXV of 1867.

Page 6Permalink

The provided image is completely blank (empty white page) and does not contain any text, diagrams, or content to transcribe.

Please provide an image that contains the page or manuscript you would like transcribed.

Page 7Permalink

॥ श्रीगणेशाय नमः ॥ अथ वीरमित्रोदयस्य राजनीतिप्रकाशः । कोपाटोपनटत्सटोद्भटमटद्भूभीषणभ्रूकुटि भ्राम्यद्भैरवदृष्टि निर्भरनमद्दर्वीकरोर्वीधरम् । गीर्वाणारिवपुर्विपाटनविकटाभोगत्रुटद्धाटक- ब्रह्माण्डोरुकटाहकोटि नृहरेरव्यादपूर्वं वपुः ॥ १ ॥ सटाग्रव्यग्रेन्दुस्स्रवदमृतबिन्दुप्रतिवल- न्महादैत्यारम्भस्फुरितगुरुसंरम्भरभसः । लिहन्नाशाचक्रं हुतवहशिखावद्रसनया नृसिंहो रंहोभिर्दमयतु मदंहो मदकलम् ॥ २ ॥ संसारध्वंसिकंसप्रमुखसुररिपुप्रांशुवंशावतंस- भ्रंशी वंशीधरो वः प्रचुरयतु चिरं शं स राधारिरंसी ॥ यच्चूडा रूढगूढस्मितमधुरमुखाम्भोजशोभां दिदृक्षु- र्गुञ्जाभिः सानुरागालिकनिकटनटच्चन्द्रकव्यक्तचक्षुः ॥३॥ लीलाभ्रान्तिबिसर्पदम्बरतया व्यग्राङ्घ्रिकान्तं पद- न्यासन्यञ्चदुदञ्चदद्रिवसुधाभोगीन्द्रकूर्माधिपम् ॥ फूत्कारस्फुरदुत्पतत्फणिकुलं रङ्गज्जटाताडन- ध्मातव्योमगभीरदुन्दुभि नटन्नव्यात्स वो धूर्जटिः ॥ ४ ॥ कुम्भोद्भ्रान्तमधुव्रतावलिवलज्झङ्कारकोलाहलैः

Page 8Permalink

२ वीरमित्रोदयस्य राजनीतिप्रकाशे शुण्डास्फालनविह्वलैः स्तुत इव व्यालैर्वियत्प्लाविभिः ॥ मज्जत्कुम्भमहावगाहनकृतारम्भो महाम्भोनिधौ हेरम्बः कुरुतां कृताम्बरकरालम्बश्चिरं वः शिवम् ॥ ५ ॥ समन्तातपश्यन्ती समसमयमेव त्रिभुवनं त्रिभिर्नेत्रैर्दौर्भिर्दशभिरपि पान्ती दश दिशः ॥ दधाना पारीन्द्रोपरि चरणमेकं परपदा हतारिर्वो हन्यान्महिषमथनी मोहमहिषम् ॥ ६ ॥ वामान् भिन्दन्नवामान् भुवमनुसुखयन् पूरयन्नर्थिकामान् श्रीमान् भीमानुकारी बहलबलभरैर्मेदिनीमल्लनामा ॥ आसीदाशीविषेन्द्रद्युतिधवलयशा भूपचक्रावतंसः श्रीकाशीराजवंशे विधुरिव जलधौ सर्वभूसार्वभौमः ॥७॥ सङ्ग्रामग्रामकामो निरुपममहिमा सत्त्वविश्रामधाम क्रामन्नेवारिचक्रं मिहिर इव तमो विक्रमोरुक्रमेण ॥ सारैर्मेरोरुदारैरपर इव गिरिर्मेदिनीमल्लनेन प्रख्यातः क्षोणिचक्रे समजनि नृपतिर्मेदिनीमल्लनामा ॥ ८॥ निर्यद्भिस्तर्ज्जयद्भिर्विधुमिव जगतीमर्जुनाभैर्यशोभिः सम्पूर्यावार्यवीर्यो विशिखवितरणैरर्जुनो दुर्ज्जनानाम् ॥ साम्राज्योपार्जनश्रीरगणितगुणभूरर्जुनप्रांशुबाहु— र्नाम्नाऽभूदर्जुनोऽस्मान्नरपतिरतुलो मेदिनीमल्लभूपात् ॥ ९॥ बुद्धिः शुद्धिमती क्षमा निरुपमा विद्याऽनवद्या मनो गाम्भीर्यैकनिकेतनं वितरणं दीनार्त्तिनिद्दारणम् ॥ आसीदर्जुनभूपतेर्विदधतो विद्रावणं विद्विषां भूमीनामवनं च कारणगुणात्कार्यं यशोऽप्यर्जुनम् ॥१०॥ तस्मादाविरभूतप्रभूतमहिमा भूमीपतेरर्जुनात् सौजन्यैकनिधिर्गुणैरनवधिर्लावण्यवारां निधिः ॥

Page 9Permalink

वंशवर्णनम् । ३ भिन्दन् दुर्ज्जनमर्ज्जयन् बहु यशः प्रौढप्रतापोदयै- दुर्जेयो मलखाननाम निखिलक्ष्मामण्डलाखण्डलः ॥ ११ ॥ यस्मिन् शासति नीतिभिः क्षितिमिमां निर्वैरमासीज्जगत् पारीन्द्रेण समं करीन्द्ररभसारम्भोऽपि सम्भावितः ॥ श्येनः क्रीडति कौतुकी स्म विहगैश्चिक्रीड नक्रैर्झषः किं वान्यद्रहनेऽभवत्सह मृगैः शार्दूलविक्रीडितम् ॥ १२ ॥ हिमविशदयशोऽभिशोभिताशो महिमतिरोहितवारिधिप्रभावः ॥ समजति मलखानतः प्रतापै- स्त्रिगति रुद्र इव प्रतापरुद्रः ॥ १३ ॥ शुचि धनमर्थिनि सहसा यशसा सममानने गुणो जगतः । पुत्रे भूरभिदधे चेतो रुद्रे प्रतापरुद्रेण ॥ १४ ॥ जातः प्रतापरुद्रात्ससमुद्रां पालयन्नवनीम् । कृतरिपु

Page 10Permalink

(-) -> that's - . - ! That violates Śārdūlavikrīḍita! Śārdūlavikrīḍita MUST be: - - - (ma-gaṇa)! If it is: त्सिं (G) हा (G) ति (L) क्र (G)? No! Wait: त्सिं (-) हा (-) ति (.) क्र (.)? No, kra followed by ma: ति is before kra, so ति is followed by a conjunct (kr)! Thus ति becomes GURU! Wait! If ति is followed by kr, then: त्सिं (-) हा (-) ति (before kr) = (-) क्र (.) म (.) वी (-) That would be: - - - . . - ! Wait! Let's check: ma: - - - sa: . . - If ति is guru, and kra is laghu, ma is laghu: ति (-) क्र (.) म (.) That's - . . (dactyl), NOT . . - (anapest)! Wait! Let's re-scan! In Sanskrit prosody, a vowel before 'kr' (stop + liquid) is OPTIONALLY light (laghu)! "प्रह्रस्वे वा" / "रलयोः पूर्वं वा"! Before pra, bra, kra, tra, a preceding short vowel can remain laghu! So 'ति' before 'क्र' CAN BE LAGHU! Then what about 'क्र'? 'क्र' is

Page 11Permalink

वंशवर्णनम् । ६ शौर्यौदार्यगभीरताधृतिदयादानादिनानागुणा- नुर्वीदुर्वहभारवत्यहिपतिस्पर्द्धालदोःशालिनि ॥ संयोज्यैव जुहारसिंहधरणीधौरेयचूडामणौ मज्जन् ब्रह्मणि वीरसिंहसुकृती तस्थौ स्वयं निर्गुणः ॥२६॥ नद्यः स्वादुजला द्रुमाश्च सुफला भूरुर्वरा भूसुरा वेदध्वानविधूयमानदुरिता लोका विशोका बभुः ॥ राजनीतिनिरीतिरीति पितरीवोर्वीमिमां शासति श्रीमद्वीरजुहारसिंहनृपतौ भ्रूभङ्गभग्नद्विषि ॥ २७ ॥ सङ्ग्रामोत्कटताण्डवोद्भटभटैरारब्धहेलाहठै- श्चण्डाडम्बरपूरिताम्बरतटक्षीराब्धिगोधावटैः ॥ भूभृत्सिंहजुहारसिंहधरणीजानेः प्रयाणे रणे शौर्यौदार्यधनोऽपि को नु धरणीचक्रे न चक्रे भयम्॥२८॥ तावद्वीरगभीरहुङ्कृतिरवस्तावद्गजाडम्बर- स्तावत्तुङ्गतुरङ्गरिङ्गणचमत्कारश्चमूनामपि ॥ तावत्तोयमहामहीभृदटवीदुर्गग्रहो विद्विषां यावन्नैव जुहारसिंहनृपतिर्युद्धाय बद्धोत्सवः ॥ २९ ॥ अयं यदि महामना वितरणाय धत्ते धियं भियं कनकभूधरोऽञ्चति ह्रियं च कर्णोऽटति ॥ दधीचिरपचीयते बलिरलीकरूपायते- तदाऽतिमलिनायते स किल कल्पभूमीरुहः ॥ ३० ॥ प्रासादारामतडागनागमणिभूदानादिनानातपः- प्रागल्भ्येन महेन्द्रचन्द्रवरुणब्रह्मेशविष्णुस्थली ॥ प्राचण्ड्येन जिता मिता वसुमती कोदण्डदोर्दण्डयो- र्ज्जागर्त्तीति जुहारसिंहनृपतेः कुत्र प्रतापो न वा ॥ ३१ ॥ ब्रह्माभूच्चतुराननः स्मरहरः पञ्चाननः षण्मुखः

Page 12Permalink

'? No, 'त्प्र': त् + प्र! Yes, the त् is attached to प्र! Wait! "विश्वोदृश्वत्प्रशंसो"? No, what words mean "whose praise is seen/heard/shining in the universe"? "विश्वोद्दृश्व..."? दृश्वन् (dṛśvan) means "one who has seen". "विश्वदृश्वा" = all-seeing. Wait! What about "विश्वोच्छ्वसत्प्रशंसो"? Look at the characters: वि (vi) श्वो (śvo) Wait, is the second letter 'श्वो'? It has: व + ो = वो? No, it has श + व + ो = श्वो. Next: द् or च्? Then: ब or व or छ? Wait! Look at the letter in L15: वि श्बो (विश्वो) द् व श्व त् (or द्वच्छत्?) Wait, could it be: विश्वोद्वश्वत् ? No, that's not a word. Could it be: विश्वोद्वत्प्रशंसो? No, there is an extra letter. Wait, let's look at the letter: द with a hook: 'द्'? Then: 'व' or 'ध'? Then: 'श्व' or 'न्व'? Wait, let's look at: वि (1) श्वो (2) द्ध (3) श्व (4)... Wait, what if it

Page 13Permalink

वंशवर्णनम् । ७ दाक्षिण्यं क्षितिरक्षणावधि हरौ भक्तिश्च जीवावधि व्यालुप्तावधि वीरविक्रमरवेः श्रेयः परं वर्द्धते ॥ ३८ ॥ हेमाद्रेः श्रियमन्यथैव कुरुते चक्रे च गौरीं तनुं कैलासोपरि शोभते पटयति स्पष्टं च दिङ्मण्डलम् ॥ भोगीन्द्रं न दधे श्रुतौ बत जटागूढां च गङ्गां व्यधा- ल्लोकानाभयमीश्वरोऽस्य यशसस्त्वैश्वर्यमुज्जृम्भते ॥३९॥ श्रीगोपाचलमौलिमण्डलमणिः श्रीदूरवारान्वये श्रीहंसोदयहंसपण्डित इति ख्यातो द्विजाधीश्वरः ॥ यं लक्ष्मीश्च सरस्वती च विगतद्वन्द्वं चिरं भेजतु- र्भोक्तारं रभसात्समानमुभयोः साम्राज्यमाढ्यं गुणैः ॥४०॥ षड् दिक्षु विदिक्षु कुर्वतीनां नटलीलां स्फुटकीर्त्तिनर्त्तकीनाम्॥ स्फुरदध्वरधूमधोरणीह च्युतवेणीति जनैरमानि यस्य ॥४१॥ ततोऽनल इवारणेरतुलधामभूर्भूभुजां शिरोमणिरहोमणिर्धराणिनामवामभ्रुवः ॥ रणी बहुगुणी धनी भुवि वनीपकश्रीखनी रमारमणमिश्रणी परशुराममिश्रोऽजनि ॥ ४२ ॥ येनागत्य पुरा पुरारिनगरे विद्याऽनवद्यार्जिता श्रीचण्डीश्वरमग्निहोत्रितिलकं लब्ध्वा गरीयोगुरुम् ॥ शुद्धा सैव महोद्यमेन बहुधा भान्ती भवन्ती स्थिरा तद्वंश्येषु कियन्न कल्पलतिकेवाद्यापि सूते फलम् ॥ ४३ ॥ आस्यारविन्दमनुपास्य गुरोरपास्य लास्यं चतुर्मुखमुखेषु सरस्वतीह ॥ सालङ्कृतिश्च सरसा च गुणान्विता च यस्यातनोति रसनोपरि ताण्डवानि ॥ ४४ ॥ अङ्के लोमलतेव सीमनि दृशोरेकेव रेखाञ्जनी

Page 14Permalink

वीरमित्रोदयस्य राजनीतिप्रकाशे कस्तूरीमकरीव भालफलके धारेव मूर्द्धन्यालकी ॥ ऊर्द्धं भृङ्गपरम्परेव कबरी सौरभ्यलोभाकुला यस्यैवाध्वरधूमधोरणिरभूदाशाकुरङ्गीदृशः ॥ ४५ ॥ सुभासुरयशोनिधेः सुनिरवद्यविद्यानिधेः सुचारुकवितानिधेः स्मृतिनिधेः श्रुतिश्रीनिधेः ॥ अयं सुकृतगौरवात्परशुराममिश्राद्गुणै- रनूनगरिमा पितुर्जगति मित्रमिश्रोऽजनि ॥ ४६ ॥ धर्मार्थैकनिकेतनं विधिमयं कर्मावनीदर्शनं स्मृत्यम्भोजमहोदयं श्रुतिमयं श्रीवीरमित्रोदयम् ॥ द्राक्सिद्धीकृतकार्यसिद्धिशतया श्रीवीरसिंहाज्ञया तेने विश्वमुदे पुरे पुरभिदः श्रीमिश्र मित्रमिश्रः कृती ॥ ४७ ॥ आज्ञप्तो वीरसिंहक्षितिपतितिलकेनादरान्मित्रमिश्रः श्रद्धावान् ख्यातकीर्त्तिर्विविधबुधजनग्रामसन्तोषकारी ॥ प्राचां वाचां प्रपञ्चैः परिकलितमहाराजधर्मादवान्तः- सारं निष्कृष्य बुद्ध्या रचयति रुचिरं राजनीतिप्रकाशम् ॥४८॥ राजनीतिप्रकाशे प्राग्राजशब्दार्थनिर्णयः । राजप्रशंसा तदनु प्रोक्ता श्रोत्रसुखावहा ॥ राज्याभिषेके कालश्च निषिद्धो विहितस्तथा । राज्याधिकारी तत्पश्चादभिषेकविधिः स्मृतः ॥ ऐन्द्री शान्तिः प्रयोगश्च अभिषेकस्य कीर्त्तितः । अथाभिषेकमन्त्रेण प्रतिपाद्यैस्तु दैवतैः ॥ कीर्त्तितैर्लभ्यते यत्तु फलं तदनुकीर्त्तितम् । ऐतरेयब्राह्मणोक्तं राज्ये चैवाभिषेचनम् ॥ पुष्पाभिषेको जन्मर्क्षेऽभिषेकस्तदनन्तरम् ।

Page 15Permalink

प्रतिसंवत्सरं कार्योऽभिषेकोऽथ प्रकीर्तितः ॥ राज्ञां गुणस्ततस्तेषां निषिद्धविहितक्रिये । ततो दैनन्दिनं कृत्यं वर्षकृत्यमतः परम् ॥ अथ राज्ञः सहायेषु प्रागमात्यः प्रकीर्तितः । सेनापतिस्ततो राज्याध्यक्षरत्नपरीक्षकौ ॥ प्रतीहारश्च दूतश्च रक्षिणस्तदनन्तरम् । ताम्बूलधारणाद्येषु नियुक्ताश्च निरूपिताः ॥ अथानुजीविनां वृत्तं राजवासस्थलं ततः । दुर्गे पुरस्य निर्माणं क्रमेण परिकीर्तितम् ॥ राष्ट्रं कोषश्च दण्डश्च मित्रं चेत्युदितं क्रमात् । सामान्ते कथितो भेदो दानान्ते दण्ड एव च ॥ उपेक्षामाययोरन्त इन्द्रजालः प्रकीर्तितः । मन्त्रश्च पौरुषं पश्चाद्राजपुत्रस्य रक्षणम् ॥ सन्ध्यादिचिन्ता परतो राजमण्डलनिर्णयः । षाड्गुण्यमथ यात्रोक्ता ततः स्वप्नौ शुभाशुभौ ॥ अथ स्वप्नविपाकस्य कालः सम्परिकीर्तितः । अभिमन्त्रणमुक्तं च राजचिह्नेषु तत्परम् ॥ अथेष्टानिष्टशकुनौ निमित्तानि ततः परम् । जयाभिषेकस्य विधिः प्रयोगश्च क्रमोदितः ॥ अथ सन्नहनं राज्ञः कार्यमत्र पुरोधसा । युद्धार्थं प्रस्थितस्याथ चातुर्मास्येष्ववस्थितिः ॥ विशेषतो देवयात्रा कौमुद्यां च महोत्सवः । इन्द्रध्वजोच्छ्रायविधिस्ततो नीराजनाविधिः ॥ पूजनं भद्रकाल्याश्च तदनन्तरमीरितम् । राजचिह्नेषु देव्याश्च पूजोक्ता तदनन्तरम् ॥

Page 16Permalink

१० वीरमित्रोदयस्य राजनीतिप्रकाशे लोहाभिसारिकं कर्म गवोत्सर्गस्ततः परम् । वसोर्धाराऽथ शत्रूणां नाशकः कृत्तिकाप्लवः ॥ राजिकासर्षपाभ्यां च होम उक्तोऽरिनाशनः । विष्णुधर्मोत्तरोक्तं तत आथर्वणोदितम् ॥ घृतकम्बलमुक्त्वा च प्रकीर्णकमुदाहृतम् । राजनीतिप्रकाशाख्ये ग्रन्थेऽस्मिन् विदुषां मुदे ॥ श्रीमित्रमिश्रविदुषा क्रमेणैवं निरूपितम् । इति । तत्र महाभारते, युधिष्ठिर उवाच । श्रोतुमिच्छामि भगवन् विस्तरेण महामुने । राजधर्मान् द्विजश्रेष्ठ चातुर्वर्ण्यस्य चाखिलान् ॥ इत्युपक्रम्य राजधर्मा उक्ताः । अग्निपुराणेऽपि, अग्निरुवाच । पुष्करेण च रामाय राजधर्म हि पृच्छते । यदादौ कथितं तद्वद्विशिष्टं कथयामि ते ॥ पुष्कर उवाच राजधर्मं प्रवक्ष्यामि स्याद्राजा राजधर्मतः । मनुस्मृतावपि, राजधर्मान् प्रवक्ष्यामि यथावृत्तो भवेन्नृपः । सम्भवश्च यथा तस्य सिद्धिश्च परमा यथा ॥ इत्युपक्रम्य तत्र तत्र राजधर्मा उक्ताः । तत्र राजशब्दार्थ- स्तावद्विचार्यते । किमयं राजशब्दो यस्मिन् कस्मिंश्चित्प्रजापालके वर्त्तते, उत क्षत्रियजातौ, किंवा अभिषिक्तक्षत्रियजातौ वर्त्तत इति। तत्र अवेष्ट्यधिकरणे “राजा राजसूयेन स्वाराज्यकामो यजेत”

Page 17Permalink

राजशब्दार्थविचारः । ११ इत्यत्र पूर्वपक्षे लिखितम्— राज्यस्य कर्त्ता राजेति सर्वलोकेषु गीयते । महाविषयता चैवं शास्त्रस्यापि भविष्यति ॥ तस्माद्ब्राह्मणादयो राज्यं कुर्वाणा राजान इति । राज्यं तु जनपदपरिपालनम् । लोकप्रयोग एव शब्दार्थावधारणे प्रमा- णम् । लोके च ब्राह्मणादिषु राज्यकर्त्तृषु राजशब्दो वर्त्तते । यास्कोऽपि, राजा राजतेरिति ब्रुवन् यौगिकं राजशब्दमी- श्वरवचनमेवाभ्युपैति । राजनोत्कर्षश्च प्रजापरिपालनादिरेव । वेदेऽपि, “सोमोऽस्माकं ब्राह्मणानां राजा” “यो राजा वर्षणीनां” “सोमो वै राजा गन्धर्वेषु” इत्यादावपि ईश्वरवचन एव राजशब्दः प्रतीयते । कोषेऽपि, राजा तु प्रणताशेषसामन्तः स्यात् । तथा, अथ राजकम् । राजन्यकं च नृपतिक्षत्रियाणां गणे क्रमात् ॥ इति । अत्र यदि राजन्यशब्दवद्राजशब्दोऽपि क्षत्रियवचन एव स्यात्तदा राजकं राजन्यकं च क्षत्रियगणे इत्येव ब्रूयान्नतु नृ- पतिगणे इति पृथगुपाददीत । तस्माद्राजशब्दो नृपतीनां वाचक इति केचित् । अपरे त्वाहुः । राजशब्दः क्षत्रियजातिवचनः । मन्वादयो हि राजधर्मान् प्रवक्ष्यामीत्युपक्रम्य जनपदपरिपालनरूपं राज्यं क्षत्रियस्यैव स्मरन्ति । तत्र— मनुः, ब्राह्मं प्राप्तेन संस्कारं क्षत्रियेण यथाविधि ।

Page 18Permalink

१२ वीरमित्रोदयस्य राजनीतिप्रकाशे सर्वस्यास्य यथान्यायं कर्त्तव्यं परिरक्षणम् ॥ ब्रह्म वेदस्तत्कृतः श्रवणाध्ययनजन्यो ग्रहणावबोधलक्षणः संस्कारो ब्राह्मः । यद्वा ब्रह्म वेदस्तत्प्राप्त्यर्थ उपनयनादिः संस्कारो ब्राह्मः । यथाविधि यथाशास्त्रम् । एतच्च प्राप्तेनेत्यने- नान्वितम् । यथान्यायं वक्ष्यमाणदण्डप्रणयनशास्त्रमनतिक्रम्ये- त्यर्थः । परिरक्षणं दुर्बलानां बलवद्भिरनभिभवः । अनेन क्ष- त्रिय एव मुख्यो राज्याधिकारीति दर्शितम् । अत एव क्षत्रि- यस्य क्षितिरक्षाजीवनार्थं शस्त्रास्त्रभृत्त्वं चोक्तम्— मार्कण्डेयपुराणे, दानमध्ययनं यज्ञः क्षत्रियस्याप्ययं त्रिधा । धर्मः प्रोक्तः क्षिते रक्षा शस्त्राजीवोऽस्य जीविका ॥ जीविका कराद्यादानद्वारा । तथा याज्ञवल्क्यः, प्रधानं क्षत्रिये कर्म प्रजानां परिपालनम् । इति । प्रधानं धर्मार्थं वृत्त्यर्थं च । पाणिनिरपि, राज्ञः कर्मणिष्यञं विदधाति-“गुणवचन- ब्राह्मणादिभ्यः कर्मणि च” इति “पत्यन्तपुरोहितादिभ्यो यक्” इति यकं वा । तेन राज्ञः क्षत्रियस्य कर्म राज्यमिति मन्वाद्ये- कवाक्यत्वात्सिद्धं भवति । तथा, “राजश्वशुराद्यत्” “राज्ञोऽपत्ये जातौ” इति सूत्र- वार्त्तिकाभ्यां राजशब्दः क्षत्रियवचनोऽवसीयते । तन्निष्पन्नराज- न्यशब्दस्य क्षत्रियपर्यायेषु पाठात् । जातिश्चेह क्षत्रियजातिर्गृह्यते राज्ञः क्षत्रियापत्ये यत्, स च जातिग्रहणात् वैश्यापत्ये निवार्यते । तथा, “राजानमभिषेचयेत्” इत्यत्राभिषेकोऽपि क्षत्रियस्यैव विज्ञायते। दृष्टं हि राजत्वमुद्दिश्याभिषेको विधीयते। तेन राजानं

Page 19Permalink

राजशब्दार्थविचारः । १३ सन्तमभिषेकेण संस्कुर्यात् । न त्वदृष्टं यूपत्वं “यूपं तक्षति” इ- त्यत्र यथा विधीयते तक्षणेन यूपं कुर्यादिति तद्वत् अभिषेकेण राजानं कुर्यादिति । यूपशब्दस्यालौकिकत्वात् । राजशब्दस्य तु क्षत्रियवचनत्वेन प्रसिद्धत्वात् । राजधर्मानित्युपक्रम्य- क्षत्रियस्य परो धर्मः प्रजानां परिपालनम् । क्षत्रियस्यापराधेन ब्राह्मणः सीदति क्षुधा ॥ वेदाभ्यासो हि विप्रस्य क्षत्रियस्याभिरक्षणम् । क्षत्रियाय ददौ राज्यम्- इत्याद्युपसंहारस्वरसाच्च क्षत्रियजातावेव राजशब्दः। अत एव- अनेकार्थकोषोऽपि, राजा शशाङ्के क्षत्रिये नृपे । इति । राज्यकर्त्तरि च वर्णान्तरे लाक्षणिकः। ननु ब्राह्मणस्य कथं राज्यकर्तृत्वम् ? । उच्यते । अजीवंस्तु यथोक्तेन ब्राह्मणः स्वेन कर्मणा । जीवेत् क्षत्रियधर्मेण स त्वस्य प्रत्यनन्तरः ॥ इति मनुवचनात् । वस्तुतस्त्वभिषेकादिगुणयुक्तस्य वक्ष्य- माणधर्माः । तथा च- मत्स्यपुराणे, मत्स्यं प्रति मनुरुवाच । राज्ञोऽभिषिक्तमात्रस्य किं नु कृत्यतमं भवेत् । एतन्मे सर्वमाचक्ष्व सम्यग्वेत्ति यतो भवान् ॥ इति । अत्र मात्रपदेन तमपा च अभिषेकानन्तरमेव प्रजापालनं तदङ्गसम्पत्तिश्च सम्पादनीयेति गम्यते । तदुक्तम्- तत्रैव अभिषेकार्द्रशिरसा राज्ञा राज्यावलोकिना ।

Page 20Permalink

१४ वीरमित्रोदयस्य राजनीतिप्रकाशे सहायवरणं कार्यं तत्र राज्यं प्रतिष्ठितम् ॥ सहाया अमात्यादयः । मेधातिथिस्तु राजशब्दश्च नेह क्षत्रियजातिवचनः । किं तर्हि, अभिषेकाधिपत्यादिगुणयोगिनि पुरुषे वर्तते । उल्लूकभट्टोऽपि राजशब्दो नात्र क्षत्रियजाति- वचनः किं त्वभिषिक्तजनपदपरिपालनकर्तृवचन इति । राजा सर्वस्येष्टे ब्राह्मणवर्जमिति गौतमव्याख्याने हरदत्तो ऽपि राजा अभिषिक्तः क्षत्रिय इति । विज्ञानेश्वरोऽपि राजधर्मादावाह-साधारणान् गृहस्थध- र्मानुक्त्वा इदानीं राज्याभिषेकादिगुणयुक्तस्य गृहस्थस्य विशे- षधर्मानाहेति । एष्वपि पक्षेषु “राजधर्मान् प्रवक्ष्यामि” इत्यादिराजधर्मप्र- तिपादकवचनेषु राजशब्दो जनपदैश्वर्यवन्नृपतिं लक्षणया प्र- तिपादयतीति पक्षः साधुः । उक्तयुक्त्या क्षत्रियसामान्यवा- चित्वात् । तथा च-- बृहत्पराशरः, अथातो नृपतेर्धर्मं वक्ष्यामि हितकाम्यया । इति । तथा विज्ञानेश्वरोऽपि, अभिषेकादिगुणयुक्तस्य राज्ञः प्रजापालनं परो धर्मः । तथापि नृपग्रहणसमभिव्याहारादनाभिषिक्तेऽपि जनपदै- श्वर्यवति लोकप्रसिद्ध्या राजशब्दो वर्तते । तथा, यद्यपि राजानमधिकृत्यायं राजधर्मकलाप उक्त- स्तथापि वर्णान्तरस्यापि कियन्मण्डलादिपरिपालनाधिकृतस्यायं राजधर्मो वेदितव्यः । “ राजधर्मान् प्रवक्ष्यामि ” “ यथावृत्तो भवेन्नृप ” इति पृथक् नृपग्रहणात्करग्रहणस्य रक्षार्थत्वाच्च रक्ष- णस्य दण्डप्रणयनायत्तत्वादिति ।