युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 119, कुल 278 में से
संदर्भ में पढ़ेंप्रसाधनोयुक्तिः । ७२ काष्ठजा धातुजा चैव शृङ्गजा च यथाक्रमम् । जाङ्गला नूप-सामान्य-देशजानां महीभुजाम् ॥ ६२ ॥ छत्रदण्ड-वदुन्नेयः काष्ठजाया विनिश्चयः । कनकं रजतं ताम्रं पित्तलं सीसकं तथा ॥ ६३ ॥ लोहं सर्व्व(T)ञ्च सर्व्वार्थ-(द्धे)मादित्यादि-दशाभुवाम् । राज्ञामेवोपयुज्येत कालकीर्त्ति-प्रसाधनो ॥ ६४ ॥ मृगाणां महिषाणाञ्च शृङ्गजाता प्रसाधनी । गज-दन्त-समुद्भूता राज्ञामेवोपयुज्यते ॥ ६५ ॥ अत्रापि रत्न-विन्यासो ज्ञेयश्चामर-दण्डवत् ॥ ६६ ॥ गुरुता लघुता चैव तथा घन-शलाकता । मनोहरत्व-मुदितं प्रसाधन्या-गुणग्रहः ॥ ६७ ॥ ... ... ... ... ... ... * —*— अथ वितान-लक्षणम् । वितानोऽष्टविधः प्रोक्तस्तेषां लक्षणमुच्यते । आयाम-परिणाहाभ्यां अष्टहस्तमितो हि सः(यः) ॥ ६८ ॥ वितानो मङ्गलो नाम मङ्गलाय महीभुजाम् । आयामो दशहस्तेन परिणाहेऽष्टहस्तकः ॥ ६६ ॥ वितानो विजयो नाम भर्तुः सर्व्वार्थ-साधकः । आयामे द्वादशभुजः प्रसरे दशहस्तकः ॥ विताने अपि ... ... यथाक्रमम् । ... ... ... ... ... (†) ॥ १०० ॥
- अत्र सन्दर्भभागं किञ्चित् त्रुटितं पश्यामि । आदर्शेषु तन्नास्ति । † अवापि च तथैवादर्शेषु सन्दर्भांशोऽन्तरा नावलोक्यते ।