युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 195, कुल 278 में से
संदर्भ में पढ़ेंवंश नीलोसमा भूमिः खरधारा सिताकृतिः । वंशाङ्कमिति जानीयाद्वंशवृद्धिकरः परः ॥ ८५ ॥ भूमिः शालदलाकारा अङ्गं लघु सितासितम् । शालाङ्ग एष खड्गः स्यात् पूज्यः सर्व्वार्थदायकः । अयं शाणे वमेद्वह्निं धारा चाप्यथवा भवेत् ॥ ८६ ॥ भूमिः सितासिता वापि अङ्गं ज्येष्ठोसमं लघु । ज्येष्ठोवज्रमिदं निन्यं न स्पृश्यं वा हितेच्छुभिः (६) ॥८७॥ पुराणजालसदृशमङ्गं भूमिः सितासिता । जालवज्रमिदं पूज्यं शत्रुसम्पत्तिनाशनम् ॥ ८८ ॥ यदि शाणे वमेन्नीलां शिखां वह्निं वमेच्च वा । तदैष दुर्लभः खड्गो नान्यथा भयहेतुकः ॥ ८६ ॥ अङ्गं पिपीलिकाकारं भूमिर्धूम्ना तथासिता । पिपीलिकाङ्ग इत्येष तत्क्षते कण्डु-सम्भवः । स्वयं यदि भवेद् धम्म्रः शाणे पूज्यतमस्तदा ॥ ६० ॥ नलपत्रसमाभूमिरङ्गं (७) तत्कुसुमोपमम् । नलङ्कमिति जानीयाद् भर्तुः सर्व्वार्थसाधकः ॥ ६१ ॥ निरङ्गानिर्मला भूमिर्घृष्टं घृष्टं वमेद्रजः । दृढ़ा धारा भृशस्थूला आघातं सहते न च । रजोवज्रमिदं निन्यं शत्रूणां विजयावहम् ॥ ६२ ॥ कुष्माण्डवीजसदृशमङ्गं भूमिः सितासिता । कुष्माण्डवज्रं जानीयात् तत्क्षते वेगनिग्रहः ॥ ६३ ॥ अङ्गं नृरोम-सदृशं भूमिर्धूम्ना सितासिता । रोमाङ्कमिति जानीयात् तत्क्षते पिड़कोद्ग(प)मः ॥ ६४ ॥ (६) या हिताक्षुभिः इति (क) पुस्तक पाठः । (७) भूमिरेकोङ्गः इति (ख) पुस्तक एाठः ।