युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 228, कुल 278 में से
संदर्भ में पढ़ें१८८ युक्तिकल्पतरो— तत्राद्यौ विदितार्थौ तु शेषाणां लक्षणं शृणु । त्रयः पादाः सिता यस्य कृष्णश्चैकोऽभिजायते ॥ ८२ ॥ त्रयो वाप्यसिता यस्य एकः शुक्लोऽभिजायते (१) । मुषलो नाम पापोऽयं दूरे त्याज्यो हयाधमः ॥ ८३ ॥ विकटो विषमो यस्य दशनः स करालकः । करालो कुरुते नाशं भर्तुरत्र न संशयः ॥ ८४ ॥ कृष्णतालुर्हयो नाशं कुरुते नात्र संशयः । विषदन्तो भवेद्यस्तु कृष्णतालु र्न दुष्यते ॥ ८५ ॥ कर्णान्ते चूलिकान्ते च शृङ्गवल्लक्ष्यते यदि । स शृङ्गी कुरुते नाशं राष्ट्रस्य च कुलस्य च ॥ ८६ ॥ एकाण्डोऽजातकाण्डश्च हीनाण्डोऽभ्यधिकाण्डकः । घण्डी (२) च कम्बली चैव षड़ेते पापकृत्तमाः ॥ ८७ ॥ इत्यश्वस्य दोषाः । अथाश्वस्यारिष्टम् । सुस्थस्यापि च नेत्रान्ते स्यातां नीले च वाजिनः । तथैव तस्य जानीयात् भवेन्मृत्युर्द्विवार्षिकी ॥ ८८ ॥ नीलपोते च नेत्रान्ते त्रिभिर्मासैर्वपुःक्षयः । यस्य नेत्रान्तरे रेखा वहुवर्णा प्रजायते ॥ ८६ ॥ विशेषाद्वाजिनो ज्ञेयं तस्यायुः पञ्चमासिकम् । जिह्वायां जायते विन्दुरकस्माद्यदिवाजिनः ॥ ६० ॥ मासैकं जीवितं तत्र पोते मासद्वयं तथा । रक्ते मृत्युस्त्रिभिर्मासैश्चतुर्भिञ्च विचितके ॥ ६१ ॥ (१) विजायते इति (क) पुस्तक पाठः । (२) वष्टी इति (ख) पुस्तक पाठः ।