भारतकोश
संग्रह पर लौटें

युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)

Yuktikalpataru of Maharaja Bhoja with Commentary

महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा

DevanagariHindipublished278 पृष्ठ

१८८ युक्तिकल्पतरो— तत्राद्यौ विदितार्थौ तु शेषाणां लक्षणं शृणु । त्रयः पादाः सिता यस्य कृष्णश्चैकोऽभिजायते ॥ ८२ ॥ त्रयो वाप्यसिता यस्य एकः शुक्लोऽभिजायते (१) । मुषलो नाम पापोऽयं दूरे त्याज्यो हयाधमः ॥ ८३ ॥ विकटो विषमो यस्य दशनः स करालकः । करालो कुरुते नाशं भर्तुरत्र न संशयः ॥ ८४ ॥ कृष्णतालुर्हयो नाशं कुरुते नात्र संशयः । विषदन्तो भवेद्यस्तु कृष्णतालु र्न दुष्यते ॥ ८५ ॥ कर्णान्ते चूलिकान्ते च शृङ्गवल्लक्ष्यते यदि । स शृङ्गी कुरुते नाशं राष्ट्रस्य च कुलस्य च ॥ ८६ ॥ एकाण्डोऽजातकाण्डश्च हीनाण्डोऽभ्यधिकाण्डकः । घण्डी (२) च कम्बली चैव षड़ेते पापकृत्तमाः ॥ ८७ ॥ इत्यश्वस्य दोषाः । अथाश्वस्यारिष्टम् । सुस्थस्यापि च नेत्रान्ते स्यातां नीले च वाजिनः । तथैव तस्य जानीयात् भवेन्मृत्युर्द्विवार्षिकी ॥ ८८ ॥ नीलपोते च नेत्रान्ते त्रिभिर्मासैर्वपुःक्षयः । यस्य नेत्रान्तरे रेखा वहुवर्णा प्रजायते ॥ ८६ ॥ विशेषाद्वाजिनो ज्ञेयं तस्यायुः पञ्चमासिकम् । जिह्वायां जायते विन्दुरकस्माद्यदिवाजिनः ॥ ६० ॥ मासैकं जीवितं तत्र पोते मासद्वयं तथा । रक्ते मृत्युस्त्रिभिर्मासैश्चतुर्भिञ्च विचितके ॥ ६१ ॥ (१) विजायते इति (क) पुस्तक पाठः । (२) वष्टी इति (ख) पुस्तक पाठः ।

अश्वयुक्तिः । १८८ पञ्चभिर्नीलवर्णे च षड्भिर्वभ्र् (१) समाकृतौ । सप्तभिः पाटलाकारे चणकाभे तथाष्टभिः ॥ ९२ ॥ नवभिश्च हरिद्राभे दशभिर्जतुकोपमे । एकादशे सुवर्णाभे वत्सरेण हिमद्युतौ ॥ ९३ ॥ यस्य श्वासो भवेदुष्णः शरीरं पुलकान्वितम् (२) । जिह्वा हि मलिनाकारा मासषट्कं स जीवति ॥ ९४ ॥ जिह्वाग्रे पिड़का यस्य पादान्ते च तथोदरे । मूत्रं करोति रक्तं वा मासषट्कं स जीवति ॥ ९५ ॥ कर्णयोः क्षतजं यस्य नेत्राभ्यां वा प्रवर्त्तते । वाजिनः पित्तग्रस्तस्य दश मासान् स जीवति ॥ ९६ ॥ यस्य नेत्रे हरिद्राभे यस्य वातार्द्दितस्य च । तस्यायुः सप्तमासोयं बहुवर्णे तथा दिनैः ॥ ९७ ॥ यस्यैकं लोचनं हीनं द्वितीयं रक्तसन्निभम् । पुटान्ते च स विज्ञेयः पीताभे (३) मासजीवकः ॥ ९८ ॥ (एतानि अरिष्टानि वक्त्रदोषजानि ।) स्फुलिङ्गा यस्य दृश्यन्ते पुच्छतोऽश्वस्य वह्निजाः । निर्गच्छन्तः प्रभोर्नाशं ते वदन्ति निशागमे ॥ ९९ ॥ अश्वशालां समासाद्य यदा च मधुमक्षिकाः । मधुजालं प्रबध्नन्ति तदाश्वान् (४) घ्नन्ति कृत्स्नशः ॥ १०० ॥ इत्यरिष्टानि । (१) वक्र इति (क) पुस्तक पाठः । (२) पुलकाङ्कितम् इति (ख) पुस्तक पाठः । (३) पीताभो इति (ग) पुस्तक पाठः । (४) तदश्वान् इति (घ) पुस्तकपाठः ।

१८० युत्तिकल्पतरो— अथ हय क्रियाकालः । खवरुण गुरुपार्श्वास्थ्येषु भौमार्कवारे, खतिथि करणताराचन्द्रयोगोदयेषु । शुभमिह हयः काष्ठं (१) कार्य्यमार्य्येण बुद्ध्वा ; न शनिरविकुजानां वासरे नोयतारे ॥ १ ॥ इति हयक्रियाकालः । अथ हयारोहण ज्ञानम् । चलकिशलयपादः कर्णमध्यैक दृष्टि-, र्नचलति कटिदेशः स्वासने संस्थितो यः । हयहृदयगतिज्ञः स्थानदण्डावतापः (२) ; स खलु तुरगयाता पूज्यते पार्थिवेन्द्रैः ॥ २ ॥ मेरुः स्थिरो यस्य चलौ च पादौ, त्रिकोन्नतं संहतमासनञ्च । स वाजिवाहः प्रथितः पृथिव्यां ; शेषा नरा भारकरा हयानाम् ॥ ३ ॥ इति हयारोहणं ज्ञानम् । अथ हयताड़नविधिः । रक्तकोष्ठे (३) मुखे चौष्ठे गले पुच्छे च ताड़येत् । भीते वक्षःस्थलं हन्यादृक्तं चोन्मार्गामिनः ॥ ४ ॥

( १ ) काष्ठं इति (क) पुस्तक पाठः । ( २ ) स्थानदण्डावपाती इति (ख) पुस्तक पाठः । ( ३ ) कण्ठे इति (ग) पुस्तक पाठः ।

अश्वयुक्तिः । १८१ कुपिते पुच्छसंस्थानं भ्रान्ते जानुद्वयं तथा । सर्व्वस्या(स्य)प्राप्तदण्डस्य दण्डमेकं निपातयेत् ॥ ५ ॥ यद्यत्प्रस्खलते गात्रं तत्र दण्डं निपातयेत् । अस्थानदण्डपाताच्च बहुदोषः प्रजायते । तस्मान्निरोच्य कर्त्तव्यं हये दण्डनिपातनम् ॥ ६ ॥ इति हय ताड़नविधिः । अथ हयधावनविधिः । हस्तैश्चतुर्विंशतिभिर्धनुर्दण्ड उदाहृतः । अक्ष्णो र्निमेषणान्यष्टौ मात्रा प्रोक्ता विचक्षणैः ॥ ७ ॥ मात्रा षोड़शकेनाश्वो यो धावति धनुःशतम् । तमुत्तमोत्तमं विद्याद्वायुवेगं महाजवम् (१) ॥ ८ ॥ विंशत्या मध्यमो ज्ञेयो ह्यतोऽन्ये चाधमा मताः । नभस्याश्वयुजे मासि नैवाश्वान् वाहयेन्नृपः ॥ ९ ॥ वज्राग्निसदृशं पित्तं श्रमात् कुप्यति वाजिनाम् । कार्य्येण महता वापि योज्यो मासि तु कार्त्तिके ॥ १० ॥ हेमन्ते शिशिरे योगो वसन्ते च यदृच्छया । बालं वृद्धं कृशं रुग्णं दत्तस्नेहं वृहद्गलिम् (२) । पूर्णातिरिक्त कोष्ठञ्च गुर्ब्बिणीञ्च न वाहयेत् ॥ ११ ॥ इति हयधावनविधिः । ( १ ) महाजरम् इति (क) पुस्तक पाठः । ( २ ) बालो वृद्धः कृशो रोगी दग्धस्नेहो बृहद्गलिः इति (ख) पुस्तक पाठः ।

१८२ युक्तिकल्पतरौ- अथ हयरक्तमोक्षणविधिः । द्वासप्ततिसहस्राणि नाड़ीनां सम्भवन्ति हि । वाजिनामिह सर्वेषामाशु रक्तं व्यवस्थितम् ॥ १२ ॥ तासां निर्मोक्षणार्थाय दाराख्यष्टौ वदाम्यहम् । यैर्याति कुत्सितं रक्तं सर्व्वदेहसमुद्भवम् ॥ १३ ॥ कण्ठे कक्षे लोचनयो रंसयोश्च मुखे तथा । अण्डयोरथ पादेषु पार्श्वयोरुभयोरपि ॥ १४ ॥ एतद्धर्म (१) सुविज्ञेयं वाजिनां भिषगुत्तमैः । अन्ये सप्तदशान्याहुः शिराद्वाराणि वाजिनः ॥ १५ ॥ येषु रक्तं हृतं सद्यः प्रकरोति ततः सुखम् । गुल्फे गले तथा मेढ़े कक्षान्ते चैव पत्रके ॥ १६ ॥ गुदे पुच्छेऽथ वस्तौ च जङ्घयोः सर्व्वसन्धिषु । जिह्वायाञ्चाधरे चौष्ठे नेत्रयोरुभयोरपि ॥ १७ ॥ कर्णमूले मणौ गण्डे (२) रुधिरं स्रावयेद्भिषक् । सौश्रुतमानप(पा)लेन त्याज्यं रक्तं तुरङ्गमाणम् ॥ १८ ॥ तद्यथा । पलं शतं मुखे त्याज्यं (३) कक्षयोश्चैकमेव च । शताद्र्धं नेत्रदेशाच्च मेढ्रदेशात् तथैव च ॥ १९ ॥ गण्डयोरण्डयोश्चैव स्रावयेत् पञ्चविंशतिम् । द्वादशैव गुदे प्राङ्गुरश्व(४) शास्त्रविचक्षणाः ॥ २० ॥ (१) एतद्धर्म्मं सुविज्ञेयो वाजिनां भिषगुत्तमम् इति (क) पुस्तक पाठः । (२) कर्णमूले मने प्रान्ते इति (ख) पुस्तक पाठः । (३) न्याय्यं इति (ग) पुस्तक पाठः । (४) प्राङ्गुरश्व इति (घ) पुस्तक पाठः ।

अश्वयुक्तिः । १८३ पैत्तिकं कालिकं विद्याद्वाते विद्यात् कफेऽनिलम् । पिच्छिलं श्लेष्मलं पाण्डु कषायोदकवच्च यत् ॥ २१ ॥ इति हय रक्त-मोक्षणविधिः । अथ हय-ऋतुचर्या । न प्राज्ञो वाहयेदश्वान् प्रावृट्काले कथञ्चन । यदौच्छेदस्मृतं (१) तस्य वाहनं दशमासिकम् ॥ २२ ॥ कूपोदकं कटुकतैल-निवात(ह्र)गेहं, शस्तं पलार्द्धलवणं दिवसान्तरेण । तत्रान्यथा सति सुखामयवौर्य्यहानि- र्मुख्यैर्बलैर्विरहितस्तु वयो (२) विनश्येत् ॥ २३ ॥ शरदि गुड़घृतं (३) पयः प्रशस्तं, शरदि सिताष्टपल प्रमाणमच्छम् । मधुरमथ जलं सरोवरात्थं ; घृतयुतनील सुकुष्टकाश्च (४) भोज्याः ॥ २४ ॥ हेमन्तकाले घृत तैलमाषा(षाः), निर्वातसंस्था च पयो यथेच्छम् । शनैः शनैर्वाहनकर्मकुर्य्याद् ; यवांश्च पक्त्वा (५) वितरेद्बु विधिज्ञः ॥ २५ ॥ ( १ ) यदौच्छेदग्रतः इति (क) पुस्तक पाठः । ( २ ) रगो इति (ख) पुस्तक पाठः । ( ३ ) युतं इति (ग) पुस्तक पाठः । ( ४ ) मुकुन्दकाश्च इति (घ) पुस्तक पाठः । ( ५ ) मुक्ता इति (च) पुस्तक पाठः । २५

१८४          युक्तिकल्पतरौ— शिशिरे तैल पलाष्टकं कटिख्यं , दिनसप्तावधि पाययेत् तुरङ्गान् । तदनु प्रातर्भोजयेद् यवांश्च ; यवयवसांश्च तथाऽमृतस्वरूपान् ॥ २६ ॥ यस्य दत्ता यवाभोज्ये शिशिरे समुपस्थिते । अकृत्वापि क्रियाः सर्व्वाः स हयः सुखमृच्छति ॥ २७ ॥ वसन्ते संप्राप्ते निजसुखवशाद्वाह्य हयान्, घृतं तैलं शस्तं सकलविधिरुक्तोऽपि च मतः । पयो दद्यादस्मै सलवणमथो वाहनविधि- ; भृशं योज्यस्तेनाब्दमपि सुखमिच्छेद्धयवरः ॥ २८ ॥ वसन्तसमये योऽश्वः स्थाने तिष्ठति बन्धने । तस्योत्साहः प्रणश्येत सालस्यं जायते वपुः ॥ २९ ॥ ग्रीष्मे घृतं चतजमोक्षणघर्म्मशान्तिं, सुच्छायवन्धन-विमर्द्दन-शीततोयम् । दूर्व्वा तृणं लघु च कोमलमन्यदेव ; यत् किञ्चिदेवमुपयुक्तमिदं वदन्ति ॥ ३० ॥ भोजेन तु हयलक्षणमन्यथोक्तम् । तद्यथा,— स्निग्धाङ्गो लघुतरलोमकस्तु पुच्छो, दीर्घास्यास्थिनयनकेश पृष्ठवंशः (१) । रक्तोष्ठः पृथुलनितम्बभारर(व)क्षा ; राजार्हो भवति तुरङ्गमः प्रशस्यः ॥ ३१ ॥


(१) स्निग्धा......कर्ण पुच्छोदीर्घास्य विनयनकेश पृष्ठवंशः इति (क) पुस्तक पाठः ।

अश्वयुक्तिः । १८५ नाभि(मेरा)मारभ्य देहस्तु द्विधा पूर्ब्बापरक्रमात् । पूर्ब्बकायस्थिता रक्ताः शुभाय हय-संस्थिताः ३२ ॥ अधः काये स्थिता रक्ताः अधमत्व-प्रकाशकाः । शक्तीनां वैपरीत्येन प्रशस्त-फलमादिशेत् ॥ ३३ ॥ वात्स्यस्तु ,— ब्रह्मादि-जातिभेदेन हयजातिश्चतुर्विधा ॥ ३४ ॥ तद्यथा,— ये शुक्लाः सुविमलपुष्पगन्धका वा, शुद्धाङ्गाः सघृणसदुष्ण भोजिनो वा । अक्रुद्धाः समरगता भृशञ्च पुष्टास्ते विप्राः ; क्षितिपति-वाहनेऽति योग्याः ॥ ३५ ॥ ये रक्ताः सद्गुरुगन्धयोऽहता वा, संरुष्टा बहुतरभोजिनो बलाढ्याः । अश्रान्ताः सकलगुणग्रहाः प्रवीणाः ; विज्ञेया विधिकरजात-जातयस्ते ॥ ३६ ॥

१८६ युक्तिकल्पतरौ— अन्यत्रतु। सात्त्विका राजसाश्चेति तामसाश्चेति ते हयाः ॥ ४१ ॥ ये शुद्धवर्णा भृशवेगयुक्ता अश्रान्ति-भाजो वहुभोगिनश्च । अक्रोधशीलाः समरेऽतिरुष्टास्ते सात्त्विका भूप तुरङ्गमाः स्युः ॥४२॥ ये रक्तवर्णा गुरुवेगरोषाः कषातिघातं (१) न हि ये सहन्ते । येऽमी वलाढ्याः खलु दीर्घदेहास्ते राजसा भूप तुरङ्गमाः स्युः ॥४३॥ ये कृष्णवर्णास्तनुरोषवेगा अल्पाशिनो लक्षणलक्षिताश्च । ये दुर्बलाः सर्व्वगुणैर्विहीनास्ते तामसा भूप तुरङ्गमाऽधमाः ॥४४॥ द्वयोर्लक्षण सम्बन्धात् द्विगुणो वाजिमध्यमः । त्रयाणां गुणसम्बन्धात् त्रिगुणो वाजिनिन्दितः ॥ ४५ ॥ पराशर संहितायान्तु,— पृथिवि-वायुतेजः खैः पञ्चभिस्तुरगाश्रितैः । उल्लक्षणैः पञ्चधा भेदाः पराशरमता यथा ॥ ४६ ॥ ये स्थूलाः श्रमसहदेहरूपभाज- श्चाक्रान्ता बहुतर भोजनाश्च दीर्घाः । अक्रुद्धाः समरगतास्तु रोषभाजो ; भौमास्ते घनगुरुघर्घरस्वरास्तु ॥ ४७ ॥ ये श्लथाङ्गास्तनुवलाः श्रमसह कलेवराः । अक्रोधवेगाः स स्वप्ना (ङ्गा) आप्यास्ते तुरगाधमाः ॥ ४८ ॥ ये वातवेग-प्रतिमोग्रवेगाः शुष्का भृशं दीर्घकलेवराश्च । अश्रान्तिभाजो वहुदूरगाश्च ते वायवा वाजिवराः प्रदिष्टाः ॥ ४६ ॥ ये क्रोधशीला भृशवेगयुक्ताः, मुक्ता दिनात् क्रोशशतं व्रजन्ति।


(१) कलाभिघातं इति (क) पुस्तक पाठः ।

ते तैजसाः पुण्यवतां प्रदेशे ; भवन्ति पुण्यैरपि ते मिलन्ति ॥ ५० ॥ एको यदा तैजससंज्ञकोऽश्वः, किं कार्य्यमन्यैस्तुरगाधमैस्तु । शुद्धं यदा हौरखखण्डमेकं ; किं कार्य्यमन्यैर्मणिभिर्विचित्रैः ॥ ५१ ॥ उत्प्लुत्य ये वाजिवरा व्रजन्ति क्रुद्धा भृशं वेगसमन्विताश्च । ये लङ्घयन्तः परिखामपारां ते गागनाः पुण्यतमाः प्रदिष्टाः ॥ ५२ ॥ द्वयोर्लक्षणसम्बन्धात् तुरगः स्याद् द्विभौतिकः । स्वजातिगुणभूतानां हयानां वाहनं शुभम् ॥ ५२ ॥ असञ्जातिगुणादीनां वाहनं क्लेशकारिणम् । एषां चिकित्सा न प्रोक्ता ग्रन्थविस्तार-सम्भवात् ॥ ५४ ॥ शालिहोत्रादिविज्ञानात् तद्विज्ञेयं यथोत्तरम् । असम्भवे (१) हि दुष्टाश्वं वाहयेदिति चेत् तदा ॥ ५५ ॥ तिलं सकाञ्चनं दद्याल्लवणं वा गुडान्वितम् । रेवन्तं (२) पूजयेद्वापि निजं निर्मन्थयेत् तदा । दद्यात् ताम्रपलं वापि अभावे सर्व्वकर्मणः ॥ ५६ ॥ एवमन्यत्रापि । काञ्चनं रजतं ताम्रं लौहमेतद् यथाक्रमम् । ब्रह्मादि-जातिदोषाणां देयमेतत्प्रशान्तये ॥ ५७ ॥ अभावेऽपि च सर्व्वेषां ताम्रेण स्यात् प्रतिक्रिया ॥ ५८ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ हय-परीक्षा (क) ॥ ० ॥ ( १ ) असम्भवेति इति (क) पुस्तक पाठः । ( २ ) वेमत्थं इति (ख) पुस्तक पाठः ।

  • तुरगतत्त्वं सर्व्वं शालिहोत्रीये, श्रीमज्जयन्त-नकुल-रचिताश्ववैद्यकेऽनुसन्धेयम् ।

१८८ युक्तिकल्पतरौ— अथ गज परीक्षा। तत्र कालः। ऐन्द्रमित्रवरुणानिल पुष्याचन्द्रतोयरवि वारिजतारे। सूर्य्य-शुक्र गुरु सोमजवारे (१) श्रेयसे भवति कुञ्जरयानम् ॥ ५६ ॥ लग्ने चरे शुभसमाश्रित वीक्षिते वा. चन्द्रस्य दृष्टिरिभ-यानविधौ विरुद्धा। सौम्ये दिने करनिश्राटवसुश्रवण्यतोयेश- मैत्र (२) मदितिश्च शुभग्रहाहः ॥ ६० ॥ स्यात्कुञ्जरक्रयणदर्शनदानकालः शेषेषु दुःखफलमार्कसुतेऽह्नि (३) चैव। गजानामष्टधा भेदः संक्षेपेण प्रकाश्यते। ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः ॥ ६१ ॥ पुष्यदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः। एषां वंशप्रसूतत्वात्(ताद्वा) गजानामष्टजातयः ॥ ६२ ॥ ये कुञ्जराः पाण्डुरसर्व्वदेहाः सुदीर्घदन्ताः सितपुष्पदन्ताः। आलोमशा अल्पभुजो वलाढ्या महाप्रमाणा लघुपृष्टलिङ्गाः ॥६३॥ क्रुद्धाः समौके मृदवोऽन्यकाले नद्यम्बुपाना (४) बहुलोग्रदानाः। विस्तीर्णदानास्तनुलोमपुच्छा ऐरावतस्याभिजनप्रसूताः ॥ ६४ ॥

( १ ) सौम्यवासरे इति (क) पुस्तक पाठः। ( २ ) सामिदिनेकरनिश्राटवसुश्रवण्यतोयेश मैद्र इति (ख) पुस्तक पाठः। ( ३ ) सुताह्नि चैव इति (ग) पुस्तक पाठः। ( ४ ) लघ्वम्बु पाना इति (घ) पुस्तक पाठः।

अश्वयुक्तिः । १८९ तेष्वेव सर्वेषु विशुद्धवर्णा अतीव वृत्ताः प्रभवन्ति मुक्ताः । नाल्पेन पुण्येन महीपतीनां स्पृशन्ति भूमण्डलमध्यमेते ॥ ६५ ॥ दन्ता विभग्ना अपि युद्धरङ्गे पुनः प्ररोहन्ति पुरैव तेषाम् । ये कुञ्जराः कोमलसर्व्वदेहाः पुच्छा न दण्डाः खरग(द)ण्डदेशाः ॥ ६६॥ स्रवन्मदाः सन्ततरोषभाजोऽमर प्रियाः सर्व्वभुजो वलाढ्याः । सुतीक्ष्णदन्ता रसना गकानां ते पुण्डरीक प्रवरप्रसूताः । ते पद्मगन्धं विसृजन्ति रेतो दानञ्च नैषां वमथुः प्रभूता ॥ ६७ ॥ नतोयपानेऽभ्यधिका स्पृहाच श्रमेऽपि नैते वलमुत्सृजन्ति । अमी तु येषां निवसन्ति राज्ञां ते वै समस्तक्षितिशासनार्हाः ॥ ६८ ॥ ये कुञ्जराः कर्कशखर्व्वदेहाः कदापि माद्यन्ति गलन्मदास्र । आहार योगाद्दलवीर्य्यभाजो नात्यम्बुकामा बहुलोमगण्डाः । विरूपदन्तास्तनुपुच्छकर्णा ज्ञेया बुधैर्वामनवंशजाताः ॥ ६९ ॥ ये दीर्घदेहास्तनुदीर्घशुण्डाः कुदन्तभाजो मलपूर्ण देहाः । स्थविष्ठगण्डाः कलहप्रियाश्च ते कुञ्जराः स्युः कुमुदस्य वंशाः । अन्यद्विपान् दर्शनमात्रतस्तु निघ्नन्ति ते दुर्गमनाश्च पुंसाम् ॥ ७० ॥ ये स्निग्धदेहाः सलिलाभिलाषा महाप्रमाणास्तनुशुण्डदन्ताः । स्थविष्ठदन्ताः श्रमदुःसहाश्च ते कुञ्जराश्चाञ्जनवंशजाताः ॥ ७१ ॥ रेतश्च दानञ्च सृजन्ति शश्वदानूपदेशे प्रभवन्ति ये तु । ते पुष्पदन्ताभि(ति)जनप्रसूता महाजवास्ते तनुपुच्छभागाः ॥ ७२ ॥ सुदीर्घदन्ता बहुलोमभाजो महाप्रमाणाश्च सुकर्कशाङ्गाः । भ्राम्यन्तिनाध्वभ्रमणाभियोगान्नाहारपानादिषु चातिशक्तिः ॥७३॥ मरुप्रदेशे विचरन्ति ते वै मुक्ताफलानामिह जन्ममध्ये । महाशरीरातिसुकर्कशाङ्गा नारिष्टदन्ता मृदुशुक्लदन्ताः ॥ ७४ ॥ महाशनाः क्षीणपुरीष मूत्र- विस्तीर्ण कर्णास्तनुरोमगण्डाः ।

२०० युक्तिकल्पतरौ— ते सार्ब्भौमाभिजनप्रसूता विशुद्धमुक्ताः प्रभवन्ति (१) चैषु ॥ ७५ ॥ ये दीर्घशुण्डाः सुविभक्तदेहा महाजवाः क्रोधपरोतकाश्च । विस्तव्ध कर्णास्तनुपुच्छदन्ताः सदाशनाश्चैव वशा(सा)प्रियाश्च ॥ ७६ ॥ प्रवृद्धगण्डास्तनुलोमयुक्ताः ते सुप्रतीकप्रवरप्रसूताः (२) । महाप्रमाणामितमौक्तिकानि भवन्ति चैतन्निजगाद काप्यः ॥ ७७ ॥ एकजातिः समुत्पन्नो गजः स्तब्ध इति स्मृतः । लक्षणञ्च यथा प्रोक्तं शुद्धश्चेत्यत्र दृश्यते ॥ ७८ ॥ शुद्धद्विजाति सम्भूतस्तल्लक्षण समन्वितः । जारजो नाम विख्यातो यथास्वं बलवीर्य्यवान् ॥ ७९ ॥ द्विजातिद्वयजातो यः (३) स शूर इति कथ्यते । द्विजाति जारजोत्पन्न उद्भ्रान्त इति कथ्यते ॥ ८० ॥ एवं संयोगभेदेन गजजातिरनेकधा । तां यो जानाति तत्त्वेन स राज्ञः पात्रमर्हति ॥ ८१ ॥ ब्रह्मादिजातिभेदेन तेषां भेदश्चतुर्विधः । विशालाङ्गाः पवित्राश्च ब्राह्मणाः स्वल्पभोजिनः । शूरा(ला) विशाला वक्षाशाः क्रुद्धाः क्षत्रियजातयः ॥ ८२ ॥ अथ गुणाः । यथा रक्तं यथा खङ्गो यथा स्त्री ससयो यथा । परीक्ष्यन्ते गुणैरेवं गजानामपि निर्णयः ॥ ८३ ॥ रम्यो भौमो (४) ध्वजोऽधीरो वीरः शूरोऽष्टमङ्गलः । (१) प्रवदन्ति इति (क) पुस्तकपाठः । (२) तेज खयुक्ता प्रवरप्रसूताः इति (ख) पुस्तक पाठः । (३) द्वयसम्भूतः इति (ग) पुस्तक पाठः । (४) वीरो इति (घ) पुस्तक पाठः ।

गजयुक्तिः । २०१ सुनन्दः सर्व्वतो भद्रः स्थिरो गम्भीरवेद्यपि । वरारोह इति प्रोक्ता गजा द्वादश सत्तमाः ॥ ८४ ॥ तद्यथाह भोजः । विभक्तावयवः पुष्टः सुदन्तः सुमहानपि । तेजस्वी रम्य इत्युक्तो गजः सम्पत्तिवर्द्धकः ॥ ८५ ॥ अङ्कुशादि-प्रहारेण यस्य भीतिर्न जायते । स भीमोऽयं गजः शुद्धो राज्ञः सर्व्वार्थ-साधनः ॥ ८६ ॥ शुण्डाग्रात् पुच्छपर्य्यन्तं रेखा यस्यैव दृश्यते । ध्वजः शुद्धो गजी नाम साम्राज्य प्राणदायकः ॥ ८७ ॥ समौ कुम्भौ खराकारौ आवत्तौ तत्र चोच्छ्रयौ (१) । अधीरोऽयं गजो नाम्ना राज्ञां विप्रविनाशनः ॥ ८८ ॥ आवर्त्तः पृष्ठतो यस्य स्वनाभिमभिविन्दति । पुष्टाङ्गो बलवान् वीरो राज्ञामभिमतप्रदः ॥ ८९ ॥ महाप्रमाणः पुष्टाङ्गः सुदन्तश्चारुगण्डकः । भक्षणे भक्षणे श्रान्तः शूरो लक्ष्मो-विवर्द्धनः ॥ ९० ॥ सितौ दन्तौ सितः पुच्छः सिता रेखा सिता नखाः । रक्तकुम्भाक्षिवौय्याङ्गेर्विज्ञेयः सोऽष्टमङ्गलः ॥ ९१ ॥ अयं गजेन्द्रो यस्यास्ते तस्य स्यात् सकला मही । नारिष्टानीतयस्तत्र यत्रास्तेऽयं गजेश्वरः ॥ ९२ ॥ आयोजनशतं यावदनर्थं कुरुते क्षयम् । नाल्पपुण्यैरयं प्राप्यो मनुजेन्द्रैः कलौ युगे ॥ ९३ ॥ शुभौ दन्तौ शुभः शुण्डः शुभौ कुम्भौ शुभस्तनुः । ग(श्र)ण्डयोर्गण्डयोर्मध्ये आवर्त्तः शुभलक्षणः ॥ ९४ ॥ ( १ ) चीव्रतौ इति (क) पुस्तक पाठः । २६

२०२ युक्तिकल्पतरौ— ललाटमध्ये यस्यैव दृश्यते येन भूभुजा । ... ... ... ... ... ततो गुणीन्द्राः * ॥ ९५ ॥ शश्वन्मदस्रुति-परिप्लुतगण्डदेशा,- स्तोत्राङ्कुशेन विनिवारयितुं न शक्याः । ज्ञातिद्विषो नवपयोद(ध)रवा गभीराः ; पृथ्वीभुजां सकलसौख्यकरा भवन्ति ॥ ९६ ॥ अथ दोषाः । दीनःक्षीणोऽथ विषमो विरूपो विकलः खरः । विमदो आपकः काको धूमो जटिल इत्यपि ॥ ९७ ॥ अजिनो मण्डली श्वित्री हृतावर्त्तो महाभयः । राष्ट्रहा मुषली भालो निःसत्त्व (१) इति विंशतिः ॥ महादोषाः समाख्याता गजानां भोजभूभुजा ॥ ९८ ॥ तद्यथा । अतिक्षीणतरः क्षीणतनुदन्तोऽतिनिष्प्रभः । दीनाख्यः कुरुते दीनं

गजयुक्तिः । २०३ खरता सहजा यस्य शरीरेऽस्तौति लक्ष्यते । तनुदन्तकरो हस्तौ खरः कुलविनाशनः ॥ ४ ॥ नजायते मदो यस्य स्वकाले जायतेऽथवा । विरूपो विवशो वापि विमदं दूरतस्त्यजेत् ॥ ५ ॥ लघु प्रमाणः क्षौणाङ्गस्तनुशुण्ड शिरोदरः । अश्रान्तं श्वसिति (१) व्यग्रः पतेन्नेत्रयोर्मलम् ॥ ६ ॥ त्रिके पुच्छायतो वापि आवर्त्तो मण्डलोऽथवा । वहिः (द्भिः) प्रकुरुते लिङ्गं सर्व्वथा गतचेष्टवत् ॥ ७ ॥ भूभुजा नहि वोढव्योऽयं श्वापकाख्यो गजाधमः । यदीच्छेच्छाश्वतीं भूतिं शरीरारोग्यमेव वा ॥ ८ ॥ शङ्खदेशो यस्य भग्नौ स्कन्धदेशोऽति गुच्छकः (२) ! काकोऽयं कुरुते मृत्युं स्वामिनो नात्र संशयः ॥ ९ ॥ विषमौ शङ्खगौ दन्तौ यस्य शुण्डविरोधिनौ । भिद्यते वा विदीर्येतां स्वयं शून्यान्तरावुभौ ॥ कुरुते व्याधितं नाथं धूम्रनामा गजाधमः ॥ १० ॥ मूर्धजाः कर्कशा रूक्षा जटारूपानुवन्धिनः । यस्यायं जटिलो नागः कुरुते धनसंक्षयम् ॥ ११ ॥ स्कन्धे वा गात्रदेशे वा लग्नं चर्मोऽवलक्ष्यते । अजिनो नाम नागोऽयं

२०४ युक्तिकल्पतरौ— विरूपाण्युद्गतानीव मण्डली कुलनाशनः । तानि श्वेतानि यस्य स्युः श्वित्री स धननाशनः ॥ १४ ॥ हृदये उदरे चैव त्रिके पुच्छस्य मूलतः । गुदे मेढ्रे पदे चैव आवर्त्तेन हतश्रियम् ॥ १५ ॥ योगिनं कुरुते भूपं प्रवासिनमुपद्रुतम् (१) । गच्छतो यस्य गुल्फाभ्यां भवेत् संघर्षणं मुहुः । अपि सर्व्वगुणैर्युक्तस्त्याज्यश्च स महाभयः ॥ १६ ॥ राष्ट्रं धनं कुलं सैन्यं मैत्रं दारान् तथा प्रजाः । क्षपयत्य शुभो नागो दृष्टमात्रो न संशयः ॥ १७ ॥ तत्रापम्रियते लोकस्तत्र वज्रभयं भवेत् । व्याधि वह्निभयं वात्र यत्रास्ते स महाभयः ॥ १८ ॥ भृशं सन्ताड्यमानस्तु पादै कं यो न गच्छति । पृष्ठोदरं समाहृत्य रेखा रक्तसमा यदि ॥ १८ ॥ न्यस्ताग्रिमपदं स्थाने पश्चात् पातः पदे यदि । अपि सर्व्वगुणैर्युक्तो राष्ट्रहायं गजाधमः ॥ २० ॥ राष्ट्रादपाक्रियतेऽयं भूभुजा श्रियमिच्छता । राष्ट्रान्ते रक्षितो मोहात् कुरुते राष्ट्रसंचयम् ॥ २१ ॥ पादाश्चात्यन्तविषमा दन्तौ चान्योन्य विषमौ । पञ्जरो दृश्यते भग्न एको वाष्टौ (२) द्वयोऽथवा ॥ २२ ॥ दन्तौ वा चलतौ यस्य किं युवान (३) प्ररोहतः । कुम्भौ वा विषदौ यस्य मुषलौ स गजाधमः ॥ २३ ॥ (१) श्रुतम् इति (क) पुस्तक पाठः । (२) राष्टौ इति (ख) पुस्तकपाठः । (३) किमु वान इति (ग) पुस्तक पाठः ।

गजयुक्तिः । २०५ राष्ट्रदुर्ग (१) वलामात्य-क्षयकृत् तं परित्यजेत् । चर्म्मखण्ड इवाभाति भाले यस्याति कर्कशः ॥ २४ ॥ भालो स कुरुते नागो भर्तुः कुलधनक्षयम् । पुष्टो विशालः संहन्तः सत्कारोऽपि शुभोऽपि सन् ॥ न रणे साहसो यस्य स निःसत्त्वो गजाधमः ॥ २५ ॥ सर्व्वेषां गजदोषाणामुक्त एव महानयम् । येनैकेन गुणाः सर्व्वे तृणायन्ते सुनिश्चितम् ॥ २६ ॥ पालकाप्यस्तु * । क्षीणदन्ताङ्ग शुक्लत्वं विषमत्वं रदादिषु । शिरः क्षीणमधः पुष्टिरेते दोषा गजे मताः ॥ २७ ॥ गार्ग्यस्तु । ये कुञ्जरास्तनुरदास्तनुगण्डशुण्डाः, क्षीणाः सुदीनवपुषो गुरु दीर्घपुच्छाः । वश्यादिभिः खलु गुणैरहितो हिताय ; ते भूभुजामभिमता न हि वीक्षणीयाः ॥ २८ ॥ यो न स्रवेन्मदजलं तनुमूर्द्धभागो, निर्वीर्य्यतामुपगतो बहुभोजनेऽपि । नेच्छत्यसावुपगतानपरान् निहन्तुं ; भूमीभुजा नहि गजोऽयमवेक्षणीयः ॥ २९ ॥ दोषैर्दुष्टान् गजान् राजा न वीक्षेत कदाचन । न्यसेद्वा परराष्ट्रेषु नगरात् क्रियते बहिः ॥ ३० ॥ (१) राष्ट्रदुद्द्वला (क) पुस्तक पाठः ।

  • पालकाप्यर्षिविरचित हस्त्यायुर्व्वेदः द्रष्टव्यः ।

२०६ युक्तिकल्पतरौ— दद्यात् द्विजेभ्यः शुद्धेभ्यो गणकायाथवा नृपः । दृष्ट्वा यदि गजान् दुष्टान् दद्याच्छृङ्गिशतं द्विजे ॥ ३१ ॥ पुरं नीराजयेद्वापि आत्मानं वाथवा सुतम् । देवोसूक्तेन † जुहुयादयुतं वाति(पि) तत्परः ॥ ३२ ॥ तिलान् वा जुहुयादग्नौ तत्प्रतीकार हेतवे । ब्रह्मादि जातिभेदेन जातिरुक्ता चतुर्विधा ॥ ३३ ॥ चतुर्विधानां भूपानां वाहने ते शुभप्रदाः । ये दोषा दोषवत्त्वानां त एव स्युः स्वजातितः ॥ ३४ ॥ ये व्याधयो नराणां स्युस्ते गजानामपि स्मृताः । चिकित्सापि तथा तेषां मात्राचैव गरीयसी ॥ ३५ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ गज परौक्षा * । अथ वृषपरौक्षा । अश्वेभलक्षणे ह्युक्त्वा वक्ष्यन्तेऽन्ये चतुष्पदाः । गावः कृतयुगे सृष्टाः स्वयमेव स्वयम्भुवा ॥ ३६ ॥ ब्रह्म-क्षत्रिय-विट्-शूद्र जातिभेदाश्चतुर्विधाः । शुक्लाङ्गाः शुचयोऽक्रुद्धा मृदवः शुद्धचेतसः ॥ ३७ ॥ अल्पाशिनो बहुवला वृषभा ब्रह्मजातयः । द्वयोर्लक्षण सम्बन्धात् त्रिगुणः स वृषाधमः ॥ ३८ ॥ त्रिलक्षण समावेशात् त्रिगुणः स वृषाधमः । पीताङ्गा मृदवः शुद्धा अक्रोधा भारवाहिनः ॥ ३६ ॥ † अहं रुद्रेभिरित्यादिना वेदोक्तेन श्रुति ।

  • गजविषये, वह्निपुराण-गरुडपुराण-कालिकापुराण-वसन्तराज शाकुनानि द्रष्टव्यानि ।

वृषयुक्तिः । २०७ यदृच्छा भोजिनः चौणा वृषभा वैश्यजातयः । कृशाङ्गाः क्रूरहृदया अपवित्राः सदाशिनः ॥ ४० ॥ वृहहृषणरोषाश्च (१) वृषभाः शूद्रजातयः । द्वयोर्लक्षणसम्पर्कात् द्विजातिर्वृषभो भवेत् ॥ ४१ ॥ वात्यस्तु,— पृथ्वीतले समुत्पन्ना गजाश्वा ये चतुष्पदाः । गुणत्रयविभेदेन तेषां भेदत्रयं भवेत् ॥ ४२ ॥ एतन्मतानुसारेण भोजः प्राह महीपतिः । ये शुक्लाः शुचयः शुद्धा भृशं भारवहा अपि ॥ ४३ ॥ वद्धाशिनः स्वल्परोषास्ते वृषाः सात्विका मताः । व्यक्ताव्यक्तरुषः(षाः) शुद्धा दृढा भारवहाः शुभाः ॥ ४४ ॥ वद्धाशिनो बहुवलास्ते वृषा राजसा मताः । विवर्णा विकृताङ्गाश्च निर्वलाः स्वल्पभोजिनः ॥ ४५ ॥ अपवित्रा वृहद्रोषास्ते वृषास्तामसा मताः । लक्षणद्वयसम्बन्धात् द्विगुणो वृषभो भवेत् । त्रिलक्षणसमावेशात् त्रिगुणः स वृषाधमः ॥ ४६ ॥ अथ गुणाः । नीलः शुभो ध्वजो वामः क्षेमो भद्रः शिवः स्थिरः । भोजदेवेन लिखिता इत्यष्टौ वृषभा गुणाः ॥ ४७ ॥ तद्यथा,— श्वेतादन्यतरो वर्णः श्वेतः खुरविषाणयोः । ललाटपुच्छयोः श्वेतः स नीलः शुभमावहेत् ॥ ४८ ॥ यो हृष्टपुष्टो रम्यात्मा सुविभक्ततनुः शुभः । (१) वृहद्दंषाषरोषाश्च इति (क) पुस्तक पाठः ।