युक्तिकल्पतरु (महाराज भोज - नौका-निर्माण, जलयान-विज्ञान, शस्त्र, दुर्ग एवं राजधर्म सटीक)
Yuktikalpataru of Maharaja Bhoja with Commentary
महाराज भोज (सम्पादक: पण्डित ईश्वरचन्द्र शास्त्री) द्वारा
पृष्ठ 244, कुल 278 में से
संदर्भ में पढ़ें२०४ युक्तिकल्पतरौ— विरूपाण्युद्गतानीव मण्डली कुलनाशनः । तानि श्वेतानि यस्य स्युः श्वित्री स धननाशनः ॥ १४ ॥ हृदये उदरे चैव त्रिके पुच्छस्य मूलतः । गुदे मेढ्रे पदे चैव आवर्त्तेन हतश्रियम् ॥ १५ ॥ योगिनं कुरुते भूपं प्रवासिनमुपद्रुतम् (१) । गच्छतो यस्य गुल्फाभ्यां भवेत् संघर्षणं मुहुः । अपि सर्व्वगुणैर्युक्तस्त्याज्यश्च स महाभयः ॥ १६ ॥ राष्ट्रं धनं कुलं सैन्यं मैत्रं दारान् तथा प्रजाः । क्षपयत्य शुभो नागो दृष्टमात्रो न संशयः ॥ १७ ॥ तत्रापम्रियते लोकस्तत्र वज्रभयं भवेत् । व्याधि वह्निभयं वात्र यत्रास्ते स महाभयः ॥ १८ ॥ भृशं सन्ताड्यमानस्तु पादै कं यो न गच्छति । पृष्ठोदरं समाहृत्य रेखा रक्तसमा यदि ॥ १८ ॥ न्यस्ताग्रिमपदं स्थाने पश्चात् पातः पदे यदि । अपि सर्व्वगुणैर्युक्तो राष्ट्रहायं गजाधमः ॥ २० ॥ राष्ट्रादपाक्रियतेऽयं भूभुजा श्रियमिच्छता । राष्ट्रान्ते रक्षितो मोहात् कुरुते राष्ट्रसंचयम् ॥ २१ ॥ पादाश्चात्यन्तविषमा दन्तौ चान्योन्य विषमौ । पञ्जरो दृश्यते भग्न एको वाष्टौ (२) द्वयोऽथवा ॥ २२ ॥ दन्तौ वा चलतौ यस्य किं युवान (३) प्ररोहतः । कुम्भौ वा विषदौ यस्य मुषलौ स गजाधमः ॥ २३ ॥ (१) श्रुतम् इति (क) पुस्तक पाठः । (२) राष्टौ इति (ख) पुस्तकपाठः । (३) किमु वान इति (ग) पुस्तक पाठः ।