भारतकोश
१०८ उपनिषद् (साधना खण्ड - भाग ३)

१०८ उपनिषद् (साधना खण्ड - भाग ३)

108 Upanishads Part 3 - Sadhana Khand

पण्डित श्रीराम शर्मा आचार्य द्वारा

स्रोत: संस्कृति संस्थान बरेली · संस्कृति संस्थान बरेली (उद्गम)

DevanagariSanskritpublished572 पृष्ठ

पृष्ठ 110, कुल 572 में से

संदर्भ में पढ़ें
पृष्ठ 110

१०२ ] [ द्वितीब भाग अध्यात्मरतिरासीनः पूर्णः पावनमानसः । प्राप्तानुत्तमविश्रान्तिर्न किंचिदिह वाञ्छति । यो जीवति गतस्नेहः स जीवन्मुक्त उच्यते ॥४७॥ संवेद्येन हृदाकाशे मनागपि न लिप्यते । यस्यासावजडा संवित् स जीवन्मुक्त उच्यते ॥४८॥ रागद्वेषौ सुखं दुःखं धर्माधमौ फलाफले । यः करोत्यनपेक्ष्यैव स जीवन्मुक्त उच्यते ॥४९॥ मौनवान् निरहंभावो निर्मानो मुक्तमत्सरः । यः करोति गतोद्वेगः स जीवन्मुक्त उच्यते ॥५०॥ सर्वत्र विगत स्नेहो यः साक्षिबदवस्थितः । निरीच्छो वर्तते कार्ये जीवन्मुक्त उच्यते ॥५१॥ येन धर्ममधमं च मनोमननमूहितम् । सर्वमन्तः परित्यक्तं स जीवन्मुक्त उच्यते ॥५२॥ यावती दृश्यकलना सकलेयं विलोक्यते । स येन सुष्ठु संत्यक्ता स जीवन्मुता उच्यते ॥५३॥ कट्वम्ललवणं तिक्तममृष्टं मृष्टमेव च । सममेव च यो भुङ्क्ते स जीवन्मुक्त उच्यते ॥५४॥ जरा मरणमापच्च राज्यं दारिद्य्रमेव वा । रम्यमित्येव यो भुङ्क्ते स जीवन्मुक्त उच्यते ॥५५॥ धर्माधमौ सुखं दुःख तथा मरणजन्मनी । धिया येन सुसंत्यक्तं स जीवन्मुक्त उच्यते ॥५६॥ उद्वेगानन्दरहितः समया स्वच्छया धिया । न शोचते न चोदेति स जीवन्मुक्त उच्यते ॥५७॥ सर्वेच्छाः सकलाः शंकाः सर्वेहाः सर्वनिश्चयाः । धिया येन परित्यक्ताः स जीवन्मुक्त उच्यते ॥५८॥ जन्मस्थितिविनाशेषु सोदयास्तमयेषु च ।