१०८ उपनिषद् (साधना खण्ड - भाग ३)
108 Upanishads Part 3 - Sadhana Khand
पण्डित श्रीराम शर्मा आचार्य द्वारा
स्रोत: संस्कृति संस्थान बरेली · संस्कृति संस्थान बरेली (उद्गम)
पृष्ठ 125, कुल 572 में से
संदर्भ में पढ़ेंमहोपनिषत् ] [ ११७ दावानल में जल गया है, परन्तु मृग-मरीचिका के तड़ाग में खड़ा रहकर भी मैं भोग-लिप्सा से परे हूँ । हे पिता, हे गुरो ! आप मुझे तत्व- ज्ञानात्मक बोध प्रदान करो अन्यथा मैं मान-मत्सर का त्याग कर मौन धारण पूर्वक मैं अपने मन में भगवान् का स्मरण करूँगा ॥४६—५७॥ ॥ तृतीय अध्याय समाप्त ॥ चतुर्थोऽध्यायः निदाघ तव नास्त्यन्यज्ज्ञेयं ज्ञानवतां वर । प्रज्ञया त्वं विजानासि ईश्वरानुगृहीतया । चित्तमालिन्यसंजातं मार्जयामि भ्रमं मुने ॥१ मोक्षद्वारे द्वारपालाश्चत्वारः परिकीर्तिताः । शमो विचारः संतोषश्चतुर्थः साधुसंगमः ॥२ एकं वा सर्वयत्नेन सर्वमृत्सृज्य संश्रयेत् । एकस्मिन् वशगे यान्ति चत्वारोऽपि वशं गताः ॥३ शास्त्रैः सज्जनसंपर्कपूर्वकैश्च तपोदमैः । आदौ संसारमुक्त्यर्थं प्रज्ञामेवाभिवर्धयेत् ॥४ स्वानुभूतेश्च शास्त्रस्य गुरोश्चैवैक वाच्यता । यस्याभ्यासेन तेनात्मा सततं चावलोक्यते ॥५ संकल्पाशाऽनुसंधानवर्जनं चेत् प्रतिक्षणम् । करोषि तदचित्तत्त्वं प्राप्त एवासि पावनम् ॥६ चेतसो यदकर्तृत्वं तत् समाधानमीरितम् । तदेव केवलीभावं सा शुभा निर्वृतिः परा ॥७ चेतसा संपरित्यज्य सर्वभावात्मभावनाम् । यथा तिष्ठसि तिष्ठ त्वं मूकान्धवधिरोपमः ॥८ सर्वं प्रशान्तमजमेकमनादिमध्यमाभास्वरं स्वप्नमात्रम् चैत्यचिह्नम् ।