भारतकोश
१०८ उपनिषद् (साधना खण्ड - भाग ३)

१०८ उपनिषद् (साधना खण्ड - भाग ३)

108 Upanishads Part 3 - Sadhana Khand

पण्डित श्रीराम शर्मा आचार्य द्वारा

स्रोत: संस्कृति संस्थान बरेली · संस्कृति संस्थान बरेली (उद्गम)

DevanagariSanskritpublished572 पृष्ठ

पृष्ठ 140, कुल 572 में से

संदर्भ में पढ़ें
पृष्ठ 140

१३२ [ चतुर्थ अध्याय

मनोव्याधेश्चिकित्साऽर्थमुपायं कथयामि ते । यद्यत् स्वाभिमतं वस्तु तत्त्यजन् मोक्षमश्नुते ॥८८ स्वायत्तमेकान्तहितं स्वेप्सितत्यागवेदनम् । यस्य दुष्करतां यातं धिक् तं पुरुषकीटकम् ॥८९ स्वपौरुषैकसाध्येन स्वेप्सितत्यागरूपिणा । मनः प्रशममात्रेण विना नास्ति शुभा गतिः ॥९० असंकल्पनशस्त्रेण छिन्नं चित्तमिदं यदा । सर्वं सर्वगतं शान्तं ब्रह्म संपद्यते तदा ॥९१ भवभावनया मुक्तो युक्तः परमया धिया । धारयात्मानमव्यग्रो ग्रस्तचित्तं चितः पदम् ॥९२ परं पौरुषमाश्रित्य नीत्वा चित्तमचित्तताम् । ध्यानतो हृदयाकाशे चिति चिच्चक्रधारया । मनो मारय निःशङ्कं त्वां प्रबध्नन्ति नारयः ॥९३ अयं सोऽहमिदं तन्मे एतावन्मात्रकं मनः ॥ तदभावनमात्रेण दात्रेणेव विल्रूयते ॥९४ छिन्नाभ्रमण्डलं व्योम्नि तथा शरदि धूयते । वातेनाकल्पकेनैव तथाऽन्तर्धूर्यते मनः ॥९५ कल्पान्तपवना वान्तु वान्तु चैकत्वमर्णवाः । तपन्तु द्वादशादित्या नास्ति निर्मनसः क्षतिः ॥९६ असंकल्पनमात्रैकसाध्ये संकल्पासद्धिते । असंकल्पातिसाम्राज्ये तिष्ठावष्टब्धतत्पदः ॥९७ न हि चञ्चलताहीनं मनः क्वचन दृश्यते । चंचलत्वं मनोधर्मो वह्नेर्धर्मो यथोष्णता ॥९८ एषा हि चंचला स्पन्दशक्तिश्चित्तत्वसस्थिता । तां विद्धि मानसीं शक्तिं जगदाडम्बरात्मिकाम् ॥९९ यत्तु चंचलताहीनं तन्मनोऽमृतमुच्यते ।