भारतकोश
१०८ उपनिषद् (साधना खण्ड - भाग ३)

१०८ उपनिषद् (साधना खण्ड - भाग ३)

108 Upanishads Part 3 - Sadhana Khand

पण्डित श्रीराम शर्मा आचार्य द्वारा

स्रोत: संस्कृति संस्थान बरेली · संस्कृति संस्थान बरेली (उद्गम)

DevanagariSanskritpublished572 पृष्ठ

पृष्ठ 341, कुल 572 में से

संदर्भ में पढ़ें
पृष्ठ 341

रामपूर्वंतापिन्युपनिषत् ] [ ३३३ आदाय मैथिलीमय ददताञ्चाशु गच्छत । ततस्ततार हनुमान्ब्धिं लङ्कां समाययौ ॥२५ सीतां दृष्ट्वाऽसुरान्हत्वा पुरं दग्ध्वा तथा स्वयम् । आगत्य रामेण सह न्यवेदयत् तत्त्वतः ॥२६ तदा रामः क्रोधिरूपी तानाहूयाथ वानरान् । तैः सार्धमादायस्त्राणि पुरीं लंकां समाययौ ॥२७ तां दृष्ट्वा तदधीशेन सार्धं युद्धमकारयत् । घटश्रोत्रसहस्राक्षजिद्भ्यां युक्तं तमाहवे ॥२८ हत्वा विभीषणं तत्र स्थाप्याथ जनकात्मजाम् । आदायाङ्कस्थितां कृत्वा स्वपुरं तैर्जगाम सः ॥२६ ततः सिंहासनस्थः सन् द्विभुजो रघुनन्दनः । धनुर्धरः प्रसन्नात्मा सर्वाभरणभूषितः ॥३० मुद्रां ज्ञानमयीं याम्ये वामे तेजः प्रकाशिनीम् । धृत्वा व्याख्याननिरतश्चिन्मयः परमेश्वरः ॥३१ उदग्दक्षिणयोः स्वस्य शत्रुघ्नभरतौ ततः । हनूमन्तं च श्रोतारमग्रतः स्यान्त्रिकोणगम् ॥३२ भरताधस्तु सुग्रीवं शत्रुघ्नाधो विभीषणम् । पश्चिमे लक्ष्मणं तस्य धृतच्छत्त्रं सचामरम् ॥३३ तदधस्तौ तालवृन्तकरौ त्र्यस्रं पुनर्भवेत् । एवं षट्कोणमादौ स्वदीर्घाङ्गै रेष सयुतः ॥३४ द्वितीयं वासुदेवाद्यैराग्नेयादिषु संयुतः । तृतीय वायुसूनुं च सुग्रीवं भरतं तथा ॥३५ विभीषणं लक्ष्मणं च अङ्गद चारिमर्दनम् । जाम्बवन्तं च र्यु क्तस्ततो धृष्टिर्जयन्तकः ॥३६

१०८ उपनिषद् (साधना खण्ड - भाग ३) · पृष्ठ 341, कुल 572 में से · BharatKosha