१०८ उपनिषद् (साधना खण्ड - भाग ३)
108 Upanishads Part 3 - Sadhana Khand
पण्डित श्रीराम शर्मा आचार्य द्वारा
स्रोत: संस्कृति संस्थान बरेली · संस्कृति संस्थान बरेली (उद्गम)
पृष्ठ 486, कुल 572 में से
संदर्भ में पढ़ेंCC0. In Public Domain. Digitization by eGangotri [सरस्वती रहस्योपनिषत् ४७८ ] चतुर्मुखमुखाम्भोजवनहंसवधूमर्म । मानसे रमतां नित्यं सर्वशुक्ला सरस्वती ॥३६ नमस्ते शारदे देवि काश्मोरपुरवासिनी । त्वामहं प्रार्थये नित्यं विद्यादानं च देहि मे ॥३७ अक्षसूत्राङ्कुशधरा पाश पुस्तकधारिणी । मुक्ताहारसमायुक्ता वाचि तिष्ठतु मे सदा ॥३८ कम्बुकण्ठी सुताम्रोष्ठी सर्वाभरणभूषिता । महासरस्वती देवी जिह्वाग्रे संनिवेश्यताम् ॥३९ या श्रद्धा धारणा मेधा वाग्देवी विधिवल्लभा । भक्तजिह्वाग्रसदना शमादिगुणदायिनी ॥४० नमामि यामिनीनाथलेखाऽलंकृतकुन्तलाम् । भवानीं भवसंतापनिर्वापणसुधानदीम् ॥४१ यः कवित्वं निरातङ्कं भुक्तिमुक्ती च वाञ्छति । सोऽभ्यर्च्यैनां दशश्लोक्या नित्यं स्तौति सरस्वतीम् ॥४२ तस्यैवं स्तुवतो नित्यं समभ्यर्च्य सरस्वतोम् । भक्तिश्रद्धाऽभियुक्तस्य षाण्मासात् प्रत्ययो भवेत् ॥४३ ततः प्रवर्तते वाणी स्वेच्छया ललिताक्षरा । गद्यपद्यात्मकः शब्दैरप्रमेयैर्विवशितैः ॥४४ अश्रुतो बुध्यते ग्रन्थः प्रायः सारस्वतः कविः ॥४५ सा होवाच सरस्वती— आत्मविद्या मया लब्धा ब्रह्मणेव सनातने । ब्रह्मत्वं मे सदा नित्यं सच्चिदानन्दरूपतः ॥४६ Sri Sri Anandamayee Ashram Collection, Varanasi