१०८ उपनिषद् (साधना खण्ड - भाग ३)
108 Upanishads Part 3 - Sadhana Khand
पण्डित श्रीराम शर्मा आचार्य द्वारा
स्रोत: संस्कृति संस्थान बरेली · संस्कृति संस्थान बरेली (उद्गम)
पृष्ठ 488, कुल 572 में से
संदर्भ में पढ़ें४८० ] [ सरस्वतीरहस्योपनिषत्
प्रकृत्यवच्छिन्नत या पुरुषत्वं पुनश्च ॥४८ शुद्धसत्त्वप्रघादायां मायायां बिम्बितो ह्यजः । सत्त्वप्रधाना प्रकृतिर्मयेति प्रतिपाद्यते ॥४९ सा माया स्ववशोपाधिः सर्वज्ञस्येश्वरस्य हि । वंश्यमायत्वमेकत्वं सर्वज्ञत्व च तस्य तु ॥५० सात्त्विकत्वात् समष्टित्वात् साक्षित्वाज्जगतामपि । जगत् कर्तुमकर्तुं वा चान्यथा कर्तुमीशते । यः स ईश्वर इत्युक्तः सर्वज्ञत्वादिभिर्गुणैः ॥५१ शक्तिद्वयं हि मायाया विक्षेपा वृतिरूपकम् । विक्षेप शक्तिर्लिङ्गादि ब्रह्माण्डान्तं जगत् सृजेत् ॥५२ अन्तर्दृग्दृश्योर्भेदं बहिश्च ब्रह्मसर्गयोः । आवृणोत्यपरा शक्तिः सा संसारस्य कारणम् ॥५३ साक्षिणः पुरतो भातं लिङ्गदेहेन संयुतम् । चितिच्छायासमावेशाज्जीवः स्याद्व्यावहारिकः ॥५४ अस्य जीवत्वमारोपात् साक्षिण्यप्यवभास्ते । आवृत्तौ तु विनष्टायां भेदे भातेऽपयाति तत् ॥५५ तथा सर्गब्रह्मणोश्च भेदमावृत्य तिष्ठति । या शक्तिस्तद्वशाद्ब्रह्म विकृतत्वेन भासते ॥ . ६ अत्राप्यावृत्तिनाशे न विभाति ब्रह्मसर्गयोः । भेदस्तयोर्विकारः स्यात् सर्गे न ब्रह्मणि क्वचित् ॥५७ अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम् । आद्यं त्रयं ब्रह्मरूप जगद्रूपं ततो द्वयम् । उपेक्ष्यं नामरूपे द्वे सच्चिदानन्तत्परः ॥५८