भारतकोश
अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

Abhijnanashakuntalam with Sanskrit-Hindi Commentary

महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा

DevanagariSanskritpublished540 पृष्ठ

पृष्ठ 123, कुल 540 में से

संदर्भ में पढ़ें
पृष्ठ 123

प्रथमोऽङ्कः / ४१

असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः ।
सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तः करणप्रवृत्तयः ॥ २२ ॥

मुनिकन्यकाया अपि पाक्षिकं गम्यत्वं संभवतीत्यवधार्यं गम्येति पक्षं समर्थयन्नाह—अपिनामेति । अपिनाम = किन्नामेयं संभावितं कुलपतेः मुनिकुलगुरोः महर्षेः कण्वस्य असवर्णं क्षेत्रसंभवा—समानो वर्णः = जातिर्यस्य तन्न भवतीति असवर्णं क्षेत्रं = कलत्रं तस्मिन् संभवः = उत्पत्तिः जन्म यस्याः सा असवर्णक्षेत्रसंभवा = स्वजात्यतिरिक्तकलत्रजन्मा—'क्षेत्रं पत्नी शरीरयोरि'त्यमरः । ब्राह्मणस्य चातुर्वर्ण्यं विवाहस्य विहितत्वात् कुलपतेः असवर्णक्षेत्रस्य संभवत्वात्तदुत्पन्नेत्यर्थः । तदुक्तं स्मृतौ—

शूद्रस्य भार्या शूद्रेव सा च स्वा च विशः स्मृते ।
ते च स्वा च क्षत्रियस्य ताश्च स्वा चाग्रजन्मनः ॥

ईदृशी इयं शकुन्तला स्यात् = भवेत्—एवं सति अस्या ममाभिलाष युक्त इति भावः । पुनरपि चिन्तयन्नाह अथवा सन्देहेन = संशयेन कृतं = अलं सन्देहोऽनावश्यकः । तदेव द्रढयति आत्मनो मनोवृत्ति सम्भावनया ।

अन्वयः— ( इयम् ) संशयं क्षत्रपरिग्रहक्षमा ( अस्ति ) यत् आर्यं मे मनः अस्यामभिलाषि ( भवति ) हि सन्देहपदेषु वस्तुषु सताम् अन्तःकरणप्रवृत्तयः प्रमाणं ( ज्ञायते ) ।

असंशयमिति— इयं = एषा शकुन्तला—असंशयं = संशयस्याभावः संशयम् = निःसन्देहम् क्षत्रपरिग्रहक्षमा—क्षत्रस्य = क्षत्रियस्य परिग्रहः = स्वीकारः ( भार्या ) तस्मै क्षमा = योग्या क्षत्रपरिग्रहक्षमा—'परिग्रहः परिजने पत्न्यां स्वीकारमूलयोरि'ति विश्वः । इयं मत्परिग्रहयोग्या ध्रुवमिति भावः यत् = यस्मात् मे = मम महाकुलीनस्य आर्यं = पवित्रं निषिद्धाचरणविमुखं मनः = स्वान्तं अस्यां = शकुन्तलायाम् अभिलाषि—अभिलषति तच्छीलमभिलाषि = सस्पृहम् । हि = यस्मात् कारणात् सन्देहपदेषु = संशयास्पदेषु वस्तुषु = विषयेषु सतां = सज्जानानां अन्तःकरणप्रवृत्तयः-अन्तःकरणस्य = मनसः प्रवृत्तयः = व्यापाराः मनोव्यापाराः प्रमाणं = निर्णयहेतुः । सन्तो हि मनःप्रवृत्ति प्रमाणत्वेनाङ्गीकुर्वन्तीत्यर्थः । तदुक्तं—

श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः ।
सम्यक् सङ्कल्पजः कामो धर्ममूलमिदं सताम् ॥

राजा— मैं समझता हूँ कि कदाचित् यह शकुन्तला महर्षि कण्व की असवर्ण भार्या=ब्राह्मणेतर स्त्री से ही उत्पन्न कन्या होगी । अथवा इसमें सन्देह करना व्यर्थ है, क्योंकि—

निश्चय ही यह मेरे विवाह योग्य हैं, क्योंकि मेरा आर्य मर्यादानुगामी मन इसमें अनुरक्त हो रहा है । यदि यह मुझ जैसे क्षत्रिय के विवाह योग्य न होती तो मेरा पवित्र मन कभी इस कन्या में आसक्त नहीं होता । अतः यह कण्व की असवर्ण पत्नी से उत्पन्न प्रतीत हो रही है, क्योंकि सन्देह स्थल में सज्जनों की अन्तःकरण की प्रवृत्ति ही निर्णायक होती है । अतः यह निश्चय ही कण्व की क्षत्रियादिभार्या में उत्पन्न कन्या है, ब्राह्मणी में नहीं, इस बात को मेरा मन ही कह रहा है । तो भी मैं इस बात का ठीक-ठीक निर्णय करूँगा कि यह किस वर्ण की कन्या है। और मेरे ग्रहण योग्य है या नहीं ॥ २२ ॥

विशेष— धर्मात्मा राजा दुष्यन्त को अपने निष्कल्मष मन पर पूरा भरोसा है । उनका अन्तःकरण इतना पवित्र है कि वह असन्मार्ग पर प्रवृत्त नहीं हो सकता, अतः वे अनुचित वस्तु के लिए