अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
पृष्ठ 124, कुल 540 में से
संदर्भ में पढ़ें| ४२ | अभिज्ञानशाकुन्तलम् |
|---|
तथापि तत्त्वत एनामुपलप्स्ये ।
शकुन्तला—( ससंभ्रमम् ) अम्मो सलिलसेअसंभमुग्गदो णोमालिअं उज्झिअ वअणं मे महुअरो अहिवट्टइ [ अम्मो सलिलसेकसंभ्रमोद्गतो नवमालिकामुज्झित्वा वदनं मे मधुकरोऽभिवर्त्तते ] ( भ्रमरबाधां रूपयति )
राजा—( सस्पृहं विलोक्य )
अत्र शकुन्तलानुरागरूपस्यार्थस्य निश्चयेनोपपत्तेः परिन्यासनामकसङ्गं निर्दिष्टं तदुक्तं विश्वनाथेन—तन्निष्पत्तिः परिन्यासः। अत्रार्थान्तरन्यासः काव्यलिङ्गं चालङ्कारौ, वंशस्थं वृत्तम् ॥ २२ ॥
एवं मनःप्रवृत्त्या गम्यत्वे निश्चितेऽपि तत्त्वज्ञानादपरितुष्यन् अत्यन्तधार्मिको राजा तत्प्रकारं जिज्ञासुराह—तथापीति—युक्त्या मनःप्रवृत्त्या च मत्परिग्रहयोग्येत निर्द्धारणे कृतेऽपि तत्त्वतः = याथाथ्र्येन एनां = शकुन्तलाम् उपलप्स्ये = ज्ञास्यामि यदिदं क्षमा वा नवेति भावः ।
अयमभिप्रायः— इयं हि शकुन्तला ध्रुवं मम ग्रहणयोग्या, यतो जितेन्द्रियस्यापि पुरु-वंशोत्पन्नस्य दुष्यन्तस्य मे निषिद्धाचरणपराङ्मुखं श्रेष्ठं मानसमस्यामनुरक्तं, नहि अद्यावधि मन्मनसा अगम्येऽभिलाषः कृतः। तस्मादियं मत्स्वीकारयोग्यैव । सन्दिग्धेषु विषयेषु वय-मन्तःकरणप्रवृत्त्यैव याथाथ्यं निश्चिन्मः, इदमेवात्मतुष्टिप्रमाणमिति भावः ।
शकुन्तला—( ससंभ्रमं—संभ्रमेण = त्रासेन सहितं ससंभ्रमम् = ससाध्वसम् ) अम्मः आवेगे सलिलस्य = जलस्य सेकेन सेचनेन य संभ्रमः = संक्षोभः तस्मात् उदगतः = सहसा उत्पतितः इति सलिलसेकसंभ्रमोदगतः मधुकरः = भ्रमरः नवमालिकां = वनज्योत्स्नाम् = उज्झित्वा = परित्यज्य मे = मम वदनं = पद्मगन्धि मुखम् अभिवर्तंते = लोभात् अनुधावति समागच्छति । ( इति = इत्युक्त्वा भ्रमरबाधां = भ्रमराक्रमणं रूपयति = अभिनयति ) ।
राजा—( सस्पृहम्-स्पृहया सहितं सस्पृहम् औत्सुक्यसहितम् आह । )
अभिलाषा नहीं कर सकते । मनु जी ने भी अपनी मनुस्मृति में आत्मतुष्टि को धर्म का मूल माना है—'आत्मनस्तुष्टिरेव च' ( १ । ६ ) इसकी टीका ने गोविन्दराज ने गर्ग का भी एक वचन उद्धृत किया है—'वैकल्पिके आत्मतुष्टिः प्रमाणम्' जिसका तात्पर्य है कि विकल्प विषय में आत्मतुष्टि ही प्रमाण है ॥ २२ ॥
इस प्रकार राजा दुष्यन्त को अपने मन पर पूरा विश्वास था, फिर भी उन्होंने यत्नपूर्वक पता लगाने का निश्चय कर लिया ।
शकुन्तला—( घबड़ाकर शीघ्रता से ) ओह ! जल के सींचने से घबड़ाकर उड़ा हुआ यह भौंरा नवमालिका को छोड़कर मेरे मुख की ओर आ रहा है । ( भ्रमर के आक्रमण और उससे बचने का अभिनय करती है ) ।
राजा—( उत्सुकतापूर्वक देखकर )