अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
पृष्ठ 127, कुल 540 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः ४५
शकुन्तला—(पदान्तरे स्थित्वा । सदृष्टिक्षेपम् ।) कहं । इदोवि मं अणुसरदि । [ कथम् । इतोऽपि मामनुसरति । ]
राजा—(सत्वरमुपसृत्य ) ।
कः पौरवे वसुमतीं शासति शासितरि दुर्विनीतानाम् । अयमाचरत्यविनयं मुग्धासु तपस्विकन्यासु ॥२४॥
प्रकाशयितुं = प्रकटयितुम्, न भेतव्यं न भेतव्यं दुष्यन्तोऽहं मयात् = परित्रास्ये (इत्यर्द्धोक्ते = इत्यंशमात्रे कथिते सति स्वगतम् = आत्मगतम् ) राजभावः = नृपत्वम्, अभिज्ञातः = विदितः भवेत् = स्यात्, राजाहमस्मीति परिज्ञातं स्यात् । भवतु एवं = वक्ष्यमाणप्रकारेण तावत् अभिधास्ये = वक्ष्ये अभयप्रदानव्याजेन आसां पुरोगमनस्यायमुचितः कालः इत्यर्थः । अवसरलाभेन प्रमुदितः सन्नाह—नेति ।
शकुन्तला—(पदान्तरे = स्थानान्तरे स्थित्वा । सदृष्टिक्षेपं = दृष्टिक्षेपेन सहितं सदृष्टिक्षेपम् ) कथयति—कथम् इतोऽपि मां = इमं जनं अनुसरति = अनुगच्छति ।
(राजा सत्वरं त्वरया सहितं सत्वरम् = आशु उपसृत्य = समीपं गत्वा ।)
अन्वयः—दुर्विनीतानां शासितरि पौरवे वसुमतीं शासति (सति) कः अयं मुग्धासु तपस्विकन्यास अविनयम् आचरति ।
क इति—दुर्विनीतानां = उद्दण्डानां, अशिष्टानां शासितरि = शासके पुरोरपत्यं पुमान् पौरवः पुराणो राजा वा पौरवः तस्मिन् पौरवे-पुरुवंशीये दुष्यन्ते मयि वसुमतीं = भूमि शासति = पालयति कोऽयं = कोऽसौ दुर्विनीतः मुग्धासु = सरलासु तपस्विकन्यासु मुनीनां कुमारीषु अविनयं = अकृत्यं, अत्याचारम् आचरति = कुरुते । दुष्टनिग्रहशिष्टानुग्रहकरणपूर्वकं पृथ्वीशासके मयि दुष्यन्ते कोऽयं दुर्विनीतः स्वभावतः सरला मुनिकन्यकाः पीडयितुं कुदृष्टिं कर्तुं प्रयतते सद्यः स दण्डितो भवेदिति भावः । अत्राप्रस्तुतप्रशंसा छेकवृत्यनुप्रास-परिकरालङ्कारा आर्या छन्दश्च ॥ २४ ॥
मन ही मन ) इस प्रकार कहने पर तो मैं राजा हूँ यह बात प्रगट हो जायेगी । अच्छा, अतिथि-भाव के अनुरूप ही बातें करूँगा ।
**विशेष—**स्वगतम् का तात्पर्य होता है कि नाटक के रंगमंच पर रहने वाले व्यक्ति न सुन पायें, किन्तु दर्शक सुन लें—'अश्राव्यं खलु यद्वस्तु तदिह स्वगतं मतम्' । सखियाँ न तो दुष्यन्त की बातें सुन पायी थीं न वहाँ उनके रहने का पता था, कवि ने राजा के प्रकट होने की बात में बड़ी दूरदर्शिता दिखाई है । अर्द्धोक्ते से तात्पर्य प्रतीत होता है कि दुष्यन्त के मुख से 'मैं राजा दुष्यन्त आ गया' यह निकलने ही वाला था कि उन्होंने पुनः विचार कर अपने को छिपा लिया ।
शकुन्तला—(कुछ आगे जाकर और इधर उधर देखकर ) हाय, हाय यहाँ भी यह भ्रमर मेरे पीछे आ रहा है । अरी सखियों मुझे बचाओ ।
राजा—(शीघ्रता से पास जाकर )
दुष्टों का दमन करने वाले पुरुवंशी राजा दुष्यन्त के पृथ्वी पर शासन करते रहने पर भी यह कौन है जो भोली-भाली तपस्वि-कन्याओं के साथ अशिष्ट व्यवहार करता है ॥ २४ ॥