अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
पृष्ठ 128, कुल 540 में से
संदर्भ में पढ़ें४६ अभिज्ञानशाकुन्तलम्
( सर्वा राजानं दृष्ट्वा किञ्चिदिव संभ्रान्ताः )
अनसूया—अज्ज ण क्खु किंपि अच्छाहिदं। इअं णो पिअसहो महुअरेण अहूहूअमाणा कादरीभूदा [ आर्य, न खलु किमप्यत्याहितम्। इयं नौ प्रियसखो मधुकरेणाभिभूयमाना कातरीभूता। ] ( शकुन्तलां दर्शयति । )
राजा—( शकुन्तलाभिमुखो भूत्वा ) अपि तपो वर्धते ।
( शकुन्तला साध्वसादवचना तिष्ठति )
अनसूया—दाणिं अदिहिविसेससलाहेण। हला सउन्दले गच्छ उडअं। फलमिस्सं अग्घं उवहर। इदं पादोदअं भविस्सदि। [ इदानीमतिथिविशेषलाभेन। हला शकुन्तले गच्छोटजम्। फलमिश्रमर्घमुपहर। इदं पादोदकं भविष्यति। ]
( सर्वाः = सकलाः तिस्रो मुनिकन्यकाः राजानं = नृपं दुष्यन्तं दृष्ट्वा = अवलोक्य किञ्चित् = ईषत् इव संभ्रान्ताः = चकिता आवेगे आपतिताः अतर्कितोपनतेन राजदर्शनेन समुपलब्धया लज्जया भयेन च संभ्रमः। )
अनसूया—यत् आर्य ! = महोदय ! न खलु = निश्चयेन किमपि = किञ्चित् अत्याहितं = महद्भयमापतितम् तर्हि किमनया परित्राणार्थमाक्रन्दितमित्याह—इयमिति। इयं = एषा पुरो दृश्यमाना नौ = आवयोः प्रियसखी = शकुन्तला अनेन मधुकरेण अभिभूयमाना = आकुलीक्रियमाणा = बाध्यमाना, कातरीभूता = त्रस्ता ( इति = इत्युक्त्वा शकुन्तलां दर्शयति = अवलोकयति।
राजा—राजा = दुष्यन्तः शकुन्तलाभिमुखः—शकुन्तलाम् अभि तथा अभिगतं मुखं यस्य स अभिमुखः, एकदिक् मुखं यस्यासौ शकुन्तलाभिमुखः भूत्वा अपि = किं तपः = तपस्या वर्द्धते = वृद्धिं याति, धर्मानुष्ठानं वृक्षसेचनादिकं च भवत्या निर्विघ्नं भवति ?
( शकुन्तला साध्वसात् = संभ्रमेण भयेन वा अवचना अविद्यमानं वचनं यस्याः सा अवचना = अप्रतिवचना, मौनव्रता साध्वसादवचना सती तिष्ठति )
अनसूया—इदानीं = सम्प्रति अतिथेः = आधुनिकस्य विशेषस्य = श्रेष्ठताया लाभेन प्राप्त्या इति अतिथिविशेषलाभेन तपो वर्द्धते अस्याः शकुन्तलायाः। हला = अयि सखि शकुन्तले ! उटजं = पर्णशालां गच्छ = याहि फलैः मिश्रं = युक्तं फलमिश्रं, अर्घ्यं = अर्घ्यार्थं द्रव्यं, उपहर = आनय। इदं = वृक्षसेचनार्थमानीतं पुरतः स्थाप्यमानं कलसजलं पादोदकं = पाद्यं जलं भविष्यति = सेत्स्यति।
( राजा को देखकर सभी चकित हो घबड़ा-सी जाती हैं )
अनसूया—आर्य ! और तो दूसरी कुछ विशेष बात नहीं है, किन्तु हम लोगों की प्रिय सखी शकुन्तला इस दुष्ट भौंरे से डरकर कुछ व्याकुल सी हो रही है। ( शकुन्तला की ओर संकेत करती है )।
राजा—( शकुन्तला के अभिमुख होकर ) अयि सुन्दरी ! तुम्हारी तपस्या ( व्रत, नियम, वृक्षादि सेचन आदि ) तो ठीक से चल रही है न ?
( शकुन्तला घबड़ाई हुई सी मुख नीचे कर खड़ी हो जाती है )
अनसूया—आर्य ! आप जैसे अतिथि के प्राप्त होने से हमारी तपस्या अवश्य ही वृद्धि को प्राप्त हो रही है। अरि सखि शकुन्तले ! पर्णशाला में जाओ और फल से युक्त अर्घ्यपात्र को लाओ। यह वृक्ष सेचन के निमित्त लाया गया कलस का जल पादोदक के लिए प्रस्तुत है।