भारतकोश
अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

Abhijnanashakuntalam with Sanskrit-Hindi Commentary

महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा

DevanagariSanskritpublished540 पृष्ठ

पृष्ठ 126, कुल 540 में से

संदर्भ में पढ़ें
पृष्ठ 126
४४अभिज्ञानशाकुन्तलम्

शकुन्तला—ण एसो धिट्ठो विरमदि। अण्णदो गमिस्सं। (पदान्तरे स्थित्वा। सहदृष्टिक्षेपम्) कहं इदो वि आअच्छदि। हलापरित्ताअह म इमिणा दुव्विणीदेण दुट्ठमहुअरेण पडिहूअमाणं। [न एष धृष्टो विरमति। अन्यतो गमिष्यामि। (पदान्तरे स्थित्वा। सहदृष्टिक्षेपम्) कथमितोऽप्यागच्छति। हला परित्रायेथां मामनेन दुर्विनीतेन दुष्टमधुकरेण परिभूयमानाम्]।

उभे—(सस्मितम्) का वअं परित्तातुं। दुस्सन्दं अक्कन्द। राअरक्खिदव्वाई तवोवणाई णाम। [का वयं परित्रातुम्। दुष्यन्तमाक्रन्द। राजरक्षितव्यानि तपोवनानि नाम।]

राजा—अवसरोऽयमात्मानं प्रकाशयितुम्। न भेतव्यम्, न भेतव्यम् (इत्यर्धोक्ते स्वगतम्)। ^१राजभावस्त्वभिज्ञातो भवेत्। भवतु। एवं तावदभिधास्ये।


एव। अत्र व्यतिरेक-भ्रान्तिमत्-स्वभावोक्ति-काव्यलिङ्ग-समासोक्ति-श्रुत्यनुप्रासा-लङ्काराः शिखरिणी वृत्तं च॥ २३ ॥

शकुन्तला—अथ भ्रमरानुधावनपर्याकुला शकुन्तला कथयति—न एष इति। एष दुष्टः भ्रमरो न विरमति = न निवर्तते, अन्यतः = स्थानान्तरे गमिष्यामि = यास्यामि। (पदान्तरे = अन्यत् पदं पदान्तरं तस्मिन् पदान्तरे-स्थानान्तरे स्थित्वा-गमनात् विरता भूत्वा सहदृष्टिक्षेपं—दृष्टेः क्षेपः = पातः तेन सह वर्तते सहदृष्टिक्षेपं भ्रमराभिमुखं दृष्ट्वा) कथमितोऽप्यागच्छति कथं = किमेतत् इतोऽपि = अमुष्मात् स्थानात् अपि आगच्छति। हला = अये सख्यो! अनेन मामनुसरता एतेन दुर्विनीतेन = उद्दण्डेन भ्रमरेण परिभूय-मानाम् = आक्रम्यमाणाम् आकुलीक्रियमाणाम् मां परित्रायेथां = युवां रक्षतम्

उभ इति—उभे = द्वे अनसूयाप्रियंवदे (सस्मितं स्मितेन = ईषद्वहास्येन सह यथास्या-त्तथा सस्मितं शकुन्तलाया भ्रमरनिवारणाक्षमताजन्यं वैक्लव्यं दृष्ट्वा सोपहासमित्यर्थः) वयं = आवां-अनसूया प्रियंवदे के परित्रातुं, तर्हि मया किं कार्यम् इत्याह—दुष्यन्तमितिराजानं दुष्यन्तं आक्रन्द = तारस्वरेण आह्वय। राजरक्षितव्यानि तपोवनानि राजा = नृपेण रक्षितव्यानि तपसः = तपस्याया वनानि=विपिनानि नाम=निश्चयेन। राज्ञो जनपद रक्षणेन न कर्तव्यसमाप्तिः, अपितु, तपोवनरक्षापि राज्ञः कर्तव्यमेव।

राजा—विचारयति यत् अवसरः = उपयुक्तः समयः अयम् एषः, आत्मानं = स्वम्


शकुन्तला—यह दुष्ट भ्रमर नहीं है, दूसरी जगह जा रही हूँ (कुछ जाकर और चारों ओर दृष्टि डालकर) क्यों? यहाँ भी आ रहा है? अरि सखियों! मैं इस दुष्ट भ्रमर से पीड़ित हो रहा है। तुमलोग इससे मुझे बचाओ।

दोनों सखियाँ—(हँसती हुई) हम बचानेवाली कौन होती है? राजा दुष्यन्त को बुलाओ, वे ही तुझे बचायेंगे, क्योंकि तपोवन की रक्षा का भार तो राजा ही पर होता है। राजा का कर्तव्य केवल जनपद रक्षण मात्र से ही नहीं समाप्त होता अपितु राजा का कर्तव्य तपोवन की रक्षा करना भी है।

राजा--हमारे प्रगट होने का अच्छा अवसर है—मत डरो मत डरो! (बीच में ही रुककर


पाठ०—१. एवं राजाहमिति परिज्ञानं भवेत्। भवतु अतिथिसमाचारमवलम्बिष्ये।