अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
| ४४ | अभिज्ञानशाकुन्तलम् |
|---|
शकुन्तला—ण एसो धिट्ठो विरमदि। अण्णदो गमिस्सं। (पदान्तरे स्थित्वा। सहदृष्टिक्षेपम्) कहं इदो वि आअच्छदि। हलापरित्ताअह म इमिणा दुव्विणीदेण दुट्ठमहुअरेण पडिहूअमाणं। [न एष धृष्टो विरमति। अन्यतो गमिष्यामि। (पदान्तरे स्थित्वा। सहदृष्टिक्षेपम्) कथमितोऽप्यागच्छति। हला परित्रायेथां मामनेन दुर्विनीतेन दुष्टमधुकरेण परिभूयमानाम्]।
उभे—(सस्मितम्) का वअं परित्तातुं। दुस्सन्दं अक्कन्द। राअरक्खिदव्वाई तवोवणाई णाम। [का वयं परित्रातुम्। दुष्यन्तमाक्रन्द। राजरक्षितव्यानि तपोवनानि नाम।]
राजा—अवसरोऽयमात्मानं प्रकाशयितुम्। न भेतव्यम्, न भेतव्यम् (इत्यर्धोक्ते स्वगतम्)। ^१राजभावस्त्वभिज्ञातो भवेत्। भवतु। एवं तावदभिधास्ये।
एव। अत्र व्यतिरेक-भ्रान्तिमत्-स्वभावोक्ति-काव्यलिङ्ग-समासोक्ति-श्रुत्यनुप्रासा-लङ्काराः शिखरिणी वृत्तं च॥ २३ ॥
शकुन्तला—अथ भ्रमरानुधावनपर्याकुला शकुन्तला कथयति—न एष इति। एष दुष्टः भ्रमरो न विरमति = न निवर्तते, अन्यतः = स्थानान्तरे गमिष्यामि = यास्यामि। (पदान्तरे = अन्यत् पदं पदान्तरं तस्मिन् पदान्तरे-स्थानान्तरे स्थित्वा-गमनात् विरता भूत्वा सहदृष्टिक्षेपं—दृष्टेः क्षेपः = पातः तेन सह वर्तते सहदृष्टिक्षेपं भ्रमराभिमुखं दृष्ट्वा) कथमितोऽप्यागच्छति कथं = किमेतत् इतोऽपि = अमुष्मात् स्थानात् अपि आगच्छति। हला = अये सख्यो! अनेन मामनुसरता एतेन दुर्विनीतेन = उद्दण्डेन भ्रमरेण परिभूय-मानाम् = आक्रम्यमाणाम् आकुलीक्रियमाणाम् मां परित्रायेथां = युवां रक्षतम्।
उभ इति—उभे = द्वे अनसूयाप्रियंवदे (सस्मितं स्मितेन = ईषद्वहास्येन सह यथास्या-त्तथा सस्मितं शकुन्तलाया भ्रमरनिवारणाक्षमताजन्यं वैक्लव्यं दृष्ट्वा सोपहासमित्यर्थः) वयं = आवां-अनसूया प्रियंवदे के परित्रातुं, तर्हि मया किं कार्यम् इत्याह—दुष्यन्तमिति। राजानं दुष्यन्तं आक्रन्द = तारस्वरेण आह्वय। राजरक्षितव्यानि तपोवनानि राजा = नृपेण रक्षितव्यानि तपसः = तपस्याया वनानि=विपिनानि नाम=निश्चयेन। राज्ञो जनपद रक्षणेन न कर्तव्यसमाप्तिः, अपितु, तपोवनरक्षापि राज्ञः कर्तव्यमेव।
राजा—विचारयति यत् अवसरः = उपयुक्तः समयः अयम् एषः, आत्मानं = स्वम्
शकुन्तला—यह दुष्ट भ्रमर नहीं है, दूसरी जगह जा रही हूँ (कुछ जाकर और चारों ओर दृष्टि डालकर) क्यों? यहाँ भी आ रहा है? अरि सखियों! मैं इस दुष्ट भ्रमर से पीड़ित हो रहा है। तुमलोग इससे मुझे बचाओ।
दोनों सखियाँ—(हँसती हुई) हम बचानेवाली कौन होती है? राजा दुष्यन्त को बुलाओ, वे ही तुझे बचायेंगे, क्योंकि तपोवन की रक्षा का भार तो राजा ही पर होता है। राजा का कर्तव्य केवल जनपद रक्षण मात्र से ही नहीं समाप्त होता अपितु राजा का कर्तव्य तपोवन की रक्षा करना भी है।
राजा--हमारे प्रगट होने का अच्छा अवसर है—मत डरो मत डरो! (बीच में ही रुककर
पाठ०—१. एवं राजाहमिति परिज्ञानं भवेत्। भवतु अतिथिसमाचारमवलम्बिष्ये।
प्रथमोऽङ्कः ४५
शकुन्तला—(पदान्तरे स्थित्वा । सदृष्टिक्षेपम् ।) कहं । इदोवि मं अणुसरदि । [ कथम् । इतोऽपि मामनुसरति । ]
राजा—(सत्वरमुपसृत्य ) ।
कः पौरवे वसुमतीं शासति शासितरि दुर्विनीतानाम् । अयमाचरत्यविनयं मुग्धासु तपस्विकन्यासु ॥२४॥
प्रकाशयितुं = प्रकटयितुम्, न भेतव्यं न भेतव्यं दुष्यन्तोऽहं मयात् = परित्रास्ये (इत्यर्द्धोक्ते = इत्यंशमात्रे कथिते सति स्वगतम् = आत्मगतम् ) राजभावः = नृपत्वम्, अभिज्ञातः = विदितः भवेत् = स्यात्, राजाहमस्मीति परिज्ञातं स्यात् । भवतु एवं = वक्ष्यमाणप्रकारेण तावत् अभिधास्ये = वक्ष्ये अभयप्रदानव्याजेन आसां पुरोगमनस्यायमुचितः कालः इत्यर्थः । अवसरलाभेन प्रमुदितः सन्नाह—नेति ।
शकुन्तला—(पदान्तरे = स्थानान्तरे स्थित्वा । सदृष्टिक्षेपं = दृष्टिक्षेपेन सहितं सदृष्टिक्षेपम् ) कथयति—कथम् इतोऽपि मां = इमं जनं अनुसरति = अनुगच्छति ।
(राजा सत्वरं त्वरया सहितं सत्वरम् = आशु उपसृत्य = समीपं गत्वा ।)
अन्वयः—दुर्विनीतानां शासितरि पौरवे वसुमतीं शासति (सति) कः अयं मुग्धासु तपस्विकन्यास अविनयम् आचरति ।
क इति—दुर्विनीतानां = उद्दण्डानां, अशिष्टानां शासितरि = शासके पुरोरपत्यं पुमान् पौरवः पुराणो राजा वा पौरवः तस्मिन् पौरवे-पुरुवंशीये दुष्यन्ते मयि वसुमतीं = भूमि शासति = पालयति कोऽयं = कोऽसौ दुर्विनीतः मुग्धासु = सरलासु तपस्विकन्यासु मुनीनां कुमारीषु अविनयं = अकृत्यं, अत्याचारम् आचरति = कुरुते । दुष्टनिग्रहशिष्टानुग्रहकरणपूर्वकं पृथ्वीशासके मयि दुष्यन्ते कोऽयं दुर्विनीतः स्वभावतः सरला मुनिकन्यकाः पीडयितुं कुदृष्टिं कर्तुं प्रयतते सद्यः स दण्डितो भवेदिति भावः । अत्राप्रस्तुतप्रशंसा छेकवृत्यनुप्रास-परिकरालङ्कारा आर्या छन्दश्च ॥ २४ ॥
मन ही मन ) इस प्रकार कहने पर तो मैं राजा हूँ यह बात प्रगट हो जायेगी । अच्छा, अतिथि-भाव के अनुरूप ही बातें करूँगा ।
**विशेष—**स्वगतम् का तात्पर्य होता है कि नाटक के रंगमंच पर रहने वाले व्यक्ति न सुन पायें, किन्तु दर्शक सुन लें—'अश्राव्यं खलु यद्वस्तु तदिह स्वगतं मतम्' । सखियाँ न तो दुष्यन्त की बातें सुन पायी थीं न वहाँ उनके रहने का पता था, कवि ने राजा के प्रकट होने की बात में बड़ी दूरदर्शिता दिखाई है । अर्द्धोक्ते से तात्पर्य प्रतीत होता है कि दुष्यन्त के मुख से 'मैं राजा दुष्यन्त आ गया' यह निकलने ही वाला था कि उन्होंने पुनः विचार कर अपने को छिपा लिया ।
शकुन्तला—(कुछ आगे जाकर और इधर उधर देखकर ) हाय, हाय यहाँ भी यह भ्रमर मेरे पीछे आ रहा है । अरी सखियों मुझे बचाओ ।
राजा—(शीघ्रता से पास जाकर )
दुष्टों का दमन करने वाले पुरुवंशी राजा दुष्यन्त के पृथ्वी पर शासन करते रहने पर भी यह कौन है जो भोली-भाली तपस्वि-कन्याओं के साथ अशिष्ट व्यवहार करता है ॥ २४ ॥
४६ अभिज्ञानशाकुन्तलम्
( सर्वा राजानं दृष्ट्वा किञ्चिदिव संभ्रान्ताः )
अनसूया—अज्ज ण क्खु किंपि अच्छाहिदं। इअं णो पिअसहो महुअरेण अहूहूअमाणा कादरीभूदा [ आर्य, न खलु किमप्यत्याहितम्। इयं नौ प्रियसखो मधुकरेणाभिभूयमाना कातरीभूता। ] ( शकुन्तलां दर्शयति । )
राजा—( शकुन्तलाभिमुखो भूत्वा ) अपि तपो वर्धते ।
( शकुन्तला साध्वसादवचना तिष्ठति )
अनसूया—दाणिं अदिहिविसेससलाहेण। हला सउन्दले गच्छ उडअं। फलमिस्सं अग्घं उवहर। इदं पादोदअं भविस्सदि। [ इदानीमतिथिविशेषलाभेन। हला शकुन्तले गच्छोटजम्। फलमिश्रमर्घमुपहर। इदं पादोदकं भविष्यति। ]
( सर्वाः = सकलाः तिस्रो मुनिकन्यकाः राजानं = नृपं दुष्यन्तं दृष्ट्वा = अवलोक्य किञ्चित् = ईषत् इव संभ्रान्ताः = चकिता आवेगे आपतिताः अतर्कितोपनतेन राजदर्शनेन समुपलब्धया लज्जया भयेन च संभ्रमः। )
अनसूया—यत् आर्य ! = महोदय ! न खलु = निश्चयेन किमपि = किञ्चित् अत्याहितं = महद्भयमापतितम् तर्हि किमनया परित्राणार्थमाक्रन्दितमित्याह—इयमिति। इयं = एषा पुरो दृश्यमाना नौ = आवयोः प्रियसखी = शकुन्तला अनेन मधुकरेण अभिभूयमाना = आकुलीक्रियमाणा = बाध्यमाना, कातरीभूता = त्रस्ता ( इति = इत्युक्त्वा शकुन्तलां दर्शयति = अवलोकयति।
राजा—राजा = दुष्यन्तः शकुन्तलाभिमुखः—शकुन्तलाम् अभि तथा अभिगतं मुखं यस्य स अभिमुखः, एकदिक् मुखं यस्यासौ शकुन्तलाभिमुखः भूत्वा अपि = किं तपः = तपस्या वर्द्धते = वृद्धिं याति, धर्मानुष्ठानं वृक्षसेचनादिकं च भवत्या निर्विघ्नं भवति ?
( शकुन्तला साध्वसात् = संभ्रमेण भयेन वा अवचना अविद्यमानं वचनं यस्याः सा अवचना = अप्रतिवचना, मौनव्रता साध्वसादवचना सती तिष्ठति )
अनसूया—इदानीं = सम्प्रति अतिथेः = आधुनिकस्य विशेषस्य = श्रेष्ठताया लाभेन प्राप्त्या इति अतिथिविशेषलाभेन तपो वर्द्धते अस्याः शकुन्तलायाः। हला = अयि सखि शकुन्तले ! उटजं = पर्णशालां गच्छ = याहि फलैः मिश्रं = युक्तं फलमिश्रं, अर्घ्यं = अर्घ्यार्थं द्रव्यं, उपहर = आनय। इदं = वृक्षसेचनार्थमानीतं पुरतः स्थाप्यमानं कलसजलं पादोदकं = पाद्यं जलं भविष्यति = सेत्स्यति।
( राजा को देखकर सभी चकित हो घबड़ा-सी जाती हैं )
अनसूया—आर्य ! और तो दूसरी कुछ विशेष बात नहीं है, किन्तु हम लोगों की प्रिय सखी शकुन्तला इस दुष्ट भौंरे से डरकर कुछ व्याकुल सी हो रही है। ( शकुन्तला की ओर संकेत करती है )।
राजा—( शकुन्तला के अभिमुख होकर ) अयि सुन्दरी ! तुम्हारी तपस्या ( व्रत, नियम, वृक्षादि सेचन आदि ) तो ठीक से चल रही है न ?
( शकुन्तला घबड़ाई हुई सी मुख नीचे कर खड़ी हो जाती है )
अनसूया—आर्य ! आप जैसे अतिथि के प्राप्त होने से हमारी तपस्या अवश्य ही वृद्धि को प्राप्त हो रही है। अरि सखि शकुन्तले ! पर्णशाला में जाओ और फल से युक्त अर्घ्यपात्र को लाओ। यह वृक्ष सेचन के निमित्त लाया गया कलस का जल पादोदक के लिए प्रस्तुत है।
प्रथमोऽङ्कः ४७
**राजा—**भवतीनां सूनृतयैव गिरा कृतमातिथ्यम् ।
**प्रियंवदा—**तेण हि इमस्सि पच्छाअसीदलाए सत्तवणवेदिआए मुहुत्तअं उवविसिअ परिस्समविणोदं करेदु अज्जो । [ तेन ह्यस्यां प्रच्छायशीतलायां सप्तपर्ण-वेदिकायां मुहूर्त्तमुपविश्य परिश्रमविनोदं करोत्वार्यः । ]
**राजा—**ननु यूयमप्यनेन ^१कर्मणा परिश्रान्ताः ।
**अनसूया—**हला सउंतले उददं णो पज्जुवासणं अदिहीणं । एत्थ उवविसम्ह । [ हला शकुन्तले उचितं नः पर्युपासनमतिथीनाम् । अत्रोपविशामः । ] (सर्वा उपविशन्ति)
**राजा—**अथ शकुन्तलायामासक्तो राजा दुष्यन्तः तस्याः क्षणिकमप्यदर्शनमसहमानः सन्नाह भवतीनां = युष्माकं सूनृतया = मधुरया एव गिरा = वचसा कृतं = सम्पादितम् अतिथिसत्कारः कृतः । भवतीनां मधुरभाषणेनैव तृप्तोऽस्मि, पाद्याद्यैः प्रयोजनं नास्तीति भावः । शास्त्रेषु अर्घ्येऽष्टानां वस्तूनां गणना विद्यते । तद्यथा—
आपः क्षीरं कुशाग्रं च दधि सर्पिः सतण्डुलम् ।
यवः सिद्धार्थकं चैव ह्यष्टाङ्गोऽर्घ्यः प्रकीर्तितः ॥
प्रियंवदा—तेन हि = यदि वाङ्मात्रेणैवातिथ्यं जातं तर्हि प्रच्छायशीतलायाम्-प्रकृष्टा छाया प्रच्छायं यद्वा प्रकृष्टा छाया यस्या प्रच्छाया = सघनछाया तया शीतलायां सप्तपर्ण-वेदिकायां—सप्तपर्णस्य = विषमच्छदस्य वेदिकायां = वेद्याम् मुहूर्तं = क्षणम् उपविश्य = स्थित्वा परिश्रमस्य = अध्वश्रमक्लान्तिम् अपनयतु = दूरीकरोतु भवान् यद्वा आर्यः = श्रीमान् परिश्रमस्य = अध्वश्रमक्लान्तेः विनोदम् = अपाकरणं करोतु = विदधातु ।
राजा—नूनमिति । न केवलं वयमेव, किन्तु ताभिः सह उपवेशनं कांक्षन् नूनं = निश्चयेन यूयमपि = भवत्योऽपि अनेन = धर्मकर्मणा = सेचनादिकृत्येन परिश्रान्ताः = क्लान्ताः । अतो युष्माकमपि परिश्रमविनोदनावसरोऽयमित्युपवेष्टव्यं भवतीभिरिति भावः ।
अनसूया—हला, सखि शकुन्तले ! नः = अस्माकं तपस्विकन्यकानां अतिथीनां विशिष्टस्यातिथेः नृपस्य पर्युपासनं=सत्कारः समीहिताचरणात्मकं पूजनम् । उचितं=योग्यं कृत्यम् । अत्र = स्थाने उपविशामः = उपतिष्ठामः ( इति = एवमुक्त्वा सर्वे नृपशकुन्तलाप्रियंवदाऽनसयाः उपतिष्ठन्ति ) ।
**राजा—**आपलोग कष्ट क्यों करती हैं। आपलोगों की इस प्रकार प्रिय एवं मधुर वाणियों से हमारा अतिथि सत्कार हो गया ।
**प्रियंवदा—**अच्छा तो आप थोड़ी देर इस छायादार और शीतल सप्तपर्ण की वेदी पर बैठकर अपना मार्गश्रम = थकावट दूर कर लें ।
**राजा—**आप लोग भी वृक्षों के सेचनरूपी धर्म कार्य से थक गई हैं। अतः आपलोग भी थोड़ी देर यहाँ बैठकर विश्राम कर लें ।
**प्रियम्बदा—**हे सखि शकुन्तले ! हम लोगों को विशिष्ट अतिथि के पास बैठकर उसका आदर-सत्कार करना उचित तथा आवश्यक है। अतः आओ, हम लोग भी थोड़ी देर इनके पास बैठ जाँय । (सभी बैठ जाती हैं )
**विशेष—**प्रियम्बदा विनोदप्रिय होती हुई भी छोटी तथा अपरिपक्व बुद्धि है और अनसूया
पाठा०—१. धर्मकर्मेणा ।
| ४८ | अभिज्ञानशाकुन्तलम् |
|---|
शकुन्तला—( आत्मगतम् । ) किं णु क्खु इमं पेक्खिअ तवोवण विरोहिण विआरस्स गमणीअम्हि संवुत्ता। [ किं नु खल्विमं प्रेक्ष्य तपोवनविरोधिनो विकारस्य गमनीयास्मि संवृत्ता । ]
राजा—( सर्वा विलोक्य ) अहो समवयोरूपरमणीयं भवतीनां सौहार्दम्।
शकुन्तला—किं नु = इति वितर्के, खलु निश्चयेन इमं = जनम् अमुं दुष्यन्तं प्रेक्ष्य = दृष्ट्वा तपोवनस्य = आश्रमस्य विरोधिनः = प्रतिकूलस्य तपोवनविरोधिनः = तपस्विजनप्रतिकूलस्य विकारस्य = विकृतेः--विषयानुभवोन्मुख्यरूपस्य मनोविकारविशेषस्य गमनीया = लक्ष्यभूता प्राप्या संवृत्ता जाता । अनेन शकुन्तलायाः प्रथमः चित्तविकारारम्भरूपोऽङ्गजो भावः स्फुटं दर्शितः । उक्तं च--निर्विकारात्मके चित्ते भावः प्रथमविक्रिया ।
राजा—राजा = नृपो दुष्यन्तः ( सर्वाः = तिस्रः शकुन्तलाप्रियंवदाऽनसूयाः विलोक्य = दृष्ट्वा ) तासां परस्परं सौहार्दमालोक्य प्रसन्नो राजा दुष्यन्तः ताः समावर्जयितुं चाटुभाषणमारभते अहो, आश्चर्यं समानि वयांसि रूपाणि चेति समवयोरूपाणि तैः रमणीयमिति
प्रौढमति और गंभीर होने के साथ-साथ परिस्थिति संभालती रहती है । अनसूया ने शकुन्तला को भौंरे से परेशान बताया, जिससे राजा दुष्यन्त सहानुभूति में उसकी ओर मुखकर पूछते हैं, तबतक भौंरा भाग गया । तपोवन में सभी तपस्या करते हैं । अतः वहाँ तपस्वियों के लिए तप की वृद्धि सबसे बड़ी कुशल है। इसलिए राजा ने कुशल-प्रश्न के रूप में तपस्या की वृद्धि ही पूछी । गृहस्थ से स्वस्थता आदि पूछा जाता है, क्योंकि गृहस्थाश्रम में वही प्रमुख विषय हैं । शकुन्तला को ही अतिथि सत्कार करना है, पर वह वचन से भी सत्कार नहीं कर पाती, क्योंकि पहले तो भौंरे से परेशान थी अब विशेष अतिथि राजा से घबड़ा गई है कि इनका उचित आतिथ्य मुझ से हो पायेगा या नहीं। सूनृत वाणी का अर्थ है मीठी वाणी। राजा ने कहा-आपलोगों की मीठी वाणी से ही मेरा अतिथि-सत्कार हो गया, अब पाद्य, अर्घ लाने की कोई जरूरत नहीं। अभी तक विनोदी प्रियम्वदा चुप थी, अवसर देख रही थी। राजा की बात सुनकर उनके साथ बातचीत करना अपना सौभाग्य समझ कर मधुरवाणी का परिचय देती हुई कहना आरम्भ किया—अच्छा तो महाराज ! इस छितौन वृक्ष की सघन शीतल छाया में क्षणभर बैठकर विश्राम कर लें। जब प्रियम्वदा ने राजा को बैठाने का अनुरोध किया तब राजा ने भी उनसे वहाँ बैठकर कुछ देर तक विश्राम कर लेने को कहा। यह परस्पर का अनुरोध भारतीय शिष्टाचार की एक परम्परा है। पर्युपासन का तात्पर्य है कि अतिथि के आस-पास बैठना। अतः वे तीनों राजा के पास बैठ गई।
शकुन्तला—( मन ही मन ) क्या बात है कि इन्हें देखकर मेरे मन में आश्रम विरोधी = प्रतिकूल भाव = कामविकार उत्पन्न हो रहा है ?
**विशेष—**शकुन्तला अपने मन में ही सोचती है, जिससे प्रतीत होता है कि प्रेम से वशीभूत हो गयी है। नाटकों में स्वगत एवं आत्मगत समानार्थ माने गये हैं। धनञ्जय ने अपने दशरूपक में कहा है कि दर्शकों के सुनने योग्य बात को प्रकाश कहते हैं और जिसको दर्शक सुन रहे हों, पर पात्र नहीं, इसको स्वगत कहा जाता है—'सर्वश्राव्यं प्रकाशं स्यादश्राव्यं स्वगतं मतम्।'
राजा—( सबकी ओर देखकर ) अहा, परस्पर समान अवस्था और समान रूप वाली इन मुनिकन्याओं का प्रेम तथा इनका अनुराग भी आपस में कैसा सुन्दर है।
**विशेष—**यद्यपि राजा का शकुन्तला के प्रति विशेष अनुराग हो गया है फिर भी उसे छिपा कर समूह से पृथक् कर एक की प्रशंसा अशिष्टता समझ कर सबके रूप, आकृति एवं स्वभाव के
प्रथमोऽङ्कः ४९
प्रियंवदा—(जनान्तिकम्) अणसूए को णु क्खु एसो चउरगम्भीराकिदो मधुरं पिअं आलवन्तो पहाववन्दो विअ लक्खीअदि। (जनान्तिकम्) [ अनसूये को नु खल्वेष चतुरगम्भीराकृतिमधुरं प्रियमालपन् प्रभाववानिव लक्ष्यते । ]
अनसूया— सहि मम वि अत्थि कोदूहलं पुच्छिस्सं दाव णं (प्रकाशम्) अज्जस्स महुरालावरञ्जिदो विसम्मों मं मन्तावेदि। कदमो अज्जेण राएसिणो वंसो अलंकरीअदि कदमो वा विरहपज्जुस्सुअजणो किदो देसो किंनिमित्तं वा
समवयोरूपरमणीयं = समेन = तुल्येन वयसा = अवस्थया, रूपेण = आकृत्या वा रमणीयं = सुन्दरं, मनोहरं भवतीनां = युष्माकं सौहार्दम् = मित्रता। अत्र रूपपदेन आकृतिः, सौन्दर्यं स्वभावश्चेति त्रितयं विवक्षितम् ।
प्रियंवदा— राज्ञो दुष्यन्तस्य रूपसौन्दर्यादिना प्रलोभिता तत्त्वजिज्ञासया (जनान्तिकं = त्रिपताकाकरेणान्यानपवार्य दुष्यन्तं श्रावयन्ती अनसूयां प्रति प्राह) अनसूये ! सखि ! नु शब्दो वितर्के खल्विति जिज्ञासायाम् । को नु खलु एषः = अयं निकटस्थः चतुरगम्भीरा आकृतिर्यस्य स चतुरगम्भोराकृतिः = दर्शनीयगभीरस्वरूपः यद्वा दुरवगाहगम्भीराकृतिः-दुरवगाहा अत एव गम्भीरा = गभीरा आकृतिः = मुखमुद्रा यस्यासौ प्रियं, मधुरं = सरसं आलपन् = वार्तालापं कुर्वन् प्रभाववान् इव = प्रतापशालीव लक्ष्यते = अनुमीयते । आकृत्या स्वभावेन वाचा च मन्ये नायं प्राकृतो जन इति भावः । यदि अस्य रूपाद्यनुरूपमभिजात्यमपि स्यात्तदा अस्मत्सख्याः शकुन्तलाया। वरत्वेनायं ग्रहीतुमुचित इति प्रियंवदाया गूढोऽभिसन्धिः ।
अनसूया— सखि ! = आलि ! प्रियम्बदे ! मम = मे अस्ति = वर्तते कौतूहलं = उत्सुकता
सम्बन्ध में अपना मत व्यक्त कर रहे हैं जिससे सखियाँ न समझ सकें कि ये कहीं छिपकर शकुन्तला के अपूर्व सौन्दर्य को देख रहे थे। इस प्रकार राजा को तीनों की अवस्था, आकृति एवं परस्पर सौहार्द से आश्चर्य हो रहा था। अतः उन्होंने तीनों की प्रशंसा की है।
प्रियम्बदा—(हाथ की आड़ कर केवल अनसूया से) सखि अनसूये ! यह कौन व्यक्ति है जो देखने में गम्भीर आकृति वाला मालूम पड़ता है। इसके मधुर भाषण से यह अत्यन्त प्रभाव शील प्रतीत हो रहा है।
विशेष— राजा दुष्यन्त के शिष्ट व्यवहार तथा प्रभावशाली व्यक्ति का इतना प्रभाव पड़ा कि प्रियम्वदा हाथ की आड़ में मुख छिपा कर अनसूया से बातचीत करती हुई उनकी प्रशंसा कर रही है। दशरूपक में धनञ्जय ने जनान्तिक का लक्षण लिखा है कि बातचीत के प्रसंग में हाथ की अंगुलियाँ खड़ीकर और अनामिका को कुछ तिरछा कर जो कहा जाय उसे जनान्तिक कहते हैं। इस ढंग में वही व्यक्ति नहीं सुन पाता है जिसकी तरफ अनामिका तिरछी की जाती है, शेष सुनते रहते हैं।
'त्रिपताकाकरेणान्यानपवार्यान्तरा कथाम्।
अन्योऽन्यामन्त्रणं यत् स्यात् जनान्ते तज्जनान्तिकम्॥'
अनसूया—हे सखि प्रियम्बदे ! मुझे भी इस बात का बड़ा कुतूहल हो रहा है। अतः मैं इनसे
पाठा०—१. चतुरे ।
४ शाकु०
५० अभिज्ञानशाकुन्तलम्
सुउमारदरो वि तवोवणगमणपरिस्ससस्स अत्ता पदं उवणीदो। [ सखि, समाश्वसिति कौतूहलम्। प्रक्ष्यामि तावदेनम्। ( प्रकाशम् ) आर्यस्य मधुरालापजनितो विश्रम्भो मां मन्त्रयते। कतम आर्येण राजर्षवंशोऽलंक्रीयते कतमो वा विरहपर्युत्सुकजनः कृतो देशः किंनिमित्तं वा सुकुमारतरोऽपि तपोवनगमनपरिश्रमस्यात्मा पदमुपनीतः। ]
शकुन्तला—( आत्मगतम् ) हिअअ मा उत्तम्म। एता तुए चिन्तिद अणसूआ मन्तेदि [ हृदय मोत्ताम्य। एषा त्वया चिन्तितं अनसूया मन्त्रयते। ]
प्रक्ष्यामि = पृच्छामि तावत् = प्रथमम् एनं = इमं राजानम्, ( प्रकाशं = व्यक्तम् ) आर्यस्य = श्रीमन्तः, भवतः मधुरालापजनितः—मधुरेण = कर्णसुखकरेण आलापेन = संभाषेणेन जनितः = उत्पन्नः विश्रम्भः = विश्वासः माम् = इमं जनम् अनसूयाम् मन्त्रयते = कथयितुं प्रेरयते, वचनेन नियोजयते, कतमः = कः आर्येण = श्रीमता, राजर्षेवंशः अलङ्क्रियते = कस्य राजर्षेः वंशे भवानुत्पन्नः कतमो वा देशः = स्थानम् विरहेण = वियोगेन पर्युत्सुकाः = उत्कण्ठिता जनाः यस्मिन् स विरहपर्युत्सुकजनः कृतः = विहितः कस्माद्देशादागतोऽसीति भावः। किंनिमित्तं = को हेतुः वा = च सुकुमारतरः = परिश्रमानर्हः अपि तपोवने यद्गमनं तस्य परिश्रमः क्लान्तेः इति तपोवनगमनपरिश्रमस्य आत्मा = देहः पदं = स्थानम् उपनीतः = प्रापितः, केन हेतुना भवानत्र आयात इति हि प्रश्नाशयः। अत्र क्रमशः वंशदेशौ आगमनहेतुश्च भङ्ग्या पृष्टः।
शकुन्तला--( आत्मगतं = स्वगतम् ) हृदयः = मनः मा उत्ताम्य = अलम् अधीरतया सन्तापं मा कृथाः। एषा = इयं निकटस्था अनसूया त्वया भवता = चिन्तितम् = इष्टम् मन्त्रयते = जिज्ञासाप्रकटनेन कथयति।
पूछती हूँ (प्रगट में) आर्य ! आपके इस मधुर भाषण से जो विश्वास उत्पन्न हो गया है, उसी से मैं आपसे यह पूछने की धृष्टता कर रही हूँ कि आपने किस राजर्षि वंश को अपने जन्म से अलंकृत किया है ? और आपने कौन देश को अपने विरह से उत्सुक=विरहाकुल किया है तथा किस लिए आपने अपने इस सुकुमार शरीर को इस तपोवन में आने के कष्ट में लगाया है अर्थात् क्या चन्द्र-सूर्यवंशों में किस राजवंश में आपका जन्म है? और आप किस देश के निवासी हैं तथा इस तपोवन में आपके आने का क्या कारण है ? कृपया बताने का कष्ट करें।
**विशेष—**विश्वास की परिभाषा शास्त्रों में इस प्रकार की गई है—
'यद् यत स्वचित्ते स्फुरति तत्तत् परिचितान् प्रति।
निःशेषं बोधयन् भावो विश्वास इति कथ्यते॥'
अनसूया तो पहले संकुचित-सी हो गई थी, किन्तु परिस्थिति के अनुकूल होते ही उसने भावुक प्रश्नों की चर्चा छोड़कर व्यावहारिक प्रश्न करना प्रारम्भ कर दिया, जिससे उस आगन्तुक अपरिचित अतिथि को विशेष जानकारी हो सके। उसने सभ्यभाषा में राजा से तीन बातें पूछीं- आप किस वंश के राजा हैं ? आपका कौन सा देश है ? यहाँ आश्रम में आने का क्या कारण है इस प्रकार काव्यात्मक भाषा में वंश देश और आगमन का कारण पूछकर अनसूया ने प्रगल्भ और व्यवहार-पटुता का पूर्ण कौशल उपस्थित कर दिया है जिससे मधुर आलाप से सौहार्द पूर्ण विश्वास का वातावरण प्रस्तुत हो गया है।
शकुन्तला—( मन ही मन ) हृदय अधीर मत हो। जो बात तुम जानना चाहती हो उस बात को तो वह अनसूया स्वयं ही पूछ रही है।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
प्रथमोऽङ्कः
५१
राजा—( आत्मगतम् ) कथमिदानीमात्मानं निवेदयामि कथं ^१वात्मापहारं करोमि। भवतु। एवं तावदेनां वक्ष्ये। ( प्रकाशम् ) भवति यः ^२पौरवेण राज्ञा धर्माधिकारे नियुक्तः ^३सोऽहमविघ्नक्रियोपलम्भाय धर्मारण्यमिदमायातः।
**अनसूया—**सणाहा दाणि धम्मआरिणो [ सनाथा इदानीं धर्मचारिणः ]
राजा—( आत्मगतम् स्वगतम् =,) कथं = कया रीत्या इदानीं = अधुना आत्मानं = स्वस्य परिचयम्, निवेदयामि = कथयामि कथं वा = कया रीत्या वा आत्मापहारं = स्वस्य गोपनं निग्रहणं करोमि = कुर्याम् आत्मनिगूहनं धर्मशास्त्रेषु अधर्म्यं प्रतिपादितमस्ति। तथा हि—
'योऽन्यथा सन्तमात्मानमन्यथा सत्सु भाषते। स पापकृत्तमो लोकस्तेन आत्मापहारकः॥'
भवतु = अस्तु, निर्णीतम्, एवं = अनया रीत्या तावत् एनां = इमाम् अनसूयां वक्ष्ये = वदिष्यामि, ( प्रकाशं = स्पष्टम् ) भवति = देवि ! यः पौरवेण = पुरुवंशीयेन राज्ञा = नृपेण दुष्यन्तेन धर्माधिकारे = धर्मरक्षारूपेऽधिकारे नियुक्तः = आदिष्टः, अधिकृतः सः = पूर्वोक्तः अहमयं जनः अविघ्नक्रियोपलम्भाय-अविघ्नानां = क्रियाणाम् उपलम्भाय = क्रिया निर्विघ्ना न वेति ज्ञातुम् इदं = एतत् धर्मारण्यं = रणे साधुरण्यं न रण्यम् अरण्यं धर्मस्य अरण्यं धर्मारण्यम् = तपोवनम् धर्मस्य धर्मसाधनं धर्मार्थं वा अरण्यं धर्मारण्यं आयातः= आगतः।
अयं भावः राज्ञो दुष्यन्तस्य धर्मसचिवोऽहं धर्मरक्षार्थमिहागत इति आत्मनि गूहनरूपो बाह्यार्थः। पौरवेण राज्ञा = इलिलनाम्ना मत्पित्रा धर्माधिकारे = धर्मस्वरूपे प्रजापरिपालनारूपेऽधिकारे नियुक्तः = अभिषेकपूर्वं स्थापितः दुष्यन्त इति प्रसिद्धोऽहमिति बाह्यार्थः।
**अनसूया—**अथ तद्वचनं सादरमनुमोदमाना अनसूया प्राह—इदानीं = साम्प्रतम्
राजा—( मन ही मन ) मैं अब अपने को कैसे प्रकट करूँ ? और छिपाऊँ तो कैसे छिपाऊँ ? अच्छा इस प्रकार कहता हूँ ( प्रगट में ) श्रीमती जी, मैं तो पौरव राजा का आज्ञाकारी पुत्र हूँ और उनके नगर की रक्षा करने को नियुक्त हूँ। तथा पुण्य आश्रमों को देखने की अभिलाषा से धर्मारण्य = तपोवन में आ गया हूँ।
**विशेष—**मनुजी ने अपनी मनुस्मृति में पर-पत्नी तथा असम्बद्ध स्त्री को भवती, सुभगा और भगिनी कहने का आदेश दिया है, जिसके अनुसार राजा दुष्यन्त ने मुनिकन्याओं को भवती कहा है—
'परपत्नी तु या स्त्री स्यादसम्बद्धा च योनितः।
तां ब्रूयाद् भवतीत्येवं सुभगे भगिनीति च॥'
पहले राजा दुष्यन्त ने अपने को छिपाने में असुविधा तथा प्रगट होने में मुनिकन्याओं के संकोच का अनुभव कर द्वैविध्य में पड़ गये हैं, पर पुनः उन्होंने निर्णय लिया कि पौरव का अर्थ दुष्यन्त-पिता और दुष्यन्त दोनों होना संभव है। अतः अपने को छिपा रखने का उपाय उन्हें मिल गया है।
**अनसूया—**हे आर्य ! आपके आने से हम सब धर्माचरणशील आश्रमवासी सनाथ और कृतार्थ हो गये।
**विशेष—**धर्मचारी शब्द जातिवाचक होने के कारण स्त्री और पुरुष दोनों के लिए प्रयुक्त होता है।
पाठ०—१. श्रोत्मनः परिहारं । २. पौरवेन नगरध्यक्षोँ । ३. पुण्याश्रमदर्शनप्रसंगेन ।
५२ अभिज्ञानशाकुन्तलम्
( शकुन्तला शृङ्गारलज्जां रूपयति । )
सख्यौ— ( उभयोराकारं विदित्वा । जनान्तिकम् । ) हला सउन्दले जइ एत्थ अज्ज तादो संणिहिदो भवे [ हला शकुन्तले यद्यत्राद्य तातः संनिहितो भवेत् । ]
शकुन्तला— तदो किं भवे । [ ततः किं भवेत् । ]
धर्मचारिणः = तपोवनवासिनो वयं धार्मिकाः सनाथाः-मावेन = रक्षकेन सहिता सनाथाः । पूर्वं तु सनाथत्वमस्पष्टमासीत्, परमिदानीं स्पष्टमभूदिति भावः । राज्ञो द्वयर्थंकवचनेन अयं राजप्रतिनिधिः राजा वायमिति ज्ञात्वाऽनस्रूया सनाथत्वं प्रोक्तवती ।
राज्ञो रूपदर्शनेनाङ्कुरितायाः पश्चादभिजात्यादि-श्रवणेन परिपोषं प्राप्तायाश्च रते-रवस्थान्तरमनुभावद्वारा दर्शयति—शृङ्गारेति । शकुन्तला शृङ्गारलज्जां = शृङ्गाररसाश्रयां भ्रूभङ्गादिना साकूतं लज्जां = कामचेष्टां वा सव्रीडं नाटयति = सलज्जमभिनयति तदनेन हावो नाम नायिकाङ्गजोलङ्कारो दर्शितः । तदुक्तम्-
'भ्रूनेत्रादिविकारैस्तु सम्भोगेच्छाप्रकाशकः । भाव एवाल्पसंलक्ष्य विकारो हाव उच्यते ॥'
लज्जां हि कन्याजनसुलभा भवति—यथा हि भोजराजः-
'दुराचारादिमिर्व्रीडा धाष्ट्र्यामावस्तमुन्नयेत् । साचीकृताङ्गावरणे वैवर्ण्योधोमुखादिभिः ॥'
लज्जा नाम अन्तरुद्भून्नमान्मथिकविकारजुगोपायिषा मदनविजृम्भणरूपा शृङ्गाररसतरङ्गिणी, यथा रूढा निर्भरतया तांस्तान् विलासान् नेत्रगात्रविकारपरम्परारूपान् सूते । शृङ्गारलज्जालक्षणं तु परावृत्तेन शिरसा लज्जितया दृशा च । तल्लक्षणं यथा-
'पराङ्मुखीकृतं शीर्षं परावृत्तमुदीरितम् ।
तत्कार्यं कोपलज्जादि कृते वक्त्रापसारणे ॥
मिथोऽभिगामि-पक्ष्मोग्राऽप्यधस्ताद् गततारका ।
पतितोर्ध्वपुटादृष्टिर्लञ्जय्या लज्जिता मता ॥'
सख्यौ— इदानीं विदग्धयोः सख्योः प्रवृत्तिमह—सख्यौ = अनसूया प्रियम्बदा च उमयोः शकुन्तला-दुष्यन्तयोः आकारं = मुखाकृतिं विदित्वा = आकारेण उभयोरनुरागं ज्ञात्वा परस्पराभिलाषमनुभावैरवधायं वा । सोपहासं सख्यो शकुन्तलामाहतुः—हला शकुन्तले ! यद्यत्र अद्य = इदानीं अतिथिविशेषलाभे, त्वदनुरूपवरलाभे तातः = कुलपतिः कण्वः सन्निहितः = उपस्थितः भवेत् = स्यात् ।
शकुन्तला—ततः किं भवेत् = तदा किं स्यात् ।
( शकुन्तला हाव, भाव, कटाक्ष आदि कामविकारप्रदर्शनपूर्वक शृङ्गार लज्जा का अभिनय करती है । )
दोनों सखियाँ— ( दोनों की आकृति देखकर शकुन्तला से ) सखि शकुन्तले ! आज यहाँ यदि तात कण्व उपस्थित होते ।
विशेष— दुष्यन्त और शकुन्तला दोनों के चेहरे पर परस्पर आकर्षक अनुराग को देखकर दुष्यन्त को न सुनने देने के लिए उनकी तरफ हथेली करके, उस समय महर्षि कण्व के न उपस्थित रहने का पश्चात्ताप करती हुई शकुन्तला से कहती हैं—सखि, यदि इस सु-अवसर पर पिताजी होते तो ।
शकुन्तला— तो क्या होता ?
प्रथमोऽङ्कः ५३
सख्यौ—इमं जीवितसव्वस्सेण वि अदिहिविसेसं किदत्थं करिस्सदि। [ इमं जीवितसर्वस्वेनाप्यतिथिविशेषं कृतार्थं करिष्यति । ]
शकुन्तला—तुम्हे अवेध। किं हिअए करिअ मन्तेध। ण वो वअणं सुणिस्सं। [ युवामपेतम्। किमपि हृदये कृत्वा मन्त्रयेथे। न युवयोर्वचनं श्रोष्यामि । ]
राजा—वयमपि तावद्भवत्योः सखीगतं ^१किमपि पृच्छामः।
सख्यौ—अज्ज अणुग्गहो विअ इअं अब्भत्थणा। [आर्य अनुग्रह इवेयमभ्यर्थना ।]
सख्यौ—अनसूया प्रियम्वदा च विवक्षिताथंगोपायनपुरःसरं इमं जनं लोकोत्तरगुण-विशिष्टमतिथिविशेषं राजानम् जीवितसर्वस्वेन = जीवितस्य जीवनस्य सर्वस्वेन = सर्वोत्तमवस्तुना तपःप्रभावर्निर्मितैर्लोकोत्तरपदार्थैरपि कृतार्थं = करिष्यति विवाहादिना यथार्थं सम्मानयेत् । अस्मै अतिथित्वेनागताय त्वदनुरक्ताय महाराजाय जीवितसर्वस्वभूतां त्वं प्रदास्यतीति व्यङ्ग्यार्थः ।
शकुन्तला—नायकसमक्षं प्रस्तुतां सखीजनवक्रतां बुद्ध्वा सलज्जा कृतककोपेनाह—युवां = भवती अपेतम् = मत्त्समीपाद् दूरे गच्छतम् किमपि = कन्यकानामवाच्यं लज्जाकरं किञ्चिद् वस्तु हृदये = अन्तःकरणे कृत्वा = निधाय मन्त्रयेथे = वदथः न युवयोः = परिहासशीलयोः भवत्योः वचनं = एकमपि वाणीं श्रोष्यामि = आकर्णयिष्यामि।
राजा—अथ तथाविधां शकुन्तलामालोक्य परिवृद्धाभिलाषो राजा तस्याः क्षत्रिय-परिग्रहयोग्यतां द्रढयितुं तदुत्पत्तिं प्रष्टुमारभते = वयमपि यथा यूयमस्मत्कुलानामाद्य-पृच्छत तथा तावद् भवत्योः युवयोः सखीगतं = सखिसम्बन्धि-शकुन्तलाविषयकं पृच्छामः = प्रष्टुमिच्छामः ।
सख्यौ—सख्यौ = प्रियम्वदानसूये कथयतः—आर्ये ! = श्रीमन् ! अनुग्रहः = कृपा इव = तत्तुल्यः इयं = एषा जिज्ञासारूपा अभ्यर्थना = प्रार्थना। भवत्प्रश्नस्य सखीवृत्तान्त-विषयकत्वेन तस्या अभ्युदयहेतुत्वात् अनुग्रहात्मना संभावयावः । एवं च भवतः प्रश्नोऽय-मनुग्रहतुल्य एवेति कामं पृच्छतु भवानिति सूचितम् ।
दोनों सखियाँ—तो अपने जीवनसर्वस्व = शकुन्तला को देकर भी इस विशिष्ट अतिथि वर का सत्कार करते ।
विशेष—जीवन सर्वस्व का अर्थ है—जीवन का सब कुछ, जिसके दो अर्थ संभव है—बड़ी से बड़ी वस्तु और जीवन का सबसे बड़ा धन शकुन्तला । महर्षि कण्व शकुन्तला को प्राणों से भी अधिक मानते थे। इस लिए यह उनका उत्तम धन है। दुष्यन्त को कृतार्थ करने का तात्पर्य है कि उन पर आसक्त अभिलषित शकुन्तला को समर्पित कर उन्हें सन्तुष्ट कर देना ।
शकुन्तला—जाओ हटो, तुम दोनों तो न मालूम क्या मन में रखकर ऐसी-ऐसी बातें कर रही हो। मैं तुम्हारी बातें सुनूँगी ही नहीं।
राजा—जैसे आप लोगों ने मेरा कुल और नाम पूछा है वैसे ही मैं भी आपलोगों की इस सखी के विषय में आप लोगों से कुछ पूछना चाहता हूँ ।
दोनों सखियाँ—पूछिए, पूछिए । भला अनुग्रह में भी कभी प्रार्थना की जरूरत होती है ? अर्थात् यदि आप पूछेंगे तो हम लोगों पर अनुग्रह ही होगा।
पाठ०—१. किञ्चित् ।
५४ | अभिज्ञानशाकुन्तलम्
राजा—भगवान् काश्यपः शाश्वते ब्रह्मणि स्थित इति प्रकाशः। इयं च वः सखी तदात्मजेति कथमेतत्।
अनसूया—सुणादु अज्जो। अत्थि को वि कोसिओत्ति गोत्तणामहेओ महाप्प-हावो राएसी। [शृणोत्वार्यः। अस्ति कोऽपि कौशिक इति गोत्रनामधेयो महाप्रभावो राजर्षिः।]
राजा—तद्वचसा सन्तुष्टः पृच्छति—भगवान्=ऐश्वर्यादिषड्गुणसम्पन्नः श्रीमान् काश्यपः शाश्वते ब्रह्मणि स्थितः = परब्रह्मणि नियोजितात्मा यद्वा नैष्ठिकब्रह्मचर्ये स्थितः, परिग्रह-साहित्यादूध्वंरेता इति यावत्, इति प्रकाशः = प्रसिद्धोऽयमर्थः। इयं = एषा च वः = युष्माकं सखी = आलिः शकुन्तला तदात्मजा = तस्यौरसी पुत्री इति = इदं भवतीभ्यां कथितम् एतत् = इदं कथं = केन प्रकारेण संगच्छते ? । तत्प्रकारः कथ्यतामिति भावः।
अनसूया—अथ शकुन्तलोत्पत्तिसम्बन्धिनीं कथां कथयितुमुपक्रमते = शृणोतु आर्यः = श्रीमान् आकर्णयतु अस्ति = आसीत् कोऽपि = कश्चित् कुशिकस्य गोत्रापत्यं पुमान् कौशिको विश्वामित्रः इति = एवं प्रकारेण गोत्रकृतं नामधेयं यस्यासौ गोत्रनामधेयः—वंशनामा। महाप्रभावः = विपुलप्रतापः राजर्षिः = राजा = नृपः ऋषिः मुनिरिव इति राजर्षिः।
**राजा—**भगवान् कण्वमुनि तो सदा से नैष्ठिक ब्रह्मचारी प्रसिद्ध हैं। आपकी सखी शकुन्तला उनकी पुत्री है ऐसा आप लोगों ने कहा ही है, तो यह बात कैसे? नैष्ठिक ब्रह्मचारी को यह पुत्री कैसे हुई ?
**विशेष—**शास्त्रों में भगवान् उन्हें कहा गया है, जिनके पास निम्नाङ्कित छह गुण हों—
'उत्पत्तिं प्रलयं चैव भूतानामागतिं गतिम्। वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ॥'
अथवा भग = ऐश्वर्य वाले को भगवान् कहते हैं। समग्र ऐश्वर्य, वीर्य, यश, श्री, ज्ञान और वैराग्य इन छह वस्तुओं का नाम भग है—
'ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः। ज्ञान-वैराग्ययोश्चैव षण्णां भग इतीङ्गना ॥'
आत्मजा औरस पुत्री को कहते हैं, और नैष्ठिक ब्रह्मचारी विवाह न करने वाले ब्रह्मचारी को कहते हैं ? नैष्ठिक ब्रह्मचारी को औरस कन्या कैसे ? यह प्रश्न भद्र भाषा में उठाया गया है। राजा दुष्यन्त ने पहले तो महर्षि कण्व की विजातीय भार्या में शकुन्तला की उत्पत्ति की बात सोची थी, अब विवाह प्रसंग में कण्व के नैष्ठिक ब्रह्मचर्य में सन्देह करते हैं। जो एक धर्मात्मा राजा के लिए उचित ही है। यहाँ कण्व ऋषि को काश्यपवंश में उत्पन्न कहा गया है।
**अनसूया—**आर्य ! सुनिए, कौशिक नाम के महाप्रभावशाली राजर्षि थे।
**विशेष—**पुराणों के अनुसार ब्रह्मा के पुत्र कुश राजा के वंश में उत्पन्न होने के कारण विश्वामित्र को कौशिकी कहा जाता है, किन्तु महाभारत के अनुसार कान्यकुब्ज के राजा कुश के पुत्र गाधि के पुत्र विश्वामित्र हुए हैं।
'कान्यकुब्जे महानासीत् पार्थिवो भरतर्षभ !।
गाधीति विश्रुतो लोके कुशिकस्यात्मसंभवः॥
तस्य धर्मात्मनः पुत्रः समृद्धबलवाहनः।
विश्वामित्र इति ख्यातो बभूव रिपुमर्दनः ॥'
विश्वामित्र जी के महाप्रभाव की कथा पुराणों में प्रसिद्ध है—
तप के द्वारा राजर्षि से ब्रह्मर्षि हो जाना, अजीगर्त के पुत्र शुनःशेप की वरुण से रक्षा करना, त्रिशंकु को मानव शरीर से स्वर्ग भेजना तथा नई सृष्टि की रचना आदि उनके महाप्रताप के द्योतक हैं।
प्रथमोऽङ्कः (५५)
राजा—अस्ति। श्रूयते।
अनसूया—त णो पिअसहीए पहवं अवगच्छ। उज्झिआए सरीरसंबड्ढणादिहिं तादकस्सवो से पिदा। [तमावयोः प्रियसख्याः प्रभवमवगच्छ। उज्झितायाः शरीर-संवर्धनादिभिस्तातकाश्यपोऽस्याः पिता।]
राजा—उज्झितशब्देन जनितं मे¹ कौतूहलम्। ²आमूलाच्छ्रोतुमिच्छामि।
राजा—दुष्यन्तः आत्मनः श्रवणौत्सुक्यं द्योतयितुं तदुक्तमनुमोदमानः प्राह—अस्ति=आसीत् श्रूयते = आवर्णनमात्रेण तत्सत्तां जानामि।
अनसूया—श्रोतुमौत्सुक्यमवधायं सोत्साहं प्राह—तं = राजर्षि कौशिकं आवयोः प्रियसख्याः = शकुन्तलायाः प्रभवं = जनकं अवगच्छ = जानीहि। कथं तर्हि कण्वपुत्रीति व्यपदेश इत्यत आह—उज्झितायाः = प्रसवानन्तरं जनन्या परित्यक्तायाः शरीरपरिवर्द्धना-दिभिः = कलेवरपोषणादिभिः तातकाश्यपः = महर्षिः कण्वः अस्याः = शकुन्तलायाः पिता = पातीत्यन्वर्थनामा न तु जनकः यथोक्तं—
'कन्यादाताऽन्नदाता च जन्मदाताऽभयप्रदः।
जन्मदो मन्त्रदो ज्येष्ठभ्राता च पितरः स्मृताः ॥'
राजा—नृपो दुष्यन्तः सख्योक्त्या शकुन्तलाया राजर्षिबीजात् संभवं ज्ञात्वा तामा-त्मनः परिग्रहयोग्यां मन्यमानः अत एव प्रवर्द्धमानोऽनुरागस्तन्मातरं ज्ञातुं तदुत्पत्तिं विस्त-रेण श्रोतुकाम आह = उज्झित इति शब्देन मे = मम मनसि कौतूहलं = जिज्ञासा जनितं = उत्पन्नम् आमूलात् = आदित आरभ्य, आरम्भात् श्रोतुं = आकर्णयितुं, इच्छामि = कामये।
राजा— हाँ, उनका नाम तो मैंने खूब सुना है।
अनसूया— हमारी सखी शकुन्तला के वे ही विश्वामित्र जी पिता हैं, परन्तु इस शकुन्तला को इसकी माता ने यों ही छोड़ दिया था। अतः इसका पालन-पोषण कुलपति कण्व ने किया है। इसलिए इसके पालन-पोषण करने के कारण महर्षि कण्व भी इसके पिता के समान हैं, क्योंकि पालन-पोषण करने वालों को भी शास्त्रों में पिता कहा गया है।
विशेष— महाभारत के आदि पर्व में जो गर्भाधान के शरीर निर्माण करता है, जो अभय दान देकर प्राणों की रक्षा करता है और जिसका अन्न भोजन किया जाता है, ये तीनों पिता कहे गये हैं—
'शरीरकृत् प्राणदाता यस्य चान्नानि भुञ्जते। क्रमेणैव त्रयः प्रोक्ताः पितरौ धर्मसाधने ॥'
इन्द्र द्वारा भेजी गयी अलौकिक सौन्दर्य सम्पन्न मेनका अप्सरा ने अपने हावभावों के द्वारा अग्नि के समान तेजस्वी विश्वामित्र मुनि को तपोभ्रष्ट कर उनके साथ संभोग किया और शकुन्तला को जन्म देकर निर्जन वन में उसे छोड़ कर इन्द्र लोक चली गई। बाद महर्षि कण्व ने उस निर्जन वन में घेर कर शकुन्तों (पक्षियों) द्वारा रक्षित उसे लाकर रक्षा किया और उसका नाम शकुन्तला रख दिया। (अतः शकुन्तोंद्धार रहित होने के कारण इसका नाम शकुन्तला पड़ा)।
'निर्जने तु वने यस्माच्छकुन्तैः परिवारिता। शकुन्तलेति नामास्या कृतं चापि ततो मया ॥ ७२।१६
इस प्रकार अपने यहाँ लाकर प्राण दाता और अन्न दाता होने के कारण महर्षि कण्व शकुन्तला के पिता कहे जाते हैं। वह वस्तुतः मेनका में उत्पन्न विश्वामित्र की पुत्री थी।
राजा— उज्झित शब्द ने मुझ में उत्सुकता उत्पन्न कर दी है। यह क्यों छोड़ दी गई इस प्रसंग को मैं आरम्भ से सुनना चाहता हूँ।
पाठा०—१. नः। २. तदामूला ।
५६ अभिज्ञानशाकुन्तलम्
अनसूया—सुणादु अज्जो पुरा किल तस्स राएसिणो उग्गे तवसि वट्टमाणस्स किवि जातसङ्केहि देवेहि मेणआ-णाम अच्छरा पेसिदा णिअमविग्धकारिणी।
[ शृणोत्वार्यः । पुरा किल तस्य राजर्षेरुग्रे तपसि वर्तमानस्य किमपि जातशङ्कैर्देवैर्मेनका नामाप्सराः प्रेषिता नियमविघ्नकारिणी । ]
राजा—अस्त्येतदन्यसमाधिभीरुत्वं देवानाम् ।
अनसूया—शृणोतु = आकर्णयतु आर्यः = श्रीमान्, पुरा = प्राचीनकाले किल = ऐतिह्यम्, तस्य = उक्तस्य राजर्षेः = नृपमुनेः उग्रे = उत्कटे तपसि = तपस्यायां वर्तमानस्य = विद्यमानस्य देवैः = अमरैः विघ्नकारिणी नियमे तपसि विघ्नं = बाधां करोति तच्छीला विघ्नकारिणी = तपोभङ्गकारी मेनका नाम = मेनकाख्या नाम अप्सराः = स्वर्गबामा प्रेषिता = प्रहिता ।
**राजा—**अनसूयोक्तं समर्थयन् राजा प्राह—अस्ति = भवति एतत् = इदं पूर्वोक्तम्,
**अनसूया—**महाराज, सुनिए, वे कौशिक विश्वामित्र नामक ऋषि, जिस समय गोदावरी नदी के तट पर उग्र तपस्या कर रहे थे, तो उनकी तपस्या से शङ्कित देवताओं ने उनकी तपस्या में विघ्न डालने के लिए मेनका अप्सरा को उनके पास भेजा ।
**राजा—**ठीक है, देवता लोग तो दूसरे की समाधि एवं तपस्या से हमेशा डरते ही रहते हैं हाँ, तो फिर आगे क्या हुआ ?
विशेष—'अप्सु सरतीति अप्सराः' इस व्युत्पत्ति के अनुसार जल में चलने वाली या जल से उत्पन्न होने वाली को अप्सरा कहा जाता है ।
अप्सराएँ स्वर्ग में इन्द्र-सभा की नर्तकी का काम करती हैं । ये नाच और गान में अत्यन्त निपुण है । कई तरह से इनकी उत्पत्ति बताई गई है । किसी उग्र तपस्वी के तप से डर कर देवता लोग इन्हें तपोभङ्ग करने के लिए भेजते रहते हैं । भिन्न-भिन्न तपस्वियों के तप को नष्ट करने के निमित्त भिन्न-भिन्न अप्सरायें जाती हैं । ये हमेशा युवती बनी रहती हैं ।
वाल्मीकि रामायण के अनुसार जल-मन्थन से उत्पन्न रस से अप्सरायें उत्पन्न हुई हैं ।
'अप्सु निर्मथनादेव रसात्तस्माद्वरस्त्रियः।
उत्पेतुर्मनुश्रेष्ठ ! तस्मादप्सरसोऽभवन् ॥' ४५।३३
महाभारत में उर्वशी, पूर्वचित्ति, सहजन्या, मेनका, विश्वाची और घृताची छह अप्सरायें ब्रह्मा से उत्पन्न कही गई हैं । इनमें मेनका सर्वश्रेष्ठ कही गई है—
'उर्वशी विप्रचित्तिश्च सहजन्या च मेनका।
विश्वाची च घृताची च षडेवाप्सरसां वराः ॥
दिवः सम्प्राप्य जगती विश्वामित्रादजीजनत् ॥'
अप्सराओं के लुभाने पर बड़े-बड़े ऋषि, महर्षि, देवर्षि, राजर्षि, तपस्वी आदि की तपस्यायें भंग हो जाती हैं । ये इन्द्र के दरबार की अमोघ अस्त्र हैं ।
विश्वामित्र जी की उग्र तपस्या को भंग करने के निमित्त जब इन्द्र ने मेनका से कहा तब उसने काम और पवन को सहायता के लिए इन्द्र से मांगा, बाद पवन ने मालिनी नदी के तीर पर तप में संलग्न ऋषि के सामने मेनका के इच्छानुसार मेनका को विवस्त्र कर दिया और काम ने उत्तेजना पैदा कर दी । ऋषि का मन विकृत हो उठा। बाद उन्होंने मेनका को बुलाकर उसके साथ संभोग किया, परिणाम स्वरूप वही नवजात शकुन्तला को छोड़कर मेनका तत्काल पुनः इन्द्रलोक चली गई । ऋषि पुनः तप करने के लिए अन्यत्र चले गये । अप्सरायें भारत भूमि पर उत्पन्न शिशुओं को अपने साथ नहीं ले जाती हैं । इस प्रकार मेनका तथा विश्वामित्र से शकुन्तला की उत्पत्ति है । अप्सरा पुत्री होने के नाते शकुन्तला का रूप-सौन्दर्य भी उसी के समान अपूर्व था ।
प्रथमोऽङ्कः ५७
अनसूया—तदो वसन्तोदारसमए से उम्मादइत्तअं रूवं पेक्खिअ [ ततो वसन्तोदारसमये तस्या उन्मादयितुकं रूपं प्रेक्ष्य ] ( अर्द्धोक्ते लज्जया विरमति ) ।
राजा—^१परस्ताज्ज्ञायत एव । सर्वथाप्सरःसंभवेषा ।
अनसूया—अहइं । [ अथ किम् । ]
राजा—उपपद्यते ।
^२मानुषीषु कथं वा स्यादस्य रूपस्य संभवः ।
न प्रभातरलं ज्योतिरुदेति वसुधातलात् ॥ २५ ॥
अन्यस्य = परस्य समाधेः = तपसः भीरुत्वं = वैक्लव्यमिति अन्यसमधिभीरुत्वं देवानां = सुराणां यत्ते विघ्नमाचरन्ति । देवा अन्येषां तपांसि दृष्ट्वा स्वपदच्युतिमाशङ्कन्ते इति भावः । ततस्ततः = अग्रे किं जातम् ।
अनसूया—ततः = मेनकाप्रेषणानन्तरं वसन्तस्य = वसन्तर्तौः उदारे = श्रेष्ठे समये = काले इति वसन्तोदारसमये उन्मादहेतुकं = उन्मादस्य = चित्तविकृतेः हेतुकं = हेतुभूतं जनकं तस्याः = मेनकायाः रूपं = सौन्दर्यं प्रेक्ष्य = आलोक्य । इति = एतावन्मात्रेण अर्द्धोक्तेः अर्द्धमुक्त्वा मध्ये एव विच्छेदिते वाक्ये लज्जां नाटयति = लज्जिताऽभूत्, अग्रेऽस्यार्थस्याश्लीलत्वात् । लज्जया वा विरमतीति पाठे लज्जया = त्रपया विरताऽभवत् !
राजा—परस्तात् = परं अवशिष्टं ज्ञायते = बुध्यते एव अतो न वक्तव्यम् । सर्वथा = नूनमियम् अप्सरःसंभवा = अप्सरो मेनका संभवः = उत्पत्तिर्यस्याः सा मेनकोत्पन्ना ।
अनसूया—अथ किम् ? बाढम् ।
राजा—उपपद्यते = अस्या अप्सरः संभवत्वं युक्त्या युज्यते ।
अन्वयः—मानुषीषु अस्य रूपस्य संभवः कथं वा स्यात् प्रभातरलं ज्योतिः वसुधातलात् न उदेति ।
मानुषीष्विति । मानुषीषु = मनुजस्त्रीषु अस्य = एतस्य लोकोत्तरसौन्दर्यादिगुणगणविशिष्टस्य रूपस्य = आकृतेः संभवः = उत्पत्तिः कथं वा = केन प्रकारेण वा स्यात् = संभवेत् एवंविधसौन्दर्यवत्या अस्या मानुषीषु संभवस्य संभावनाऽपि नास्तीत्यर्थः । उक्तार्थं दृष्टान्तेन द्रढयति—नेति । प्रभातरलं = प्रभाभिः = दीप्तिभिः तरलं = चपलमिव प्रभातरलं = विद्युत् सूर्यः चन्द्रो वा वसुधातलात् = पृथ्वीपृष्ठात् भूमण्डलात् न उदेति =
अनसूया—वसन्त ऋतु के आगमन से रमणीय, मनोहर और सुहावने समय में अप्सरा मेनका के कामजनक रूप को देखकर विश्वामित्रजी का चित्त चंचल हो उठा।
( बीच में ही लज्जित हो चुप हो जाती है । )
राजा—आगे का वृत्तान्त तो स्पष्ट ही है कि ऋषि उस मेनका पर आसक्त हो गये । और इस प्रकार विश्वामित्र जी के द्वारा मेनका के गर्भ से यह शकुन्तला उत्पन्न हुई है ।
अनसूया—जी हाँ, और क्या ।
राजा—यह ठीक ही है, क्योंकि—
ऐसे रूप का उद्भव मनुष्य स्त्रियों में कहाँ, संभव हो सकता है ? क्या कभी प्रभापुञ्ज से चमकती हुई ज्योति ( बिजली, चाँद या सूर्य भी भला पृथ्वी से ) पैदा हुआ करती हैं ॥ २५ ॥
पाठा०—१. परस्तादवगम्यत । २. मानुषीभ्यः कथं नु स्यादस्य ।
५८ अभिज्ञानशाकुन्तलम्
( शकुन्तलाधोमुखी तिष्ठति । )
राजा--( आत्मगतम् ) लब्धावकाशो मे मनोरथः । किम् तु सख्याः परिहासो-दाहृतां वरप्रार्थनां श्रुत्वा धृतद्वैधीभावकातरं मे मनः ।
प्रियंवदा--( सस्मितं शकुन्तलां विलोक्य नायकमभिमुखी भूत्वा ) पुणो वि वत्तुकामो विअ अज्जो । [ पुनरपि वक्तुकाम इवार्यः । ]
नाविर्भवति । यथा विद्युत भूमेर्नोदेति तथेयं न मनुष्येषु संभवति तथा च मानुषीषु स्त्रीषु ईदृग्रूपस्य दृष्टिगोचरत्वादियमप्सरः सम्भवैव । यत एषा अप्सरः संभवा तत एवेहग्रूप-शालिनीति भावः । रूपलक्षणं यथा—
'अङ्गान्यभूषितान्येव प्रक्षेप्याद्यैर्विभूषणैः ।
येन भूषितवद्भान्ति तद्रूपमिति कथ्यते ॥'
अत्र प्रतिवस्तूपमा निदर्शनं चालङ्कारः छन्दश्चानुष्टुबेव ॥ २५ ॥
( शकुन्तला अधोमुखी तिष्ठति, अधः = नीचैः मुखं = वदनं यस्याः सा अधोमुखी = निम्नवदना सती तिष्ठति = उपाविशते स्वप्रशंसया स्ववृत्तान्तेन चात्र सलज्जता । )
राजा-( आत्मगतम्-आत्मनि = स्वस्मिन् गतं प्राप्तम् आत्मगतं = स्वगतम् ) स्व-मनोरथानुकूलां शकुन्तलोत्पत्तिमवधार्य परिग्रहयोग्येयमिति निश्चन्वानः स्वयं परामृशति- लब्धः = प्राप्तः अवकाशः = प्रवेशद्वारं येन स लब्धावकाशः, मनोरथः = अभिलाषः । समुचितविषयोऽयमभिलाषोपगत इत्यर्थः । स्नैहः पापशङ्कीति नीत्या पुनरपापमाशङ्क-मान आह--किन्तु सख्याः = प्रियम्वदायाः परिहासोदाहृतां विनोदकथितां वरप्रार्थनां वराय = पत्ये प्रार्थनां = इच्छां श्रुत्वा = निशम्य धृतः = आरूढः द्वैधीभावः = संशयदोला-रूढता येन अतः कातरं = व्याकुलमतिधृतद्वैधीभावकातरं मे = मम मनः = मानसम् । सखीवचनस्य परिहासरूपतया तत्राप्रामाण्यशङ्कोदयात् अहमेव = वरो वा तापसा वा कश्चिदिति संशय इति यावत् ।
प्रियम्वदा-( स्मितेन = विहासेन सह वर्तते इति सस्मितमीषद्धासपूर्वकं शकुन्तला-
( शकुन्तला नीचे मुँह कर लेती है । )
विशेष—अपने रूप की प्रशंसा सुनकर सिर नीचा कर लेना उत्तम नायिकाओं का लक्षण है ।
राजा-( मन ही मन ) अह ! हा, तब तो मेरी इच्छा के पूर्ण होने का यही अवसर मालूम पड़ता है । अर्थात् यह शकुन्तला विश्वामित्र द्वारा मेनका अप्सरा के गर्भ से उत्पन्न क्षत्रिय कन्या है महर्षि कण्व की औरस पुत्री ब्राह्मणी नहीं है । अतः अब इसे प्राप्त कर सकूँगा, किन्तु इसकी सखी प्रियम्वदा ने जो परिहास में इस शकुन्तला से कहा था कि तेरा अब विवाह शीघ्र ही होगा इससे तो मैं शङ्कित और व्याकुल-सा हो रहा हूँ । कहीं इसका विवाह सम्बन्ध अन्यत्र तो ठीक नहीं हो गया है ! परिहास की बात झूठी भी हो सकती है, क्योंकि—'परिहासविजल्पितं सखे ! परमार्थेन न गृह्यतां वचः ।' और परिहास कभी कभी सत्य भी हो जाता है । इत्यादि सोच कर दुष्यन्त द्वैधीभाव में पड़े हुए हैं । इस प्रकार राजा दुष्यन्त की मनःस्थिति चंचलता की ओर है, फिर भी मनुष्य आशावादी होता है, वह अपने ही पक्ष की पुष्टि कर आशा करता ही रहता है ।
प्रियम्वदा-( मुसकुराती हुई शकुन्तला की ओर देखकर राजा की ओर मुख करके ) मालूम पड़ता है कि आप और भी कुछ पूछना चाहते हैं ।
प्रथमोऽङ्कः ५९
( सखीमङ्गुल्या तर्जयति । )
राजा—सम्यगुपलक्षितं भवत्या। अस्ति नः सच्चरितश्रवणलोभादन्यदपि प्रष्टव्यम्।
प्रियंवदा—अलं विआरिअं । अणिअन्तणाणुओओ तवस्सिअणो णाम । [ अलं विचार्य । अनियन्त्रणानुयोगस्तपस्विजनो नाम । ]
विलोक्यावलोक्य नायकाभिमुखी = दुष्यन्ते निहितदृष्टिः भूत्वा ) अयंः = श्रीमान् पुनरपि— भूयोऽपि वक्तुकामः = किञ्चिद् विवक्षुः, स्वविवक्षिते निःशङ्कमाख्याहीत्याशयः । शकुन्त-लायां रागहेतुकस्य वैलक्ष्यस्य दर्शनेन राज्ञा विवक्षितावगमेन पुनरपि तत्परिहासोपायस्य मनसि स्फुरणं च प्रियम्वदायाः सस्मितावलोकने हेतुः ।
( शकुन्तला—सखीं = आलिं प्रियम्वदां, अङ्गुल्या = तर्जन्या तर्जयति = भर्त्सयति । पुनरपि मत्सम्बन्धे किमपि परिहसितुकामयाऽनया प्रियम्वदयाऽस्मिन् महापुरुषे विवक्षितत्व-मारोपितमिति सखीहृदयकौटिल्यं जानन्ती शकुन्तलारोषेण तां तर्जयतीत्यर्थः । )
राजा—प्रियम्वदामुखेन शकुन्तलाविषये महर्षेः कण्वस्य संकल्पं जिज्ञासुः प्रियम्वदां श्लाघयन् दुष्यन्त आह—भवत्याः बुद्धिमत्या त्वया सम्यक् = वास्तवं, तथ्यम् उपलक्षितं = लक्षणैरुन्रितम्, ओष्ठपरिस्पन्दादिरूपेण मुखविकारेण यदनुमीतं तत्समीचीनमेवेत्यर्थः, सच्च-रितश्रवणलोभात् सतः = शोभनस्य सतां = सज्जनानां वा चरितस्य = जीवनस्य शकुन्तला-रूपस्य यत् श्रवणं = आकर्णनं तस्य लोभात् = स्पृहायाः सतामैतिहासकर्णनकुतूहलात्, पुण्य-प्रदोपाख्यानश्रवणलोभात् अन्यदपि = अवशिष्टं किञ्चित् प्रष्टव्यं = जिज्ञासितव्यम् अस्ति ।
प्रियंवदा—बुद्धिमती प्रियम्वदा दुष्यन्तमनोगतं भावं जानन्ती तदनुसारेणाह—अलं-विचार्यं, विचारेणालम् । इदं प्रष्टव्यं न वेति विचारो न कर्तव्यः, निःशङ्कं सर्वं पृच्छती-मिति भावः । अनियन्त्रणानुयोगः—अनियन्त्रणः = अनियन्त्रितः अनुयोगः = प्रश्नः यस्मिन् स अनियन्त्रणानुयोगः, तपस्विजनः = तापसलोकः नाम निश्चयेन । राजा प्रभुजनानिव मुनिजनान् प्रति प्रश्नस्य देशकालादिभिः प्रतिबन्धो नास्तीत्यर्थः ।
( शकुन्तला सखी प्रियम्बदा को अपनी तर्जनी अङ्गुली से कोंचती है )
विशेष—'तर्जयतेऽनयेति तर्जनी', इस व्युत्पत्ति के अनुसार तजनी अङ्गुली के द्वारा किसी काम को रोकने के लिए इशारा किया जाता है तदनुसार शकुन्तला ने भी आगे पुनः कुछ अपने सम्बन्ध में पूछने के लिए विवक्षु राजा को प्रेरित करने वाली अपनी प्रिय सखी प्रियम्वदा को अपनी तर्जनी अंगुली से कोंचती ( खोदती ) है ।
राजा—हाँ, आपने ठीक ही अनुमान किया । मुझे इस प्रसङ्ग को सुनने का लोभ-सा हो रहा है । अतः मैं इस प्रसङ्ग में और भी कुछ पूछना चाहता हूँ ।
विशेष—दुष्यन्त को कुछ सोचता हुआ देखकर प्रियम्वदा ने अनुमान लगाया कि वे कुछ पूछना चाहते हैं, पर सीधे-सीधे नहीं पूछ रहे हैं, मुझसे ही वह कहलवाना चाहते हैं । यहाँ राजा शकुन्तला को सच्चरित्र कह कर शकुन्तला की प्रशंसा करते हुए अपने मनोऽनुकूल स्थिति उत्पन्न कर रहे हैं ।
प्रियम्वदा—तो, ठीक बात है । आप कोई विचार न करें । हम तपस्वी लोगों से निर्भय हो जो चाहे सो पूछा जा सकता है । इसमें किसी बात की रोक-टोक नहीं है ।
६० अभिज्ञानशाकुन्तलम्
राजा—^१इति सखीं ते ज्ञातुमिच्छामि ।
वैखानसं किमनया व्रतमाप्रदानाद्- व्यापाररोधि मदनस्य निषेवितव्यम् । ^२अत्यन्तमेव ^३सदृशेक्षणवल्लभाभि- राहो निवत्स्यति समं हरिणाङ्गनाभिः ॥ २६ ॥
राजा—प्रियम्बदावचसा तुष्टो राजा स्वानुरागं गोपयन् भङ्ग्या पृच्छति-इति। एवं रीत्या त्वदुक्तनीत्या अनुयोगनियन्त्रणाभावात् ते = तव सखीं = आलिं शकुन्तलां ज्ञातुं = वेदितुम् इच्छामि = वाञ्छामि । तव तद्वृत्तान्तज्ञानमस्तीति भावः ।
अन्वयः— किम् अनया मदनस्य व्यापाररोधि वैखानसं व्रतम् आप्रदानात् निषेवितव्यं किम् ? आहो मदनेक्षणवल्लभाभिः हरिणाङ्गनाभिः समम् अत्यन्तमेव निवत्स्यति ।
वैखानसमिति । किम् अनया = एतया शकुन्तलया मदयति = चित्तमुन्मादयतीति मदनः तस्य मदनस्य = कामस्य व्यापाररोधि = व्यापारं कृत्यं रुणद्धीति व्यापाररोधि = काम-कल्लोलप्रसरावरोधकं वैखानसं व्रतं = मुनिकन्यकोचितं तपश्चरणं, ब्रह्मचर्यम् प्रकृष्टं दानं प्रदानं = विवाहः तस्मात् यद्वा प्रकृष्टाय = उत्तमप्रकृतये राज्ञे मह्यं दानं तस्मात् एतद वधि आप्रदानात् = विवाहावधिः निषेवितव्यं किम्, यथावद् अनुष्ठेयम्, आचरणीयम् किम् ! अनेन रूपानुरूपाय कस्मैचित् प्रदानं किमिति भङ्ग्या पृष्टः ।
पक्षान्तरं पृच्छति--आहो ! उताहो, यद्वा मदिराणि = हर्षकराणि ईक्षणानि = नेत्राणि = अवलोकितानि वा मदिरेक्षणानि तैः वल्लभाः = तपस्विनां प्रियाः ताभिः मदिरेक्षणवल्लभाभिः हरिणाङ्गनाभिः = मृगीभिः समं = सह अत्यन्तमेव = अत्यन्तमामरणं निवत्स्यति । विवाहावधि ब्रह्मचर्यमस्या आहोस्वित् किमियं यावज्जवोमेव नैष्ठिकब्रह्मचर्य-पूर्वकं स्वसदृशीभिः मृगाङ्गनाभिः सह निवासं करिष्यतीति भावः । विवाहपर्यन्तमस्या
राजा— हाँ, तो जानना चाहता हूँ—
क्या यह आपकी सखी शकुन्तला कामोपभोग को रोकने वाले तपस्वियों के इन कठिन व्रतों एवं नियमो का पालन विवाह तक ही करेगी अथवा हमेशा अपने ही सदृश बड़े-बड़े नेत्र वाली मृगियों के साथ नैष्ठिक ब्रह्मचर्य व्रत पालनपूर्वक निवास करती रहेगी। आप इसकी प्रिय सखी हैं। अतः इसके हृदय की बात जानती होगीं।
विशेष— दुष्यन्त के पूछने का तात्पर्य यह है कि आप शकुन्तला की प्रिय सखी है इसके हृदय की बात जानती होंगी। क्या यह विवाह पर्यन्त ही इस वन में रहेगी या जीवनपर्यन्त ? यदि यह किसी राजर्षि को दी जायेगी तो विवाह पर्यन्त ही इस तपोवन में रह सकेगी, यदि किसी तपस्वी को ही दी जायेगी तो वह मृग के जोड़ों के समान कामोपभोग रहित तपोवन में ही निवास करती रहेगी।
पूर्वाद्धं में मदन विरोधी कहने का आशय है कि तापसजीवन नीरस और सुख का विरोधी है। उत्तरार्द्ध में मुनियों को नेत्रों से शकुन्तला के नेत्रों की तुलना की गई है, जिससे प्रतीत होता है कि जंगल में अति सुन्दर मृगियां होती हैं।
प्राचीन काल में स्त्रियां दो प्रकार की होती थीं। एक प्रकार की स्त्रियाँ जीवन पर्यन्त ब्रह्मचर्य व्रत का पालन करती थीं, जिनका विवाह नहीं होता था। दूसरे प्रकार की स्त्रियां विवाह कर
पाठा०—१. एतत्तृच्छामि । २. अत्यन्तमात्म । ३. मदिरेक्षण ।
प्रथमोऽङ्कः ६१
प्रियंवदा—अज्ज धम्मचरणे वि परवसो.अं जणो । गुरुणो उण से अणुरूव-वरप्पदाणे संकप्पो । [ आर्य धर्मचरणेऽपि परवशोऽयं जनः । गुरोः पुनरस्या अनुरूप-वरप्रदाने संकल्पः । ]
राजा—( आत्मगतम् ) न दुरवापेयं खलु प्रार्थना ।
भव हृदय साभिलाषं संप्रति संदेहनिर्णयो जातः ।
आशङ्कसे यदग्निं तदिदं स्पर्शक्षमं रत्नम् ॥ २७ ॥
ब्रह्मचर्यंमुत जीवनावधि भविष्यतीति प्रष्टुराशयः । अर्थात्–यद्येषा कस्मैचित् नृपतये प्रदेया तदा विवाहपर्यन्तमेव तपोवने स्थास्यति, यदि च कस्मैचित् तपस्विने प्रदेया तथा मृग-मिथुनवत् कामोपभोगरहिता वने एव स्थास्यति ।
यद्वा—यद्येषामविधाय कस्मैचिद् राज्ञे प्रदेया तदा विवाहपर्यन्तमेव तपोवने वत्स्यति यदि कस्मैचित्तपस्विने प्रदेया तदा मृगमिथुनवत् कामोपमोगरहिता वने एव स्थास्यतीति भावः । अत्र वृत्त्यनुप्रास-सहोक्ति-परिकर अलङ्कारा वसन्ततिलका वृत्तञ्च ।
प्रियंवदा—अथात्यन्तचतुरा प्रियम्वदा दुष्यन्ताभिप्रायं ज्ञात्वा समुचितमुत्तरमाह—
आर्य ! धर्माचरणे = धर्मानुष्ठानेऽपि, किमुत कामाचरणे अयं जनः = प्रियशकुन्तला पर-वशः = पराधीनः स एवोचितं विधास्यति, गुरोः = महर्षेः कण्वस्य अस्याः = एतस्या अनु-रूपाय = रूपादिगुणैः सदृशाय वराय प्रदानमिति अनुरूपवरप्रदाने = योग्यवरसमर्पणे संकल्पः = निश्चयः ।
राजा—( आत्मगतं = स्वगतम् ) न दुरवापा = न दुर्लभा इयं = एषा शकुन्तला-प्राप्तिरूपा खलु = निश्चयेन प्रार्थना प्रार्थ्यते इति प्रार्थना = प्रार्थ्यमानोऽर्थः ।
अन्वयः—हे हृदय ! सम्प्रति सन्देहनिर्णयो जातः ( अतः ) साभिलाषं भव । यत् अग्निम्, आशङ्कसे तदिदं स्पर्शक्षमं रत्नम् ( अस्ति ) ।
भवेति । अथ प्रियम्वदोक्त्या शकुन्तलाया राजकन्यात्वानुरूपवरप्रदानविषये कुल-पतेः कण्वस्य संकल्पं श्रुत्वा तामात्मपरिग्रहयोग्यां निश्चित्य वल्लभशङ्काकातरं स्वहृदयं सहर्षमाह—हे हृदय ! = मदीयचित्त ! सम्प्रति = साम्प्रतं, शकुन्तलाया जन्मवृत्तान्ते गुरु-
गार्हस्थ्य धर्म का निर्वाह करती थीं । पहले जमाने में स्त्रियों का भी मौञ्जीबन्धन ( यज्ञोपवीत ) वेदाध्ययन और गायत्री वाचन होता था । इस प्रकार राजा दुष्यन्त की यह जिज्ञासा उचित थी कि यह ब्रह्मचर्य का पालन करेगी या विवाह करेगी ॥ २६ ॥
प्रियम्बदा—आर्य ! हम लोग तो धर्माचरण में भी परवश हैं, परन्तु गुरु जी की इच्छा इसे किसी अनुरूप योग्य वर की प्रदान करने की ही है । हमलोग तो हमेशा नैष्ठिक ब्रह्मचर्य ही पालन करना चाहती हैं । इस प्रकार विवाह पर्यन्त ही इसका यह तापसोचित धर्माचरण है ।
राजा—( मन ही मन )
हे हृदय ! तू अब इसकी इच्छा कर सकता है, क्योंकि अब सन्देह दूर हो गया, यह मेरे ग्रहण करने योग्य ही स्त्री रत्न है, जिसे तू अग्नि ( ब्राह्मण कन्या होने के कारण आग के समान स्वर्ग के अयोग्य ) समझा था वह तो स्वर्ग के योग्य शीतल रत्न निकला ( यह ब्राह्मण कुमारी नहीं है कि महर्षि विश्वामित्र से अप्सरा में उत्पन्न राजकन्या क्षत्रिया है । अतः मेरे विवाह योग्य है ) ॥ २७ ॥
विशेष—राजा जिसे विवाह के अयोग्य ब्राह्मण कन्या समझते थे वह अब क्षत्रिय-कन्या सिद्ध हो गयी । अतः उन्हें अपने मन को सहर्ष सावधान करना उचित ही है । दुष्यन्त के
६२ अभिज्ञानशाकुन्तलम्
शकुन्तला—( सरोषमिव ) अणसूए, गमिस्सं अहं । [ अनसूये, गमिष्याम्यहम् । ] अनसूया—किंणिमित्तं [ किंनिमित्तम् । ] शकुन्तला—इमं असंबद्धप्पलाविणिं पिअंवदं अज्जाए गोदमीए णिवेदइस्सं [ इमामसंबद्धप्रलापिनीं प्रियंवदाभार्यायै गौतम्यै निवेदयिष्यामि । ] अनसूया—सहि ण जुत्तं अकिदसक्कारं अदिहिविसेसं विसज्जिअ सच्छन्ददो गमणं । [ सखि, न युक्तमकृतसत्कारमतिथिविशेषं विसृज्य स्वच्छन्दतो गमनम् । ]
कृतवरसंकल्पे च प्रियम्वदावचनेनावगते सति, सन्देहस्य निर्णयः सन्देहनिर्णयः यद्वा सन्दिह्यते इति सन्देहः = सन्देहविषयः तस्य तस्मिन् वा निर्णयः किमियं मद्योग्या न वेति संशयस्य निश्चयो जातः = अभवत् । साम्प्रतं सर्वात्मना सन्देहो निवृत्तः । अतः त्वं अभिलाषेण स्पृहया वर्तते इति सामिलाषं भव = यथेष्टमेनामभिलष । यत् = पुरोदृश्यमानं शकुन्तलावस्तुरूपम् = अग्नि = स्पर्शयोग्यमङ्गाररूपं हुताशनम् आशङ्कसे = सन्देहं कुरुषे तदिदं = वस्तु स्पर्शक्षमं रत्नं = स्पर्शयोग्यो मणिविशेषः नेयं ब्राह्मणकन्यका, किन्तु क्षत्रादप्सरसः सम्भवा मदुपसंग्रहणार्हंतृद ! त्वं यां मुनिकन्यकामगम्यामिति त्वमाशङ्किष्ठा सेयमिदानीं गम्या राजकन्यका निश्चितेति भावः ।
अत्र काव्यलिङ्गालङ्कारो जातिश्चार्या ॥ २७ ॥
शकुन्तला--( सरोषम् = रोषेण = कोपेन सह वर्तते सरोषम् कृतककोपमिव अभिनोय ) दुष्यन्तालापजन्यया लज्जया तत्सन्निधौ स्थातुमशक्यतया प्रियम्वदां प्रति शकुन्तलाया रोषः । अनसूये ! = अहं गमिष्यामि = अन्यत्र व्रजामि ।
अनसूया—शकुन्तलाया गमने हेतुं जानन्त्यपि तां निरोद्धुमनसूया पृच्छति--किं निमित्तम् = को हेतुः यत्त्वं गमिष्यसि ।
शकुन्तला--इमां = एनां, असम्बद्धम् = असङ्गतं प्रलपितुं शीलमस्या इति असम्बद्धप्रलापिनीं तामसम्बद्धप्रलापिनीम् = अश्राव्यभाषणशीलां गौतम्यै = संरक्षणनियुक्तायै आत्मनो मातृस्थानीयायै कण्वभगिन्यै निवेदयिष्यामि = विज्ञापयिष्यामि ।
अनसूया--प्रस्थानाध्यवसायिनीं तां धर्मलोपोपन्यासव्याजेन उपहासगर्भं पुनरनसूया निषेधति--सखि ! आलि ! अकृतसत्कारम्--न कृतः = न विहितः सत्कारः = समादरो यस्य स तमकृतसत्कारम् = अकृतयथोचितसत्क्रियं, अकृतपूजनम्, अतिथिविशेषम् ईदृशं
मन में यहीं से आशा का बीज उत्पन्न हो जाता है, क्योंकि शकुन्तला क्षत्रिय के योग्य ग्रहणीय एवं स्पृहणीय है। महर्षि कण्व किसी योग्य वर को देने के इच्छुक हैं। राजा दुष्यन्त योग्य एवं सुन्दर युवक होने के नाते सत्पात्र भी है। अतः उनके लिए अब शकुन्तला दुर्लभ न रह गयी है।
शकुन्तला—( कुछ कुपित-सी होकर ) मैं अन्यत्र जाती हूँ ।
अनसूया—किसलिए जावोगी ?
शकुन्तला—असम्बद्ध प्रलापिनी = व्यर्थ की बकवाद करने वाली इस प्रियम्वदा की शिकायत आर्या गौतमी से जाकर करूँगी ।
अनसूया—सखि ! हम आश्रमवासियों को यह कदापि उचित नहीं है कि ऐसे विशिष्ट अतिथि को आदर सत्कार किये बिना ही उसे छोड़कर यों ही अपने मन से चली जांय ।
प्रथमोऽङ्कः ६३
( शकुन्तला न किञ्चिदुक्त्वा प्रस्थितैव )
राजा-- ( आत्मगतम् ) आः कथं गच्छति । ( ग्रहीतुमिच्छन्निगृह्यात्मानम् ) अहो चेष्टाप्रतिरूपिका कामिजनमनोवृत्तिः । अहं हि—
'अनुयास्यन् मुनितनयां सहसा विनयेन वारितप्रसरः ।
स्थानादनुच्चलन्नपि गत्वेव पुनः प्रतिनिवृत्तः ॥ २८ ॥
विशिष्टं महाप्रभावमतिथिम् उज्झित्वा = अपहाय, परित्यज्य स्वच्छन्दतः = स्वैरम्, गमनं = श्रयाणम् । स्वच्छन्दतो गमनं न युक्तमित्यतो मा गा इति भावः ।
( शकुन्तला--न किञ्चित् = किमपि उक्त्वा = कथयित्वा प्रस्थिता = प्रचलिता एव )
राजा-- ( आत्मगतम् ) अतः कथं गच्छति = अहो किं याति ( ग्रहीतुं = धर्तुं इच्छन् = वाञ्छन् विनयाभिजात्यादिना आत्मानं = स्वं निगृह्य = निवार्य ) अहो, कामिजनस्य मनोवृत्तिः = चित्तवर्तनं कामिजनमनोवृत्तिः, चेष्टामनुरूपयति तच्छीला चेष्टाप्रतिरूपिका = चेष्टासदृशी ( भवति ) अहं हि = अयं जनो निश्चयेन---
अन्वयः---मुनितनयां सहसा अनुयास्यन् विनयेन पुनः वारितप्रसरः अहं स्थानात् अनुचलन्नपि गत्वा प्रतिनिवृत्त इव ( अस्मि ) ।
अनुयास्यन्निति । गन्तुं प्रयतमानां शकुन्तलामवलोक्य राजा दुष्यन्तो विवेकेनात्मानं निगृह्य स्वगतं विमृशति--मुनितनयां = ऋषिकन्यकां शकुन्तलां प्रति सहसा = अविचारितं, अनुयास्यन् = अनुगमिष्यन् विनयेन = दमेन पुनः = भूयः वारितप्रसरः वारितः = निरुद्धः प्रसरः = अनुयानात्मको वेगः यस्य स वारितप्रसरः = अवरुद्धवेगः अत एवाहं स्थानात् = विश्रामस्थानात् स्थितेर्वा अनुचलन्नपि = अनुतिष्ठन्नपि गत्वा = प्रस्थाय प्रतिनिवृत्तः = प्रत्यागत इव = एव जातोऽस्मीति मे प्रतिभातीत्यर्थः ।
( शकुन्तला बिना उत्तर दिये ही जाती है )
राजा—( मन ही मन ) है, यह तो जाती है ( इसे पकड़ना चाहता हुआ भी पुनः अपनी इच्छा को रोककर ) कामियों की मनोवृत्ति शरीर की चेष्टा के अनुरूप ही होती है। क्योंकि—
मैं ही मुनिकन्या=शकुन्तला के पीछे-पीछे जाना चाहता था, पर शिष्टाचार के अनुसार एका-एक रुक गया हूँ। यद्यपि मैं उठा नहीं हूँ, पर प्रतीत होता है कि इसके पीछे-पीछे जाकर लौट रहा हूँ ॥ २८ ॥
विशेष—जो व्यक्ति जितना ही संयमी होता है वह अपने मन को उतनी ही शीघ्रता से अपने वश में कर लेता है। जैसे राजा दुष्यन्त का मन भ्रान्ति के कारण शकुन्तला को अपने से दूर समझ कर पकड़ने को दौड़ा। किन्तु उन्होंने धैर्य के द्वारा उसे रोक लिया। मन के अनुसार उसकी चेष्टाएँ भी हुआ करती हैं। मन अत्यन्त वेग से शरीर के अन्दर-अन्दर सारी चेष्टाएँ कर लेता है। राजा दुष्यन्त अपने स्थान से उठे तक नहीं, किन्तु मन शकुन्तला को पकड़ कर पुनः संकोचवश उसे छोड़ दिया। अतः मन की बड़ी प्रबलता मानी गयी है। मर्यादाशील व्यक्ति मन ही मन अनुचित विषय का प्रसार रोक लेते हैं। दुष्यन्त ने शारीरिक व्यापार कुछ नहीं किया, परन्तु उन्हें प्रतीत हुआ कि मैं शकुन्तला को पकड़ने के निमित्त जाकर लौट आया।
यहाँ मुनिकन्या का प्रयोग बड़ा ही महत्वपूर्ण है जिससे राजा दुष्यन्त ने सोचा कि यह मुनि
पाठा०—१. स्थानादचलन्नपि ।