अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
पृष्ठ 134, कुल 540 में से
संदर्भ में पढ़ें५२ अभिज्ञानशाकुन्तलम्
( शकुन्तला शृङ्गारलज्जां रूपयति । )
सख्यौ— ( उभयोराकारं विदित्वा । जनान्तिकम् । ) हला सउन्दले जइ एत्थ अज्ज तादो संणिहिदो भवे [ हला शकुन्तले यद्यत्राद्य तातः संनिहितो भवेत् । ]
शकुन्तला— तदो किं भवे । [ ततः किं भवेत् । ]
धर्मचारिणः = तपोवनवासिनो वयं धार्मिकाः सनाथाः-मावेन = रक्षकेन सहिता सनाथाः । पूर्वं तु सनाथत्वमस्पष्टमासीत्, परमिदानीं स्पष्टमभूदिति भावः । राज्ञो द्वयर्थंकवचनेन अयं राजप्रतिनिधिः राजा वायमिति ज्ञात्वाऽनस्रूया सनाथत्वं प्रोक्तवती ।
राज्ञो रूपदर्शनेनाङ्कुरितायाः पश्चादभिजात्यादि-श्रवणेन परिपोषं प्राप्तायाश्च रते-रवस्थान्तरमनुभावद्वारा दर्शयति—शृङ्गारेति । शकुन्तला शृङ्गारलज्जां = शृङ्गाररसाश्रयां भ्रूभङ्गादिना साकूतं लज्जां = कामचेष्टां वा सव्रीडं नाटयति = सलज्जमभिनयति तदनेन हावो नाम नायिकाङ्गजोलङ्कारो दर्शितः । तदुक्तम्-
'भ्रूनेत्रादिविकारैस्तु सम्भोगेच्छाप्रकाशकः । भाव एवाल्पसंलक्ष्य विकारो हाव उच्यते ॥'
लज्जां हि कन्याजनसुलभा भवति—यथा हि भोजराजः-
'दुराचारादिमिर्व्रीडा धाष्ट्र्यामावस्तमुन्नयेत् । साचीकृताङ्गावरणे वैवर्ण्योधोमुखादिभिः ॥'
लज्जा नाम अन्तरुद्भून्नमान्मथिकविकारजुगोपायिषा मदनविजृम्भणरूपा शृङ्गाररसतरङ्गिणी, यथा रूढा निर्भरतया तांस्तान् विलासान् नेत्रगात्रविकारपरम्परारूपान् सूते । शृङ्गारलज्जालक्षणं तु परावृत्तेन शिरसा लज्जितया दृशा च । तल्लक्षणं यथा-
'पराङ्मुखीकृतं शीर्षं परावृत्तमुदीरितम् ।
तत्कार्यं कोपलज्जादि कृते वक्त्रापसारणे ॥
मिथोऽभिगामि-पक्ष्मोग्राऽप्यधस्ताद् गततारका ।
पतितोर्ध्वपुटादृष्टिर्लञ्जय्या लज्जिता मता ॥'
सख्यौ— इदानीं विदग्धयोः सख्योः प्रवृत्तिमह—सख्यौ = अनसूया प्रियम्बदा च उमयोः शकुन्तला-दुष्यन्तयोः आकारं = मुखाकृतिं विदित्वा = आकारेण उभयोरनुरागं ज्ञात्वा परस्पराभिलाषमनुभावैरवधायं वा । सोपहासं सख्यो शकुन्तलामाहतुः—हला शकुन्तले ! यद्यत्र अद्य = इदानीं अतिथिविशेषलाभे, त्वदनुरूपवरलाभे तातः = कुलपतिः कण्वः सन्निहितः = उपस्थितः भवेत् = स्यात् ।
शकुन्तला—ततः किं भवेत् = तदा किं स्यात् ।
( शकुन्तला हाव, भाव, कटाक्ष आदि कामविकारप्रदर्शनपूर्वक शृङ्गार लज्जा का अभिनय करती है । )
दोनों सखियाँ— ( दोनों की आकृति देखकर शकुन्तला से ) सखि शकुन्तले ! आज यहाँ यदि तात कण्व उपस्थित होते ।
विशेष— दुष्यन्त और शकुन्तला दोनों के चेहरे पर परस्पर आकर्षक अनुराग को देखकर दुष्यन्त को न सुनने देने के लिए उनकी तरफ हथेली करके, उस समय महर्षि कण्व के न उपस्थित रहने का पश्चात्ताप करती हुई शकुन्तला से कहती हैं—सखि, यदि इस सु-अवसर पर पिताजी होते तो ।
शकुन्तला— तो क्या होता ?