भारतकोश
अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

Abhijnanashakuntalam with Sanskrit-Hindi Commentary

महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा

DevanagariSanskritpublished540 पृष्ठ

पृष्ठ 150, कुल 540 में से

संदर्भ में पढ़ें
पृष्ठ 150
६८अभिज्ञानशाकुन्तलम्

शकुन्तला-- ( आत्मगतम् ) जइ अत्तणो पहविस्सं । ( प्रकाशम् ) का तुमं विसज्जिदव्वस्स रुन्धिदव्वस्स वा [ यद्यात्मनः प्रभविष्यामि । ( प्रकाशम् ) का त्वं विसर्जितव्यस्य रोद्धव्यस्य वा । ]

राजा--( शकुन्तलां विलोक्य आत्मगतम् ) किं नु खलु यथा वयमस्यामेवमियमप्यस्मान् प्रति स्यात् । अथवा लब्धावकाशा मे प्रार्थना । कुतः—

वाचं न मिश्रयति यद्यपि मद्वचोभिः
कर्णं ¹ददात्यभिमुखं मयि भाषमाणे ।


आर्येण = धर्मसचिवेन श्रेष्ठपुरुषेण अथवा = यद्वा अङ्गुलीयाक्षरशंसितेन सत्यसंभावानानुरोधेन महाराजेन = राज्ञा दुष्मन्तेन । गच्छ = याहि इदानीम् = अधुना = ऋणतो मुक्ता असि । अतो न रुणध्मि पूर्ववाञ्छानुसारण गन्तुं शक्नोषि । त्वया यथेष्टं गम्यतामिति भावः।

शकुन्तला—अथ सखीवचनेन महाराजत्वमवगम्य प्रवर्द्धमानानुरागा शकुन्तला तस्मात् स्थानात् गन्तुमशक्नुवती विचारयति ( आत्मगतं = स्वगतम् ) यदि = चेत् आत्मनः = मन्नसः प्रभविष्यामि = शक्ष्यामि तर्हि गमिष्यामि, मदीयं मनस्तु एतदायत्तं जातमित्यं गन्तुमक्षमेति भावः । ( प्रकाशं = स्पष्टम् ) का त्वं = भवती विसर्जितव्यस्य = मोक्तव्यस्य रोद्धव्यस्य = रोधनयोग्यस्य विषये । महाराजेनैवाहं मोचिता स एव मम विरोधे विसर्जने वा प्रभुरिति गूढार्थः ।

राजा—( अथ शकुन्तलाम् तथाविधां विलोक्य = आलोक्य आत्मगतं = स्वगतम् ), प्रबर्द्धमानानुरागः = राजा दुष्मन्तः चिन्तयति—किं नु = इति वितर्के, खलु = इति जिज्ञासायाम्, वाक्यालङ्कारे वा यथा = यद्वद् वयम् = अहम् अस्यां = एतस्यां शकुन्तलायाम् एवं = तथा इयम् = एषा अपि अस्मान् = मां प्रति = मद्दिषये स्यात् = भवेत् अथवा = यद्वा पक्षान्तरे लब्धः = प्राप्तः अवकाशः = शकुन्तलाया हृदये स्थानमिति लब्धावकाशा जाता मे = मम प्रार्थना = अभिलाषा, शकुन्तलाप्राप्तिरूपा । किमियम् अहं तस्यामिव मयि सानुरागा स्यात् ? अथवा सर्वथैवेयं मय्यनुरागिणीति भावः ।

अन्वयः—इयं यद्यपि मद्वचोभिः वाचं न मिश्रयति, मयि भाषमाणे अभिमुखं कर्णं ददाति, कामं मदाननसंमुखीना न तिष्ठति, अस्या दृष्टिस्तु भूयिष्ठम् अन्यविषया न (अस्ति)।


छिपाइए, पर मैं समझ गई हूँ कि आप राजा दुष्यन्त हैं । आप राजधर्म के अनुसार दया करके मेरी सखी शकुन्तला को मेरे ऋण वृक्ष-सेचन से इसे मुक्त करना चाहते हैं, तो आपके आदेश से इसे मैं मुक्त कर देती हूँ । यह अँगूठी आपके हाथ में रहे । आपसे शुल्क नहीं लिया जा सकता है बल्कि आपके आदेश से ही सब कुछ सम्पन्न हो सकता है ।

शकुन्तला—( मन ही मन ) यदि मैं अपने वश में होती या मेरा वश चलता तो मैं इस प्रियजन के पास से कहीं जाती ही नहीं ( प्रकट में ) तू कौन है, मुझे जाने देने वाली या रोकने वाली ? अर्थात् महाराज ने मुझे छुड़ाया है वही मुझे भेज या रोक सकते हैं ।

राजा—( शकुन्तला को देखकर, मन ही मन ) क्या, जैसे मेरा इसके प्रति अनुराग हो गया है वैसा ही इसका भी मेरे प्रति अनुराग होगा ? अथवा मेरी अभिलाषा ने इसके हृदय में स्थान पा लिया है। क्योंकि—

यद्यपि मेरी बातों में बात तो नहीं मिलती, किन्तु जब मैं कुछ बोलता हूँ तो सावधानतापूर्वक


पाठा०—१. ददात्यवहिता ।