भारतकोश
अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)

Abhijnanashakuntalam with Sanskrit-Hindi Commentary

महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा

DevanagariSanskritpublished540 पृष्ठ

पृष्ठ 153, कुल 540 में से

संदर्भ में पढ़ें
पृष्ठ 153

प्रथमोऽङ्कः । ७१

अपि च—

तीव्राघात-प्रतिहततरु-स्कन्धलग्नैकदन्तः
पादाकृष्ट-व्रततिवलयासङ्ग-संजातपाशः ।
मूर्ती विघ्नस्तपस इव नो भिन्नसारङ्गयूथो
धर्मारण्यं प्रविशति गजः स्यन्दनालोकभीतः ॥ ३२ ॥

अथ क्षणादेव दर्शनपथमागतां सेनां, तद्दर्शनेन भयभीतं कञ्चिद् वन्यं गजं चावलोक्य ससंभ्रममुच्यते—अपि च।

अन्वयः—स्यन्दनालोकभीतः तीव्राघातप्रतिहततरुस्कन्धलग्नैकदन्तः पादाकृष्टव्रततिवलयासङ्गसञ्जातपाशः भिन्नसारङ्गयूथः गजः न तपसः मूर्तः विघ्न इव धर्मारण्यं प्रविशति।

अथ समक्षे समागतां राज्ञो दुष्यन्तस्य सेना तद्दर्शनेन भयभीतं कञ्चनारण्यकगजं विलोक्य ससंभ्रममुच्यते—तीव्रेति। स्यन्दनस्य = दुष्यन्तरथस्य आलोकेन = दर्शनेन भीतः = त्रस्तः इति स्यन्दनालोकभीतः, मुखमभिगतः अभिमुखः तीव्रात् = दृढात् आघातात् = प्रहारात् अभिमुखः = संमुखो यस्तरुः = वृक्षः तस्य स्कन्धे = मूलशाखयोर्मध्यभागे लग्नः = संसक्तः एको दन्तः = रदनो यस्य स तीव्राघातप्रतिहतस्कन्धलग्नैकदन्तः, पादेन = चरणेन आकृष्टतः = आवर्जिताः व्रततयः = मार्गप्राप्तलताः तासां यानि वलयानि = मण्डलानि तेषां सङ्गेन संसर्गेण सञ्जातपाशः = प्राप्तबन्धनरज्जुः इति पादाकृष्टव्रततिवलयासङ्गसञ्जातपाशः = पादेन लताजालं वहन् पाशबद्ध इव प्रतीयमानः इत्यर्थः। भिन्नानि = विविक्तानि विद्रावितानि वा सारङ्गाणां = मृगाणां यूथानि = कुलानि येन स भिन्नसारङ्गयूथः गजः = हस्ती, नः = अस्माकं तपसः = अनुष्ठानस्य मूर्तः = मूर्तिमान् इव धृतदेह इव धर्मारण्यं = तपोवनं प्रविशति = आश्रमम् आगच्छति।

अथायमाशयः—राज्ञो दुष्यन्तस्य रथनेमिध्वनिमाकर्ण्य भयभीतो निजदन्तेन विद्धं दन्तेनैव समाकर्षन् पादेन मार्गस्थं लताजालं वहन् मार्गमध्ये समागतानां मृगाणां यूथं विद्रावयन् अस्माकं तपस्याया अन्तरायभूतः शरीरधारी विघ्न इवैष आरण्यक इदं धर्मारण्यं प्रविशति। अतो भोः भोः आश्रमवासिनः यूयं सर्वे अपसरत महता भयेन भीत एष आरण्यको गजः न दक्षिणतः, नाभिवामतः, अपि तु समक्षमेव धावति, मार्गे यद्-यद् आपतति तत् सर्वं मर्दयित्वा प्रचलति। तस्मात् शीघ्रं पलायित्वा मार्गमस्मै प्रज्ञाय आत्मनो रक्षा विधेया।

अत्र सङ्कर-श्रुत्यनुप्रास-स्वभावोक्ति-उत्प्रेक्षा-अप्रस्तुतप्रशंसा-काव्यलिङ्ग-परिकरालङ्काराश्च। भयानकौ रसः मन्दाक्रान्ता वृत्तं च ॥ ३२ ॥


और भी—

यह हाथी जिसका एक दांत सामने आये हुए वृक्षों में जोर से आघात करने से सट या टूट गया है। और लताओं के जाल को बलात् खींचने से जिसके पैर में लता-पाश सा लग गया है। हमारी तपस्या में साक्षात् विघ्नस्वरूप होकर आश्रम के मृगों के झुण्डों को छिन्न-भिन्न तथा विद्रावित करता हुआ सेना के रथों को देखने से भड़क कर इस आश्रम में प्रवेश कर रहा है ॥ ३२ ॥

**विशेष—**हाथी या किसी पशु को जिसने कभी रथ देखा ही नहीं हैं, घबड़ा कर भागना स्वाभाविक है। घबड़ाहट के कारण हाथी जो कुछ कर सकता है उसका वर्णन इस पद्य में किया गया है। हाथी के अस्वाभाविक दौड़ने को देखकर भयभीत मृगों का झुण्ड भी जिधर रास्ता पाता है उधर ही भागता जाता है जिससे उस आश्रम की वस्तुओं को छिन्न-भिन्न हो जाने के भय से उन्हें बचाने के निमित्त यहां तपस्वियों को सावधान किया गया है।