अभिज्ञानशाकुन्तलम् (विमला-चन्द्रकला संस्कृत-हिन्दी व्याख्या सहित)
Abhijnanashakuntalam with Sanskrit-Hindi Commentary
महाकवि कालिदास / डॉ. श्रीकृष्णमणि त्रिपाठी द्वारा
पृष्ठ 154, कुल 540 में से
संदर्भ में पढ़ें७२ अभिज्ञानशाकुन्तलम्
( सर्वा कर्णं दत्त्वा किंचिदिव संभ्रान्ताः )
राजा—( आत्मगतम् ) अहो धिक्। सैनिका अस्मदन्वेषिणस्तपोवनमुपरुन्धन्ति। भवतु। प्रतिगमिष्यामस्तावत्।
सख्यौ—अज्ज इमिणा आरण्णअवुत्तन्तेण पज्जाउलम्ह। अणुजाणाहि णो उडअगमणस्स [ आर्य अनेनारण्यकवृत्तान्तेन पर्याकुलाः स्मः। अनुजानीहि न उटजगमनाय। ]
राजा—( ससंभ्रमम् ) गच्छन्तु भवत्यः। वयमप्याश्रमपीडा यथा न भवति तथा प्रयतिष्यामहे। ( सर्व उत्तिष्ठन्ति। )
( सर्वाः = समग्राः कन्याः कर्णं = श्रवणं दत्वा = प्रयोज्य, ध्यानेनाकर्ण्य
किञ्चित् = ईषत् संभ्रान्ताः = व्यग्रा जाताः )
राजा—( आत्मगतं = स्वगतम् ) नेपथ्ये तपोधनोक्तिं श्रुत्वा तपोधनबाधामाशङ्क्याह—अहो इति। अहो इति विषादे, धिगिति निन्दायाम् सैनिकाः = सेनाभटा अस्मदन्वेषिणः अस्मान् = नः अन्विष्यन्ति = विचिन्वन्ति ये ते अस्मदन्वेषिणः सन्तः उपरुन्धन्ति = पीडयन्ति। तपःप्रतिरोधमाशङ्कमानो राजा तत्प्रतिकारोपायं विचार्य निश्चिन्वन्नाहं = भवत्विति। भवतु = अस्तु, प्रतिगमिष्यामः = निवतिष्यामहे, प्रत्यावृत्ता भविष्यामः। तावत् वाक्यालङ्कारे।
सख्यौ—आल्यौ प्रियम्वदा अनसूया च कथयतः—आर्ये ! अनेन = अमुना आरण्यकवृत्तान्तेन = वनगजगमनलक्षणेन पर्याकुलाः = व्याकुलीभूताः, भीताः स्मः नः = अस्मान्, आवां उटजगमनाय–उटजे = पर्णशालायां गमनाय = गन्तुम्, प्रयाणाय, अनुजानीहि = आज्ञापय।
राजा—( ससंभ्रमं = संभ्रमेण = व्यग्रतया सह ) उत्तरयति-भवत्यः=यूयं गच्छन्तु=यान्तु। वयमपि = अहमपि, यथा = येन प्रकारेण आश्रमपीडा = तपोवनोपरोधः, तपस्विजनानां क्लेशः न भवति = न स्यात् तत्र = तेन प्रकारेण प्रयतिष्यामहे = प्रयत्नं करिष्यामः। ( सर्वे = सकलाः अनसूया, प्रियम्वदा राजा च उत्तिष्ठन्ति-उत्थिताः। )
( सभी कान लगा कर कुछ घबड़ाई हुईं सी )
राजा—( मन ही मन ) बड़े अनर्थ की बात है कि मुझे खोजते-खोजते मेरे सैनिक इस तपोवन में गड़बड़ मचा रहे हैं तथा तपोवन को तहस-नहस कर रहे हैं।
विशेष—राजा दुष्यन्त अपनी सेना के सहित शिकार खेलने जङ्गल में गये हुए थे, पर मृग का पीछा करते-करते महर्षि कण्व के आश्रम में पहुँच गये। दूर चले जाने के कारण व्यग्र होकर सैनिकों को खोजना उचित ही है। धर्मराज के सैनिक यद्यपि धार्मिक कार्यों में बाधा नहीं उपस्थित करते फिर भी कर्तव्यपरायण होने के नाते दुष्यन्त का व्यग्र हो उठना स्वाभाविक ही है।
सखियाँ—महाभाग ! हाथी के इस उत्पात से हमलोग भी घबड़ा गये हैं। अतः हम लोगों को अपनी कुटी में जाने की अनुमति दीजिए।
राजा—( घबराइट के साथ ) अच्छा, आपलोग चलें, मैं भी ऐसा प्रयत्न करूँगा कि आश्रम को कोई पीड़ा न हो। ( सभी उठकर खड़े होते हैं )